Abstract
“अथ तत्र ब्रह्मज्ञानमार्गे त्विदं वेदितव्यं यद्, ‘ब्रह्म तु वर्तते निर्विकारं निरंशं चेति न तद् विकारम् आप्नुयाद्, न चाऽपि भवेयुस्तदंशाः।’ यच्च तस्य ब्रह्मणः सर्वरूपत्वमुच्यते तत् त्वेवमभिप्रायकं यत्, तदिदं ब्रह्म प्रकृतिपुरुषादिसर्वेषामपि कारणमाधारस्तत्सर्वेषु चाऽन्तर्यामिशक्त्या व्यापकं चेति यद् भवेत् कारणमाधारो व्यापकं च, तत्तु न भवेत् कार्यात् पृथगित्यभिप्रायम् उद्दिश्य हि शास्त्रं तस्य ब्रह्मणः सर्वरूपत्वमनुशास्ति, किन्तु न च तद् ब्रह्मैव विकारं प्राप्य चराचरजीवरूपं सञ्जातमिति वाच्यम्। अथ तस्माद् ब्रह्मणः पृथग् वर्तते परब्रह्म पुरुषोत्तमो नारायणः। स च ब्रह्मणोऽपि कारणमाधारः प्रेरकश्च। एवं विज्ञाय स्वकीयजीवात्मनस्तेन ब्रह्मणा सहैकतां विभाव्य परब्रह्मणः स्वामिसेवकभावेनोपासनाऽनुष्ठेया। इत्येवंरूपेण ज्ञाते सति ब्रह्मज्ञानमपि परमपदप्राप्तये वर्तते निर्विघ्नः पन्थाः।”
इत्येवंरूपेण परब्रह्मणा स्वामिनारायणेन वचनामृतेषु शतशो ब्रह्मविद्यायाः सरलः सुगमो निर्विघ्नः पन्था दर्शितः। एतादृश-वचनामृतादिमूलशास्त्रानुसारेणैव महामहोपाध्यायः स्वामिभद्रेशदासो ब्रह्मस्वरूपप्रमुखस्वामिमहाराजस्य परमकृपया प्रस्थानत्रयीस्वामि- नारायणभाष्यं सिद्धान्तसुधावादग्रन्थञ्चाग्रथ्नात्। यत्र च पूर्वोक्तवचनामृतादिशास्त्राणि सदेव दृष्टिसम्मुखं विधायाक्षरब्रह्मणः सर्वाधारत्व-सर्वव्यापकत्व-सर्वकारणत्वादिमाहात्म्यं परब्रह्मणा सहैव ग्रथितम्। शास्त्रेषु तद्विलोक्यापि तदसहमानाः स्वमेव पण्डितम्मन्यमानाः केचन प्राचीनाः शङ्कन्ते। का तेषां शङ्का? कीदृशञ्च समामाधानम्? तत्सर्वमत्र समाहितम्। प्रप्रथमक्षरब्रह्मणः सामर्थ्यवैभवं विलोकयिष्यामो येन शङ्कादार्ढ्यं परिपक्वं स्यात्।