Abstract
अस्मिन् शोधपत्रे भारतीयकाव्यशास्त्रस्य समृद्धपरम्परायां काव्यप्रयोजनस्य महत्त्वं गम्भीरतया विचारयितुं प्रयत्नः विहितः। काव्यं केवलं शब्दार्थयोः विलासः नास्ति, अपितु तत्कवेः प्रजापति-स्वरूपस्य तादृशी सृष्टिः, यत्र नियतिकृतनियमबन्धनस्य स्थानं न भवति। भगवद्गीतायाः निष्कामकर्मयोगस्य सिद्धान्तम् आधारभूमित्वेन स्वीकृत्य अत्र स्पष्टीक्रियते यत् काव्यप्रवृत्तौ ‘आसक्तिशून्यता’ एव परमं प्रयोजनं भवति। अत्र आचार्यमम्मटेन प्रोक्तानां यशः-अर्थ-व्यवहार-शिवेतरक्षति-परनिर्वृति-कान्तासम्मितोपदेशानां षट्प्रयोजनानां तुलनात्मकमध्ययनं कृतम् अस्ति। विशेषतः वाल्मीकिरामायणे महावीरचरिते च बालिवधप्रसङ्गस्य औचित्यं प्रदर्श्य एतत् साध्यते यत् काव्यं पुराणापेक्षया उत्कृष्टं व्यवहारज्ञानं दातुं शक्नोति। अपि च, पण्डितराजजगन्नाथस्य ‘परमाह्लादः’ तथा विश्वनाथस्य ‘चतुर्वर्गफलप्राप्तिः’ इत्यनयोः समन्वयं कृत्वा अत्र प्रतिपाद्यते यत् काव्यं सुकुमारमतीनां कृते मोक्षप्राप्तेः सुलभं साधनं भवति। अन्ते एषः निष्कर्षः स्थापितः यत् काव्यं कल्पवृक्ष इव अभीष्टफलं प्रदातुं समर्थं भवति।
