Abstract
“ऋचोऽक्षरे परमे व्योमन्...,”[1] “यदक्षरं वेदविदो वदन्ति...”[2] इत्यादि-श्रुतिस्मृतिशास्त्रेषु नैकवारं समाम्नातं स्मृतं वा बहु प्रसिद्धम् अक्षराऽख्यं तत्त्वं भारतीय-तत्त्वज्ञान-क्षेत्रे अश्रुतं विस्मृतं चाऽभूदिति प्रास्तौद् जर्मनीस्थिते कील-विश्वविद्यालये डॉ. पि.एम.मोदी स्वकीये Akṣara - A Forgotten Chapter in the History of Indian Philosophy इतिशीर्षकयुते शोधप्रबन्धे।[3] यद्यपि तत्त्वमिदं निरूपयितुं भारतीय-पाश्चात्यादयो नैके दार्शनिकाः ग्रन्थकाराः विद्वांसो वा यथाशास्त्राऽवगति प्रायतन्त, तथापि तत्त्वज्ञानदृष्ट्या तन्निरूपणे न तादृशी स्पष्टता दृश्यते यादृशी परब्रह्म-स्वामिनारायण-कृत-निरूपणे। अत एवाऽलिखन्नभिनव-भाष्यकाराः साधुभद्रेशदासाः यद्, “वेदवेदान्तशास्त्रेषु प्रच्छन्नं गूढमक्षरम्। प्रथममुज्जुघोषाऽत्र स्वामिनारायणो भुवि॥”[4] इति।
भारतीय-तत्त्वज्ञान-क्षेत्रे प्राक्प्रसिद्धं पश्चाद्विस्मृतं साम्प्रतं च पुनरतिप्रसिद्धमिदमक्षरतत्त्वमधिकृत्य वर्तमानविद्वद्वर्गे बहुजिज्ञासाः उत्पद्यन्ते - वस्तुतः किमिदमक्षरतत्त्वम्? वेदादिशास्त्रेषु कुत्र कैश्च शब्दैः तद्वर्णनम्? तत्र निहितानामक्षराऽख्यतत्त्वविशेषवाच्यानां तत्तच्छब्दानामर्थकरणे किं भाषितं भारतीय-दार्शनिकाऽऽचार्यैः? तेष्वर्थेषु कस्याभिमतोऽर्थः मूलशास्त्रं सर्वाधिकतयाऽनुसरति? का ह्यस्याऽक्षरतत्त्वस्य ज्ञानस्यावश्यकता? इत्यादयः। बहुजिज्ञास्यानां प्रश्नानामेतेषां समाधाने अल्पायासो विधास्यते शोधपत्रेऽस्मिन्।
“अक्षरं ब्रह्म परमम्,”[5] “ॐ इत्येकाक्षरं ब्रह्म,”[6] “अव्यक्तोऽक्षर इत्युक्तः”[7] इत्यादिशब्दैः अक्षरतत्त्वस्य श्रीमद्भगवद्गीतायां बहुस्मरणात् शोधपत्रेऽस्मिन् अक्षरतत्त्वविमर्शः श्रीमद्भगवद्गीताशास्त्रमाधारीकृत्य विधास्यते। तत्त्वार्थमवगन्तुं दार्शनिक-क्षेत्रे बहुप्रसिद्धं श्रीरामानुजाचार्यप्रणीतं विशिष्टाद्वैत-दर्शनं तथा च साम्प्रतं बहुप्रसिद्धिमाप्तं परब्रह्म-स्वामिनारायण-प्रबोधितम् अक्षरपुरुषोत्तम-दर्शनम् इति दर्शनद्वयमधिकृत्य विमर्शोऽयं विधास्यते। आधारग्रन्थतया श्रीमद्भगवद्गीता-रामानुज-भाष्यं श्रीमद्भगवद्गीता-स्वामिनारायण-भाष्यं च प्रधानतया गृहीतम्।
[1]. (ऋग्वेदः १/१६४/३९) (ऋग्वेदः ४६६)
[2]. (गी. ८/११) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् १८२)
[3]. (પ્રસ્તાવના) (સાધુ શ્રુતિપ્રકાશદાસ ૭)
[4]. (कारिका ६०) (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तकारिकाः ११)
[5]. (गी. ८/३) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् १७३)
[6]. (गी. ८/१३) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् १८५)
[7]. (गी. ८/२१) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् १८९)
