वचनामृतपरिचयः
भगवत्स्वामिनारायणप्रोक्तेन वचनामृतेन गुर्जरभाषा भूषितेति नाविदितं विपश्चिताम्। वचनामृतं गुर्जरभाषायामपि गद्यसाहित्ये शिखरायितम् । आङ्गलभाषातः सर्वथाऽस्पृष्टं मध्यकालीनगुर्जरभाषासाहित्यस्य चरमसमयस्थम् अर्वाचीन- साहित्यस्यारुणोदयवेलास्थमिदम् इति ।
गुर्जरभाषायामितः पूर्वं प्रायः पद्यसाहित्यमधिकमिति तज्ज्ञानां मतम् । कवीश्वरो नर्मद ईशवीयाब्दात् १८२८ तः कर्नल जेरवीसनामकाङ्गलविदुषो गुर्जरगद्यारम्भम् असूचयत् । परब्रह्मस्वामिनारायणः ईशवीयाब्दे १८३० तमे स्वधाम जगाम । ततः पूर्वं परमहंसैः वचनामृतं सम्पादितम् । अतः गुर्जरगद्ये शिखरायितम् । वचनामृतशीर्षकमपि भगवन्मुखारविन्दान्निः सृतत्वेन मृत्युविजयरूपामृतप्राप्तिहेतुनाऽमृततुल्यत्वेन सार्थकम् ।
गुर्जरसाहित्ये शीर्षकाणामितिहासः
गद्यपद्यसाहित्ये मुख्यं शीर्षकं मामेरु, धीरजाख्यान, सतीगीता इत्यादिकं प्राप्यते । परं प्रत्येकस्मिन् पदे पदसमूहे वा विशिष्टमवान्तरं शीर्षकं प्रायः नावलोक्यते । प्रकरणम्, अध्याय इत्यादिशब्दैरेव तद् विज्ञायते । अवान्तरशीर्षकस्याविर्भावः पश्चात्तनकाले जात इति अनुभूयते । प्रथमं तु गुर्जरभाषागद्यमर्वाचीनम् । अवान्तरशीर्षकाणि तु ततोऽप्यर्वाचीनानि । गुर्जरभाषाया गद्यसाहित्येऽवान्तरशीर्षकारम्भः प्रायः दलपत-नर्मदयुगानन्तरमारब्धः । स च युगः भगवत्स्वामिनारायणस्या-क्षरधामगमनान्तरम् ईशवीयाब्दस्य १९३० तमस्यानन्तरमेव । तस्माद्धेतोर्वचनामृतेषु हस्तलिखितेषु ग्रन्थेष्वपि तन्नावलोक्यते । परं कस्मात् कालात्, केन प्रकारेण कीदृग्वैविध्यभरितानि शीर्षकाणि वचनामृतशास्त्रे प्राप्यन्ते तद्विविच्यते ।
वचनामृतेऽवान्तरशीर्षकाः
वचनामृतग्रन्थेऽवान्तरविभागा मुख्याः २६२ सङ्ख्याकाः सन्ति । प्रत्येकस्मिन् वचनामृते
तत्रावान्तरशीर्षकाणि प्रप्रथमं गोण्डलस्थ-श्रीस्वामिनारायणमन्दिरस्याश्रयेण विक्रमसंवत् २००७तमे वर्षे १९५१ ईशवीयाब्दे
मुद्रिते वचनामृतग्रन्थे ततश्च स्वामिनारायण-अक्षरपीठ-अमदावादनगरात् मुद्रितस्य वचनामृतग्रन्थस्यानेकास्वावृत्तिषु
विलोक्यन्ते । तेषां शोधदृष्ट्या विलोकनेन दश विभागा दृष्टिगोचरा भवन्ति । ते च यथा –
- वचनामृतस्थविषयानुसारम्
- अखण्डवृत्तेः ग.प्र.१,
अस्मिन् वचनामृते भगवन्मूर्तौ अखण्डमनोवृत्तिस्थापनं कठिनतमं साधनमिति वर्णितम्।
- वचनामृतगतकेवलार्थानुसारम्
- वचनामृतगतशब्दोपोतार्थानुसारम्
- एकैककावस्थायामवस्थाद्वयान्तर्निहितेति सा.६,
अत्र जाग्रत्-स्वप्नसुषुप्त्यात्मकतिसृष्ववस्थासु प्रत्येकस्यामन्या द्वेऽवस्थे विद्येते तस्य सुष्ठु निरूपणं वर्तते। जाग्रति स्वप्न-सुषुप्त्यवस्थे, स्वप्ने जाग्रत्सुषुप्त्यवस्थे सुषुप्तौ च जाग्रत्स्वप्नावस्थे इति।
- अन्वयव्यतिरेकवर्णनम् ग.प्र.७,सा.५, वर.७,
जीव-ईश्वर-ब्रह्म-परब्रह्मणाम् अन्वयव्यतिरेकलक्षणानि निरूपितानि। अतोऽन्वयव्यतिरेकशब्दोपेतमर्थप्रधानं शीर्षकम्।
- वचनामृतस्थशब्दानुसारम्
- देह-कुसंग-पूर्वसंस्काराणां वर्णनम् ग.प्र.५८. क्रोधि-ईर्ष्यालु-कपटि-मानवताम् ग.प्र.७६, जीवमनसोर्मित्रतायाः ग.अं.६.
अत्र शीर्षकस्थविषया विविच्य निरूपिताः।
- दृष्टान्तानुसारम्
- जलपूर्णघटनिक्षेपणस्य ग.प्र.२३।एतादृशवचनामृते प्रदत्तो दृष्टान्तः शीर्षके दृश्यते।
अत्र घटस्थजलस्य सकृत् प्रक्षेपणेन पृथ्वी हरिता न भवति परं स्वल्पा जलधारा सततं वहति चेत् तत्र सरःसदृशं
जायते इति दृष्टान्तेन भगवत्यनवरतं वृत्तिस्थापनाय प्रयतनीयमिति शिक्षयति।
- प्रश्नकर्त्रनुसारम्
- काकाभाईभक्तस्य – चौरपादलग्नकण्टकस्य ग.प्र.७०, कानदासस्य प्रश्नः वर.२, चिमनरावस्य प्रश्नः वर.६.
एते भक्तास्तत्तद्वचनामृते एकधा द्विधा वा अपृच्छन् । तं प्रष्टारमवलम्ब्यैतानि शीर्षकाणि ग्रथितानि।
- वचनामृतस्थशास्त्रसन्दर्भानुसारम्
- अंते या मतिः सा गतिः इति श्रुतेः ग.प्र.१४, एकोहं बहुस्यां प्रजायेय इति श्रुतेः ग.प्र.४१, वंदुप्रथमपदकीर्तनस्य ग.म.४८.
एतादृशेषु वचनामृतेषु तत्तत् सन्दर्भं श्रीहरिर्निरूपयति। अत्र प्रथमद्वितीययोः सन्दर्भयोः श्रुती न्यरूपयत्। तृतीये च प्रेमानन्दस्वामिकृतकीर्तनं निशम्य तदुपरि भगवत्स्मारकभक्तमाहात्म्यमगायत्।
- वचनामृतगतग्रामनामानुसारम्
- वृन्दावनस्य काश्याश्च ग.अं.१०.
- वचनामृतसन्दर्भगतव्यक्तिनामानुसारम्
- कृतघ्नि – सेवकरामस्य ग.प्र. १०, मांचाभक्तस्य – ग.म. ३८, जनकस्य ज्ञप्तिः, वर. २०, भरतस्याख्यानम्
ग.अं. १७. सीतासदृशज्ञप्तेः ग.अं.११.
- वचनामृतश्रीहरिसंस्थितस्थानानुसारम्
- जाराख्यधान्यखनेः ग.म. ३५, गङ्गाजलीयकूपस्य , ग.म. ६७.
वचनामृतशीर्षकेषूपनिषन्नामानि
वचनामृतग्रन्थः खलु भगवन्मुखान्निःसृतत्वाद् वेदतुल्यः प्रामाणिकः । तदुक्तं शतानन्देन मुनिना हरिवाक्य- सुधासिन्धोः सेतुमालाटीकायाश्चचरममङ्गलाचरणे श्रीरघुवीराचार्येण–
हरिवाक्यसुधासिन्धुः सर्वग्रन्थशिरोमणिः । विराजतेऽयं सकलसच्छास्त्रोपरि सर्वथा॥ १॥
सच्छास्त्राणां यथा वेदः प्रमाणमधिकं तथा । ग्रन्थोऽयं सर्वथैवाऽस्ति हरेरास्योद्भवत्वतः॥ २॥
अत एव पण्डितकृष्णवल्लभाचार्येण श्रीहरिवाक्यसुधासिन्धोर्वचनामृतभावानुवादात्मकस्य ग्रन्थस्यावान्तर- प्रकरणानां शीर्षकाण्युपनिषदन्तेन प्रदत्तानि यथा –
- अखण्डवृत्त्युपनिषद् गढपुरप्रथमप्रकरण-१
- सविकल्पनिर्विकल्पनिश्चयोपनिषद् लोया-१२
- श्रीहरिजन्मधारणोपनिषद् गढपुरमध्यप्रकरण-४८
- निर्विकल्पसमाद्युपनिषद् वरतालप्रकरण-१
- मानसीपूजोपनिषद् गढपुरअंत्यप्रकरण-२३
वचनामृतशीर्षकेषु दार्शनिकी दृष्टिः
दार्शनिकी दृष्टिः द्विधा सम्भवति ।
- साधारणचिन्तनद्वारा
- सम्प्रदायस्थापकाभिप्राय-तद्धेतुनिरूपणपरा
तत्र प्रथमा उपरोक्तेषु सन्दर्भेषु विलोक्यते । द्वितीयायै विचार्यते -‘मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।।’ (गीता ७/३) इतिवचनानुसारं जनसमवायेषु दार्शनिकी दृष्टिरेव दुर्लभा किमु कथा सिद्धान्त-अभिप्राय-हेतुप्रभृतिकं पक्षे निधाय, वचनामृतरहस्यं साररूपेण सूत्रात्मके शीर्षके संस्थाप्य किमपि प्रदानमिति। सा खलु महती सिद्धिः । अत्र कानिचिच्छीर्षकाण्युदाह्रीयन्ते यत्रैकत्र सैद्धान्तिकदृष्ट्या दार्शनिकदृष्ट्या गुणातीतानन्दस्वामिनः परम्परया प्राप्तेषु वचनामृतेषु सिद्धान्तप्रतिपादकानि शीर्षकाणि विलोक्यन्ते । अत्र चत्वारो दृष्टान्ता दीयन्ते ।
१. ग.प्र.२१ तमसङ्ख्याकम्
वचनामृतमिदं ध्येयं निर्दिशति। तच्च भगवदक्षरधाम, तस्यैव शब्दान् विलोकयामः ‘अक्षरस्य द्वे रूपे भवतः । एकं तु निराकारमैकरसं चैतन्यमस्ति । तच्चिदाकाशं कथ्यते, ब्रह्ममहालयं वा प्रोच्यते । तदेवाऽक्षरञ्च द्वितीयस्वरूपेण पुरुषोत्तमनारायणस्य सेवायामवतिष्ठते । (स्थानरूपम्) अक्षरधाम प्राप्तवान् भक्तो (मूर्तरूपस्य) अक्षरस्य साधर्म्यं प्राप्य पुरुषोत्तमनारायणस्याखण्डसेवायाम् (मूर्ताक्षरवद्) अवतिष्ठते। …तत्राक्षरधाम्नि अक्षरस्य साधर्म्यं प्राप्ता अनन्तकोटिमुक्ताः स्थिताः, ते सर्वे वर्तन्ते दासभावेन श्रीपुरुषोत्तमस्य । …अतः सर्वैः सत्सङ्गिभिर्निश्चयोऽत्र कार्यो यद् बृहत् तदक्षरधाम प्राप्य तन्मुक्तपङ्क्तौ (मूर्ताक्षरब्रह्मसाधर्म्यप्राप्तमुक्तपङ्क्तौ) स्थातव्यम् । अक्षरधाम गत्वाऽखण्डभगवत्सेवायां स्थातव्यमिति, परन्तु नश्वरं तुच्छं मायिकसुखं न कामयितव्यं नच कुत्रापि लुब्धव्यम् । एतादृशदृढनिश्चयं संरक्ष्य भगवत एकान्तिकी भक्तिर्विधेया ।’
अत्राक्षरब्रह्मणो रूपद्वयं विशेषरूपेण कीर्तितम् । एकं भगवद्धारूपेण सर्वान् धत्ते, द्वितीयञ्च साधकानामादर्शरूपमिति ग्रन्थावलोकनेन विज्ञायते । किञ्च भगवद्धामापि मूर्तं सन् भगवन्तं सेवते तन्नवीनम् । अत एव तस्य शीर्षके लेखनमुचितम् । तच्च गुणातीतानन्दस्वामिपरम्पराप्राप्तग्रन्थे विलोक्यते । यथा च तत् –
‘अक्षरब्रह्मणः स्वरूपद्वयस्य, एकान्तिकभक्तेः’ इति ।
२. ग.प्र.७१तमसङ्ख्याकम्
अस्मिन् वचनामृते – ‘जीवानां निःश्रयसे भगवान् यदा नरवपुर्धारयति तदा स्वीयाक्षरधाम्ना, चैतन्यमूर्तिपार्षदैः, निजैः सर्वैश्वर्यैः सहावतरति । …तस्माद् भगवत्स्वरूपं साक्षरधाम पृथिव्यां विराजत इति विज्ञेयमन्येषां समीपे चेयं वार्ता कथनीया।’ इत्येवमुपसंहारे श्रीहरिणाऽऽदिष्टाः सर्वे निजाश्रिताः। अस्मिन् वचनामृतेऽन्या अपि वार्ता भगवद्भक्तापराधनिषेध-साकारत्व-निरूपण-ईर्ष्यास्वरूपादिका विलोक्यन्ते । परं सिद्धान्तदृष्ट्या यद्विषयव्याहरणे स्वयं भगवान् आदिदेश सैव वार्ता तात्त्विक-दार्शनिकदृष्ट्योपकारिणीति । सा गुणातीतानन्दस्वामिपरम्परया प्राप्ते शीर्षके विलोक्यते –
‘भगवत्स्वरूपं साक्षरधाम विराजते तस्य’ इति ।
३. ग.म.९ सङ्ख्याकम्
वचनामृतेऽस्मिन् भगवत्स्वरूपस्य बलधारणवार्ता विद्यते । तद्घटकतया भगवत्स्वरूपस्य माहात्म्यं याथार्थ्येन श्रीहरिर्वदति । यथा च – ‘तस्मात्स्वेन प्राप्तं भगवत्स्वरूपं सदा दिव्यं साकारमूर्तिकं सर्वावताराणां कारणमिति विज्ञेयम् । यश्चैवं न जानीयान्निराकारं विभवान्तरतुल्यञ्च जानीयात् स खलु भगवतो द्रोग्धेति विज्ञेयम् ।’
प्रत्यक्षसहजानन्दं परब्रह्मभगवन्तमन्यैरवतारैस्तुल्यं न जानीयादिति खलु वैशिष्ट्यम् । अत एव गुणातीतानन्द- स्वामिपरम्परायां प्राप्तं शीर्षकमस्ति –
‘अवतारसदृशविज्ञानेन भगवद्द्रोहः’ इति ।
४. वच.ग.म.४२ सङ्ख्याकम्
अस्मिन् वचनामृते मुख्यो विषयोऽक्षरब्रह्मणः सगुणनिर्गुणरूपेण माहात्म्यम् । भगवन्माहात्म्यविज्ञानेऽक्षरब्रह्म- माहात्म्यं सेतुरूपम् ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।’ इति काठकोपनिषदुक्तेः । भगवान् स्वामिनारायणोऽपि वचनामृते परमात्मनो माहात्म्यकथनावसरे ग.प्र.५१, ६३, ६४ लो.१३ पं.१ ग.म.३ इत्यादिष्वक्षरब्रह्मणो माहात्म्यमवश्यं कथयति । अत एव परब्रह्मणोऽक्षरातीत एव विशेषणं सर्वश्रेष्ठमिति कथ्यते । अत एवास्मिन् वचनामृते भगवान् कथयति ‘पुरुषोत्तमो भगवान् प्रति ब्रह्माण्डं यथा स्वं रूपं प्रकाशनीयं तथा प्रकाशयति स्वयञ्चाक्षरधाम्नि सदैव निवसति । यत्र च पुरुषोत्तमस्य मूर्तिस्तत्राक्षरधाम्नो मध्यमिति विज्ञेयम्’ इति ।
गृहस्य वाऽन्यस्योद्घाटने यथा कुञ्चिकायाः स्थानं तथैव भगवन्माहात्म्योद्घाटने तथा तद्द्वारा चात्यन्तिककल्याणप्रापणेऽक्षरब्रह्मणः स्थानमिति । एवंरीत्याऽन्वयव्यतिरेकेणाक्षरब्रह्मणो माहात्म्यस्य भगवन्माहात्म्ये वैशिष्ट्यं विलोक्यास्य वचनामृतस्य शीर्षके कुञ्चिकाया इति परम्पराविचक्षणैः संस्थापितम् ।
‘सगुणत्वनिर्गुणत्वमक्षरब्रह्मणः, कुञ्चिकायाः’ इति ।
उपसंहारः
इत्येवंरीत्या शीर्षकाणामितिहासस्तेषां वैविध्यं तेषु दार्शनिकदृष्टीत्यादिकमत्र प्रतिपादितम् । अत्र वचनामृतशीर्षकाणि गोण्डलस्थश्रीस्वामिनारायण मन्दिरस्याश्रयेण मुद्रिताद् वचनामृतग्रन्थान्नीतानीति प्राक् कथितम् । तस्मिन् द्वितीयमुखपृष्टेऽक्षरब्रह्मणो गुणातीतानन्दस्वामिनश्चित्रमूर्तिं मुद्रित्वा तदधो लिखितमस्ति ‘वचनामृस्य रहस्यविज्ञाता तथा तं विज्ञापयिता सद्गुरुगुणातीतानन्दस्वामी’इति। भगवन्माहात्म्यविज्ञाने कुञ्चिकारूपोऽक्षरब्रह्मावतार एव वचनामृतानि सम्यग् ज्ञात्वा शीर्षकाणि प्रदातुं समर्थः इति दार्शनिक- दृष्टियुक्तशीर्षकाणि विलोक्य निश्चित्य कथयितुं न मनोऽवरुध्नाति ।
द्वितीयञ्च स्वामिनारायणाक्षरपीठप्रकाशितं वचनामृतं शीर्षकेषूपर्युक्तमेव वचनामृतग्रन्थं प्रायः अनुसरति । यतो हि स्वामिनारायणाक्षरपीठस्य मातृसंस्थायाः बोचासणवासीश्रीअक्षरपुरुषोत्तमसंस्थायाः स्थापकः स्वामी यज्ञपुरुषदासः शास्त्रिमहाराजस्तदनुयायिगुणातीतगुरवो योगिमहाराजः प्रमुखस्वामिमहाराजो महन्तस्वामिमहाराजश्च गुणातीतानन्द-स्वामिना भगवत्स्वामिनारायणस्य यद्रहस्य-सिद्धान्तज्ञानं निरूपितं तदेव गुणातीतज्ञानमनुसरन्तीति शीर्षकेतिहासा-वलोकनेनापि विज्ञायते ।
चित्रपट्टम्-१: કવિ શામળ ભટ, સુડાબહોતરી, પ્ર. પુરુષોત્તમ ગીગાભાઈ પટેલ, ભાવનગર, ૧૯૨૩.