Abstract
प्रमीयतेऽनेनेति प्रमाणमित्युक्तदिशा प्रमाकरणत्वं प्रमाणलक्षणं प्रसिद्धम्। दर्शनजगति प्रत्यक्षानुमानोपमानशब्दादिप्रमाणानि स्वीकृतानि। प्रमाणानामेषां प्रामाण्यविषयेऽनुभूयते यदिन्द्रियान्तःकरणानां लौकिकत्वात् केवलप्रत्यक्षप्रमाणस्याऽलौकिकतत्त्वनिर्णये नूनमकिञ्चित्करत्वम्। तथैवाऽनुमानोपमानयोरपि प्रत्यक्षोपजीव्यत्वाद् तदाधारभूतव्याप्तिज्ञानसादृश्यज्ञानयोश्च लौकिकपदार्थमात्रप्रसरात् तस्मिन् विषये केवलयोस्तयोरप्यसामर्थ्यम्। शब्देतरप्रमाणानां तादृश्येव गतिरित्यप्यनुभूयते। शब्दप्रमाणस्य प्रत्यक्षोपजीव्यत्वेऽप्याप्तवाक्यबलादाप्तस्य सत्योच्चारकत्वादलौकिकविषयेऽप्याप्तगतिसत्त्वाच्च लौकिकालौकिकोभयज्ञानप्रदायकत्वेन निर्णीतानां शब्दानामेव सर्वथा प्रामाण्यमिति कथयितुं शक्यते।
शब्दप्रमाणविषये भारतीयवैदिकपरम्परायां वेदानामपौरुषेयत्वात् सनातनज्ञानधारकत्वाच्च प्रामाण्यमस्तीति श्रद्धालूनामास्तिकानां सत्योद्धोषः। नैयायिकादयो दार्शनिकास्त्विश्वरोक्तत्वाद् वेदप्रामाण्यं स्वीकुर्वते। एतदाम्नायवदेव परब्रह्मस्वामिनारायणप्रबोधितं वचनामृतशास्त्रमपि प्रमाणभूतम्। स्वामिनारायणसम्प्रदायस्य मूर्धन्यंमिदं तत्त्वज्ञानसाधनादिविषयप्रज्ञापकं शास्त्रं मया सम्यगधीतमालोडितञ्च। ग्रन्थेऽस्मिन्नवगाहने वेदप्रामाण्यविषयकप्रदर्श्यमाना हेतवो वचनामृतप्रामाण्यविषयेऽपि सङ्गच्छन्त इति निश्चीयते। नूनं ब्रह्मविद्योपदेष्टॄणां मन्त्रद्रष्टॄषीणां निर्दम्भत्वं स्पष्टवक्तृत्वं निःस्पृहत्वमित्यादि सद्गुणा उपनिषदादिशास्त्रप्रसिद्धाः। तथैव वचनामृतोपदेष्टुः परब्रह्मस्वामिनारायणस्यापि स्ववचनैरेव निर्दम्भत्वसत्यवक्तृत्वादिसद्गुणा दरीदृश्यन्ते। श्रोतृपरीक्षणं विधायोपदेशदानं वेदप्रणाली वचनामृतमपि बिभ्रति। खल्वपरोक्षानुभूतियुक्तेन स्वयं परब्रह्मणा निगदितत्वाद् ग्रन्थस्यास्य परमप्रामाण्यमेव।
ग्रन्थनिर्माणप्रक्रियायां नियुक्ताः परमहंसा अपि लौकिककामनाविरहिताः परमात्मप्रसन्नतामात्रेच्छुका निर्मानत्वनिर्दम्भत्वादिनैकसद्गुणमण्डिता अवर्तत। परमात्ममुखान्निःसृता वाणी तथैव ग्रन्थे विराजेतेत्येव तेषां निर्णयः। स्वयं शास्त्रवक्त्रा परब्रह्मणा स्वामिनारायणेनापि स्ववचनामृतग्रन्थोऽयमवलोकितः।
शोधपत्रेऽस्मिन् वेदप्रामाण्यहेतुपुरःसरं वचनामृतप्रामाण्यविषये निःसन्दिग्धत्वेन निर्णयो भवेदिति प्रस्तुतिर्भविष्यति।