ब्रह्मसूत्रस्वामिनारायणभाष्ये गुहाप्रविष्टाधिकरणपर्यालोचनम्

ब्रह्मसूत्रस्वामिनारायणभाष्ये गुहाप्रविष्टाधिकरणपर्यालोचनम्

Abstract

        महर्षिकृष्णद्वैपायनबादरायणवेदव्यासविरचितं श्रुतिस्मृतिसिद्धान्तनिश्चायकं ब्रह्मसूत्रशास्त्रं खलु चतुःपादात्मकाऽध्यायचतुष्टयस्वरूपकम्। प्रत्येकाऽध्यायगतपादा अधिकरणैर्विनिर्मिताः, प्रत्येकस्मिन्नधिकरणे च विभिन्नसङ्ख्याकानि सूत्राणीत्येवं शास्त्रगुम्फनम्। ग्रन्थेऽस्मिन् जिज्ञासाऽधिकरणगताद् “अथातो ब्रह्मजिज्ञासा”[1] इति सूत्रादारभ्य जिज्ञास्यमान­­ब्रह्मतत्त्वनिर्णीतिपुरःसरं तदानुषङ्गिकविषयांश्च संस्पृश्य “अनावृत्तिः शब्दादनावृत्तिः शब्दाद्”[2]  इति ग्रन्थाऽन्तिमसूत्रपर्यन्तं सूचेरनुसर्तृदोरकवद् मालामणिषु वा संसृतदोरकवद् वेदान्तोक्त­सिद्धान्तानामैकसौत्र्यं वरीवर्ति। शास्त्रस्यास्य सूत्राण्युपयुज्य शङ्कराचार्यादिविद्वद्वर्या भाष्याणि विरच्य स्वाभिप्रेतसिद्धान्तान् पर्यपोषयन्। तत्र परब्रह्म­स्वामिनारायण­प्रबोधितमक्षर­पुरुषोत्तमदर्शनमधिकृत्य विद्वद्वर्येण भद्रेशस्वामिना विरचितं प्रस्थानत्रयभाष्यमेकतमम्। ब्रह्मसूत्रस्वामिनारायणभाष्यस्य गुहाप्रविष्टाधिकरणमत्रास्ति शोधविषयः।

        अथ प्रस्थानत्रयस्वामिनारायणभाष्यं मयाऽधीतम्। तत्र गुहाप्रविष्टाधिकरणे निर्दिष्टानां सूत्राणामर्थेष्ववलोकितं मया वैशिष्ट्यम्। शाङ्करभाष्यश्रीभाष्यादिग्रन्थेषु निर्दिष्टार्थतः स्वामिनारायणभाष्य-प्रोक्तार्थभेददर्शनेन जायते जिज्ञासाऽर्थानां साधर्म्यवैधर्म्यविषयिणी। किञ्चाऽर्थपरीक्षणपद्धतिमनुसृत्य दर्शनेऽस्मिन् दर्शितस्यार्थस्य सुसङ्गतत्वमस्ति न वेत्यपि भवति परीक्षणीयम्। तदेतत्सर्वं शोधपत्रेऽस्मिन् विम्रक्ष्यते।

        खलु दृश्यते साक्षात्क्रियते सनातनसत्यसिद्धान्तो येनेति दर्शनमित्येवं दर्शनशास्त्राणां नूनं शाश्वतसत्यमार्गणे प्रवृत्तत्वात् पर्यालोचनेनाऽर्थपरीक्षणं भवत्यावश्यकम्। परि-आ­इत्युपसर्गद्वयपुरःसरं लोच्-धातोः सम्यगवलोकनार्थकत्वम्। अक्षरपुरुषोत्तमदर्शनस्य वैदिकत्वे सति नूतनत्वात् स्याच्छोधकार्यमिदमपूर्वम्। अनुसन्धानमिदं दर्शनविषयकत्वात् तात्त्विकम्, भावप्राधान्यनिर्णयाद् गुणात्मकम्, भाष्यपरीक्षणद्वारा निर्णयप्रदर्शकत्वाच्च भवति समीक्षात्मकम्।

[1].       (ब्रह्मसूत्रम् १/१/१) (महामहोपाध्यायः साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३)

[2].       (ब्रह्मसूत्रम् ४/४/२२) (महामहोपाध्यायः साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४३१)

Copyright (c) 2025 The BAPS Swaminarayan Research Journal

How to Cite

Dr. Gnantruptdas Swami. (2025). ब्रह्मसूत्रस्वामिनारायणभाष्ये गुहाप्रविष्टाधिकरणपर्यालोचनम्. The BAPS Swaminarayan Research Journal, 4(2), 127–140. https://doi.org/10.70855/bsrj/4.2-6

© Akshardham Center for Applied Research in Social Harmony (AARSH) | Terms of Use | Privacy Policy