Abstract
परमकरुणावरुणालयः परमात्मा प्रत्यक्षतयाऽवतरतीति “विजायते,”[1],[2] “तदेजति,”[3] “सम्भवामि युगे युगे”[4] इत्यादिवचनेषु सिद्धान्तितम्। तदनुसारं च सनातनवैदिकपरम्परायां बहवः प्रत्यक्षपरमात्माऽवताराः समभवँस्तद्भक्तैश्च ते यथाश्रद्धं समुपासिता अपि।
परब्रह्मस्वामिनारायणोऽपि “भगवान् स्वयमेव दयया जीवानां परमकल्याणार्थं सम्प्रति प्रकटप्रमाणः सन् साक्षात्त्वेन वर्तते युष्माकं सर्वेषां दृष्टिगोचरः,”[5] “अहमेव पुरुषोत्तमः,”[6] “अहमेतैः साधुभिः सहितं जीवकल्याणार्थं प्रकटितः”[7] इत्यादिवचनैः स्वयं प्रत्यक्षः परमात्मेति प्रतिपादयामास। तत्कालीनैश्च लक्षशो भक्तैः “साम्प्रतिकाः सर्वे हरिभक्ता एवमवगच्छन्ति यद्, “अक्षरातीतः पुरुषोत्तमो भगवान् ह्यस्माभिः प्रत्यक्षं प्राप्तः, वयं च कृतार्थाः’ इत्येवमवगम्य प्रत्यक्षभगवदाज्ञायां वर्तमानास्तद्भक्तिमनुतिष्ठन्ति,”[8] “स्वयं तु वर्तते साक्षात् पुरुषोत्तमो नारायणः”[9],[10],[11],[12] इत्याद्येवं स्वामिनारायणः प्रत्यक्षपरमात्मधिया भक्तितः समुपासितोऽपि।
किञ्च परब्रह्मस्वामिनारायणः स्वोपदेशे हि प्रत्यक्षपरमात्मस्वरूपस्य दर्शनश्रवणमनननिदिध्यासैस्तत्साक्षात्कारः,[13] प्रत्यक्षपरमात्मस्वरूपध्यानम्,[14] प्रत्यक्षपरमात्मस्वरूपे दिव्यभावो निर्दोषभावश्च,[15],[16],[17] प्रत्यक्षपरमात्मस्वरूपज्ञानं,[18] प्रत्यक्षपरमात्मस्वरूपनिश्चयः,[19],[20] प्रत्यक्षपरमात्मस्वरूपदृढाश्रयः,[21],[22],[23] प्रत्यक्षपरमात्मस्वरूपप्राप्तिविचारः[24],[25] इत्यादीनि परममुक्तये प्रत्यक्षपरमात्मानमनुलक्ष्यैव बहूनि साधनानि नियमेनाऽनुष्ठेयतया समुज्जुघोष। तदिदं सर्वं साधनाऽनुष्ठानं परब्रह्मस्वामिनारायणसमकाले तु तस्यैव प्रत्यक्षपरमात्मत्वात् सुलभमासीत्। किन्तु तदुत्तरकाले कथं खलु परमात्मनः प्रत्यक्षत्वं कथं वा प्रत्यक्षपरमात्मस्वरूपमनुलक्ष्य साधनाऽनुष्ठानमिति महती विप्रतिपत्तिः शक्यसम्भवा। तस्या एव विप्रतिपत्तेः “जीवेनाऽनेन यदा भरतखण्डे मनुष्यदेहोऽवाप्यते तदा भगवदवतारो भगवत्साधुर्वाऽवश्यं पृथिव्यां विचरन् स्यात्; तं यदि जीवोऽयं परिचिनुयात्, तर्हि स जीवः सञ्जायते भगवद्भक्तः।”[26] इत्यादिभिः परब्रह्मस्वामिनारायणवचनैस्तदनुसारं च सम्प्रदायपरम्पराऽवस्थिताऽक्षरब्रह्मस्वरूपगुरुवचनैः[27] पर्यालोच्य समाधानमेवाऽस्य शोधपत्रस्य प्रधानो विषयः। तत्राऽपि सम्प्रति साक्षाद् अक्षरब्रह्मस्वरूपसत्पुरुषद्वारैव परब्रह्मस्वामिनारायणाऽभिमतं तत्परम्पराऽभिमतं च परमात्मप्रत्यक्षत्वं विशेषतो विमृश्य प्रतिपाद्यते। शोधपत्रेऽस्मिन् परब्रह्मस्वामिनारायणप्रबोधितं वचनामृतं, परब्रह्मस्वामिनारायण-जीवनचरित्रं, तत्परम्पराऽवस्थितगुरुपरम्परा-जीवनचरित्राणि, गुरुपरम्परोदिष्टग्रन्थाः, परब्रह्मस्वामिनारायणदीक्षितसाधुभिर्विरचितानि पद्यानि, स्वामिनारायणसिद्धान्तसुधा चेत्यादयः प्रमाणतया विशेषेणाऽङ्गीकृताः। तदिदं शोधपत्रं प्रत्यक्ष-परमात्मस्वरूपदिदृक्षूणां प्रत्यक्षपरमात्मस्वरूपपरिचयतः प्रत्यक्षपरमात्मस्वरूपदर्शनभक्त्यादिलाभजन्यं परमशान्ति-परमसुख-परिपूर्णकामत्व-कृतार्थत्व-धन्यतादिकं जनयिष्यतीति भाव्यते।
[1]. (तै.आ. ३/१३/१) (संपादित, तैत्तिरीयारण्यकम् (भट्टभास्करभाष्यसहितम्) ३०४)
[2]. (शु.यजुः. ३१/१९) (संपादित, शुक्लयजुर्वेदसंहिता (श्रीमद्वाजसनेयिमाध्यन्दिनशाखा) ७०५)
[3]. (ई. ५) (महामहोपाध्यायः साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १४)
[4]. (गी. ४/७-८) (महामहोपाध्यायः साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् ९५)
[5]. शोधपत्रेऽस्मिन् वचनामृतशास्त्रस्य सन्दर्भा गुर्जरभाषाविभूषितस्य मूलवचनामृतशास्त्रस्य संस्कृताऽनुवादतः समुल्लिखिताः। (वच. ग.अं. ३१) (परब्रह्मस्वामिनारायणः ५४६)
[6]. (वच. अम. ७) (परब्रह्मस्वामिनारायणः ५८०)
[7]. (वच. जे. ५) (परब्रह्मस्वामिनारायणः ५९६)
[8]. (वच. ग.प्र. ३१) (परब्रह्मस्वामिनारायणः ४९-५०)
[9]. (वच. ग.प्र. ४४) (परब्रह्मस्वामिनारायणः ७५)
[10]. (वच. लो. १३) (परब्रह्मस्वामिनारायणः २५८)
[11]. (वच. लो. १४) (परब्रह्मस्वामिनारायणः २६१)
[12]. (वच. ग.अं. ३०) (परब्रह्मस्वामिनारायणः ५४५)
[13]. (वच. सा. ३) (परब्रह्मस्वामिनारायणः १५९-६०)
[14]. (वच. लो. ११) (परब्रह्मस्वामिनारायणः २५३)
[15]. (वच. पं. ७) (परब्रह्मस्वामिनारायणः २९९-३०१)
[16]. (वच. वर. १२) (परब्रह्मस्वामिनारायणः ४५९-६१)
[17]. (वच. ग.प्र. २४) (परब्रह्मस्वामिनारायणः ३६)
[18]. (वच. लो. ७) (परब्रह्मस्वामिनारायणः २३६-४०)
[19]. (वच. ग.म. १४) (परब्रह्मस्वामिनारायणः ३३८-३९)
[20]. (वच. वर. १) (परब्रह्मस्वामिनारायणः ४३८-३९)
[21]. (वच. ग.म. १३) (परब्रह्मस्वामिनारायणः ३३६-३७)
[22]. (वच. वर. १०) (परब्रह्मस्वामिनारायणः ४५५-५६)
[23]. (वच. ग.अं. ७) (परब्रह्मस्वामिनारायणः ४९५)
[24]. (वच. ग.प्र. ९) (परब्रह्मस्वामिनारायणः ११)
[25]. (वच. ग.प्र. २४) (परब्रह्मस्वामिनारायणः ३६-३७)
[26]. (वच. वर. १९) (परब्रह्मस्वामिनारायणः ४७२)
[27]. (स्वा. वा. ५/३९२ इत्यादि) (अक्षरब्रह्मगुणातीतानन्दस्वामी २३५)
