Abstract
“परं दृष्ट्वा निवर्तते,”[1] “महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते।”[2] एवं परतत्त्वावगमेन दुःखदोषपाशविदारणं शास्त्रेषु भूर्युपदिष्टम्। अतः किं तत् परमतत्त्वम्? कतिविधं च तत्? कीदृशं तत्स्वरूपम्? इत्याद्याः जिज्ञासाः समुद्भवन्ति। तत्सन्तुष्ट्यर्थमेव सकलशास्त्रेषु परमतत्त्वं क्वचित् स्फुटतया गूढतया चोपदिष्टमिति शास्त्राऽभ्यासेन दरीदृश्यते। नैकैराचार्यैः स्वस्वसिद्धान्तानुसारं शास्त्रोक्तं परमतत्त्वं निरूप्य तज्ज्ञानेन मुक्तिः स्वीकृताऽस्ति। यथा आद्याचार्यशङ्कराचार्यैः निर्गुणं शुद्धमेकं ब्रह्मतत्त्वं परमतत्त्वत्वेन परमार्थत्वेन निरूपितम्। श्रीमद्रामानुजाचार्यैः परमार्थत्वेन जीव-माया-परमात्मेति तत्त्वत्रयं स्वीकृत्य परमात्मज्ञानेन मुक्तिरुपदिष्टा। तत्परम्परायां परब्रह्मभगवत्स्वामिनारायणेन जीव-ईश्वर-माया-ब्रह्म-परब्रह्मेति नित्यानि पञ्च तत्त्वान्युदिष्टानि। तत्त्वपञ्चकेऽस्मिन् अक्षरब्रह्म-परब्रह्म चेति तत्त्वद्वयं नित्यं प्रकृतिपरतया स्वीकृत्य ब्रह्मसाधर्म्यपूर्वकपरब्रह्मपरोपासनमेव मुक्तिरिति सिद्धान्तितम्।
समालोचनेन विज्ञायते यद् वेदान्तदर्शनपरम्परायाम् आचार्यैः प्रायः प्रकृतिपरभूतं एकमेव तत्त्वं सन्दर्शितम्, किन्तु परब्रह्मभगवत्स्वामिनारायणप्रबोधितेऽक्षरपुरुषोत्तमदर्शने नित्यं मायापरभूतं अक्षरब्रह्म परब्रह्म चेति तत्त्वद्वयं स्वीकृतमिति विशिष्टं विलोक्यते। विशिष्टमिदं प्रस्थानत्रयीशास्त्रानुसारं कीयद्योग्यमित्यपि विमृश्यम्, यतो हि द्वयोः ब्रह्मपरब्रह्मणोः नित्यत्वप्रकृतिपरभूतत्वाद्यविशेषत्वाद् कुतः द्वयोर्भेदः? भेदश्चेद् द्वयोर्मिथः कः सम्बन्धः? इति संशयः समुदेति। तत्संशयसमाधये निश्चयाऽऽप्तये च “अक्षरपुरुषोत्तमदर्शनानुसारं ब्रह्मपरब्रह्मसम्बन्धः विशिष्टमध्ययनम्।” इति विषयः शोधपत्रेऽस्मिन् प्रस्थानत्रयीमूलशास्त्राणां महामहोपाध्यायसाधुभद्रेशदासविरचित-प्रस्थानत्रयीस्वामिनारायणभाष्य-स्वामिनारायणसिद्धान्तसुधादिदार्शनिकग्रन्थानाञ्च प्रमाणपुरःसरं यथाऽवकाशं युक्तियुतं सतर्कञ्च प्रस्थापयिष्यते। विषयेणानेन परमुक्त्यौपयिकी अक्षरपुरुषोत्तमदर्शनाभिमततत्त्वप्रज्ञा पुष्टिमेष्यति। शोधपत्रमिदं दर्शनजगति अक्षरपुरुषोत्तमदर्शनस्य तात्त्विकसिद्धान्तानां शास्त्रीयत्वं स्थापयितुमौपयिकं भविष्यतीति।
[1]. (गीता. २/५९) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् ६१)
[2]. (कठ. ३/१५) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १३५)
