अक्षरपुरुषोत्तमदर्शनदृष्ट्या दहरविद्यायाः पर्यालोचनम्

अक्षरपुरुषोत्तमदर्शनदृष्ट्या दहरविद्यायाः पर्यालोचनम्

Abstract

         प्रस्थाप्यते ब्रह्मविद्या यस्मिन् यद्वा प्रतितिष्ठति प्रतिष्ठामाप्नोति ब्रह्मविद्याऽनयेति प्रस्थानमित्युक्तदिशा त्रयाणां प्रस्थानानां शास्त्राणां समूहः प्रस्थानत्रयीति संज्ञा प्रसिद्धा। तानि च शास्त्राणि दर्शनजगत्युपनिषद्ब्रह्मसूत्रश्रीमद्भगवद्गीतेति स्वीकृतानि। पुनश्चास्याः प्रस्थानत्रय्या भाष्यपरम्परा हि भारतवर्षे प्राचीनकालत आरब्धा। वेदान्तशाखायां भगवत्पादशङ्कराचार्यादारभ्य समये समये परिशीलनपुष्टा भाष्यकाराः प्रकाशमानीताः। स्वकीयदर्शनस्य सिद्धान्तानुसारं स्पष्टतयैकसूत्रतया च प्रस्थानत्रयग्रन्थानां भाष्यं भवेदिति सर्वेषां सत्प्रयत्नः। साम्प्रतेऽस्मिन् कालेऽद्य २१ तमशताब्देः स्वामिनारायणाऽऽख्यभाष्यग्रन्थाः सकलां प्रस्थानत्रयीमुपकुर्वन्ति। प्रस्थानत्रयस्वामिनारायणभाष्याण्यक्षरपुरुषोत्तम­दर्शनमनुसरन्ति। तथा च दर्शनस्याऽस्य प्रस्थापकः परब्रह्मस्वामिनारायणो विद्यते। वचनामृतञ्चेदं वर्तते मुख्यग्रन्थो दर्शनस्य। उत्पद्यते जिज्ञासाऽत्र यदिमानि नूतनानि भाष्याणि किं स्वसिद्धान्तानुसारमेव विद्यते न वा? किं प्रस्थानत्रयान्तर्गतविचारान् परब्रह्मस्वामिनारायण­प्रबोधितसिद्धान्तान् च केन्द्रीकृत्यैकसूत्रतया रचितम्? इमामाशङ्कां समाधातुं प्रवर्तत इदं शोधपत्रम्। परब्रह्मस्वामिनारायणेन जीवेश्वरमायाब्रह्मपरब्रह्मेतिनित्यपञ्चतत्त्वानि प्रबोधितानि सन्ति। तेष्वत्र ‘अक्षरब्रह्म’ इत्येकं तत्त्वमधिकृत्य विचारो करिष्यते। यथा परब्रह्मणाऽक्षरब्रह्म­तत्त्वमधिकृत्य “तदिदं ब्रह्म प्रकृतिपुरुषादिसर्वेषामपि कारणमाधारश्च,”[1] “सर्वाधाररूपोऽयम् आकाशस्तु निर्विकारी अनादिश्च। तादृशो यदाकाशः तत्तु ब्रह्म उच्यते चिदाकाश उच्यते,”[2] “अक्षरं तु पुरुषोत्तमभगवतो धाम”[3] इत्यादिरीत्याऽक्षरतत्त्वसम्बन्धिनो बहवः सिद्धाताः स्थापिताः। इमे सिद्धान्ताः स्वामिनारायणभाष्यकारेणाऽपि यथासमयं सुस्पष्टायिताः। यथा छान्दोग्योपनिषदि दहरविद्यानिरूपणावसरे भूताकाशचिदाकाशयोर्भेदं दर्शयन् भाष्यकारो वर्णयति “आकाशः चिदाकाशाख्यमक्षरं ब्रह्म। प्रत्यक्षसिद्धे वस्तुनि महत्त्वमभिप्रेत्य तदाधारेण चिदाकाशाऽक्षरब्रह्मविषयेऽल्पताभ्रमापनोदनायैवेदमुदाहरणम्। वस्तुतस्त्वक्षरं ब्रह्म त्वनन्तं लौकिकाऽऽकाशादीनामाधारभूतं कारणं च। इत्थं भूताकाशाऽत्यन्तविलक्षणोऽप्ययं प्रकाशविशेष-निमित्तयोगेनाऽऽकाशशब्देन व्यपदिश्यते।”[4] इति। इत्थं स्वामिनारायणभाष्याणि परब्रह्मवचनान्यनुसृत्यैवैकसूत्रतया सुसङ्गतया च दरीदृश्यन्ते। इत्थमनेन शोधपत्रेण परब्रह्मवचनपुरःसरं मूलमन्त्रश्लोकसूत्राणि पुरस्कृत्यऽक्षरब्रह्मतत्त्वदृष्ट्या प्रस्थानत्रय­स्वामिनारायणभाष्याणामेकसूत्रता निःसन्दिग्धतया वर्तत इति निर्णयो भविष्यति।

[1].       (ग.म. ०३) (परब्रह्मस्वामिनारायणः, वचनामृतम् ३५६)

[2].       (ग.प्र. ४६) (परब्रह्मस्वामिनारायणः, वचनामृतम् ८७)

[3].       (ग.प्र. ६३) (परब्रह्मस्वामिनारायणः, वचनामृतम् १२१)

[4].      (छा. ८/१/३) (महामहोपाध्यायः साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम् ३४४)

Copyright (c) 2025 The BAPS Swaminarayan Research Journal

How to Cite

Acharya, S. (2025). अक्षरपुरुषोत्तमदर्शनदृष्ट्या दहरविद्यायाः पर्यालोचनम्. The BAPS Swaminarayan Research Journal, 4(2), 141–158. Retrieved from https://research.baps.org/journal/index.php/BSRJ/article/view/04_02_07

© Akshardham Center for Applied Research in Social Harmony (AARSH) | Terms of Use | Privacy Policy