Abstract
जगति विद्यमानानि सकलशास्त्राणि भवन्ति शीर्षकयुक्तानि। तत्तच्छीर्षकेणैव तत्तच्छास्त्रं प्रथते किल। यथा हि वेद-तदन्तर्गतसंहिता-ब्राह्मण-आरण्यक-उपनिषत्सु, तथा च रामायणमहाभारतादीतिहासा, भागवतादिपुराणानि, मन्वादिस्मृतयः, सांख्यादिदर्शनानीत्यादिसर्वग्रन्थेषु शीर्षकाणि दरीदृश्यन्ते। तत्र मुख्यग्रन्थस्य ततस्तदन्तर्गतमुख्यप्रकरणानां ततस्तदन्तर्गताऽवान्तरप्रकरणानाम् इत्येवं क्रमेण दृश्यते शीर्षकपद्धतिः। तथैव गुर्जरभाषानिबद्धे परब्रह्मस्वामिनारायणोप-दिष्टवचनामृतग्रन्थेऽपि प्रत्येकं वचनामृते शीर्षकाणि सम्प्रदायप्रसिद्धानि। गुर्जरभाषानिबद्धान्येतानि शीर्षकाण्येवाऽस्मिन् संशोधने चिन्तनविषयाणि। तथा हि कथं तत्तद्वचनामृतस्य कथं तत्तच्छीर्षकं संजातमिति संक्षेपेण विविच्य दर्श्यते। तदनु तेषां वचनामृतशीर्षकाणां दार्शनिकदृष्ट्या विहङ्गावलोकनेन हि शोधपत्रस्याऽस्य प्रधानो विषयः। तत्राऽपि द्वैविध्यम् अनुसृतम् – साधारणचिन्तनाऽनुसारं सम्प्रदायस्थापकपरब्रह्मस्वामिनारायणस्य सिद्धान्तानुसारं चेति।