Abstract
विषयप्रवेशः
नैकसहस्रवर्षपर्यन्तं महामनीषिणाम् अनुभवपूतचिन्तनेन समृद्धे संस्कृतवाङ्मये निहितो ज्ञानवैभवोऽस्माकं गौरवस्थानम्। एषोऽस्माकं भव्यो भूतकालः। परन्तु किं सांप्रते काले संस्कृतवाङ्मये दीर्घकालप्रभावकं नूतनं प्रणयनं क्रियते न वेति जिज्ञासया प्राप्तोऽयं विषयः।
आधारग्रन्थपरिचयः
उपनिषदः, ब्रह्मसूत्राणि, श्रीमद्भगवद्गीता चेति शास्त्रत्रयं प्रस्थानत्रयी इति नाम्ना प्रसिद्धं वेदान्तविषये। एतस्याः प्रस्थानत्रय्या उपरि भगवतः स्वामिनारायणस्य सिद्धान्तम् अनुसृत्य महामहोपाध्यायेन स्वामिभद्रेशदासेन ख्रिस्ताब्दस्य एकविंशतितमस्य शतकस्यारम्भे भाष्याणि विरचितानि। एतेषां रचनाप्रक्रिया विषयीकृता एतस्मिन् शोधपत्रे।
विषयचयनहेतुः
संस्कृतभाषायाः गौरवं न केवलं शब्दप्रयोगादिदृष्ट्याऽपि तु तन्निहितगहनार्थदृष्ट्याऽपि। अस्माकं पूर्वसूरिभिः संस्कृतमाध्यमेन पुरस्कृतं ज्ञानं जनयति जिज्ञासूनामाकर्षणं। संस्कृतेन गर्भीकृते नैकविधविषयावलम्बितज्ञाने भजते तत्त्वज्ञानमप्यन्यतमं महत्त्वपूर्णं स्थानं। तत्र वेदान्तक्षेत्रे शङ्कराचार्यरामानुजाचार्यमध्वाचार्यादिभिस्तत्तन्मतमवलम्ब्य प्रस्थानत्रयभाष्यग्रन्थस्य रचनां कृत्वा यदमूल्यं दार्शनिकं प्रदानं कृतं तद् वर्तमानकालपर्यन्तं जिज्ञासूनाम् अध्ययनपठनमननादिविषय:। परन्त्वेतानि सर्वाण्यपि भाष्याणि नैकशतकपूर्वं रचितानि। अत: अद्यतनकाले कदाचिदेतावत् सर्जनं शक्यं न स्यादित्यनुक्तमान्यता विद्वज्जगति वरीवर्ति। परन्त्वाधुनिकसमये अपि पूर्वरचितभाष्यप्रयुक्तगभीरशैलीप्रचुराऽपूर्वप्रसिद्धमतावलम्बितविद्वज्जनग्राह्यप्रमााणसिद्धं प्रस्थानत्रयीभाष्यप्रणयनं न शक्यमितिमान्यतां निराकृत्य अद्यापि संस्कृतभाषायाम् उत्तमकृतीनां सर्जनं शक्यमिति अभिनवसंस्कृतसर्जकानां कृते आशादीपदर्शनम् अस्य विषयचयनस्य प्रयोजनम्। अन्यच्च शङ्कराचार्याद्याचार्याणां भाष्यग्रन्थाऽध्ययनावसरे अध्येतॄणां हृदये कथमेतस्य ग्रन्थस्य रचना जातेति जिज्ञासा प्रकटति। यदि पूर्वाचार्याणामुपस्थितावेव कश्चिद् तद्रचनाप्रक्रियाया अन्वेषणम् अकरिष्यत् तर्हि वर्तमानाध्येतॄणां कृते भूरि उपकारकम् अभविष्यद् इति चिन्तयित्वा भविष्यति काले स्वामिनारायणभाष्यस्य अध्येतॄणां जिज्ञासाया महान् संतोषो भवेदिति आशयोऽपि एतच्छोधनिबन्धस्य लेखने वर्तते।
शोधपत्रान्तर्गतबिन्दव:
१. प्रस्तावना : प्रस्थानत्रयीभाष्यपरम्परायाः महत्त्वम्, स्वामिनारायणभाष्यनिर्माणस्य उद्देश्यम् ।
२. भाष्यकारस्य सर्जने प्रस्थानत्रयीस्वामिनारायणभाष्यरचनाप्रेरकप्रमुखस्वामिमहाराजस्य भूमिका
३. भाष्यकारस्य शास्त्रसाधना
४. भाष्यकारानुभवानुसारं भाष्यरचनापरिश्रमविघ्नतन्निवारणवृत्तान्तः
५. विद्वज्जगति स्वामिनारायणभाष्योपरि विमर्श-चिन्तन-पर्यालोचन-स्वागत-अभिवादनानि
६. भाष्यरचनाफलश्रुतिः
शोधपत्रफलश्रुतिः
संस्कृतं न केवलं पूर्वकृतग्रन्थानां पठनपाठनविवेचनादिषु उपयुक्ता भाषाऽपि त्वद्यापि सा नूतनसर्जनस्यापि भाषेति संस्कृतवाङ्मयसर्जनधाराया अस्खलितता, जीवत्ता चानेन शोधपत्रेण प्रस्थापयिष्यते।
