Abstract
रामायणमहाकाव्ये भ्रातृसम्बन्धस्य आदर्शस्थाने विशेषतया विचार्यते। लेखे “सौभ्रात्रम्” इत्यस्य नामप्रसङ्गेन भ्रातृभावस्य सामाजिके राष्ट्रिये च महत्त्वं विवेच्यते। प्रस्तावतो वैदिकसूक्तेषु भ्रातृसम्बन्धस्य प्रकाशः, तथा सौभ्रात्रस्य राष्ट्रनिर्णये समानताबन्धुत्वप्रेरकं स्वरूपं निर्दिष्टम्। मुख्यतो रामायणस्य प्रमुखसर्गेषु लक्ष्मणस्य रामेण सहाऽऽत्मीयभावनिरूपणं, भरतस्य रामपादुकानिवेदनात् स्वराज्यत्यागपराक्रमप्रतिमूर्तित्वं, शत्रुघ्नस्य भरतं प्रति समर्पितबलिदानं दृश्यते। लेखे पद्धतिगौरवाद् वैदिकश्लोकानाम् अनुशीलनं कुर्वन् साङ्केतिकनिर्देर्शे रामलक्ष्मणवार्ताः, रामभरतवार्ताश्च प्रत्येकेन संवादविश्लेषेण सम्यगवलोक्य विधिवद् विवेच्यन्ते। अस्मिन् विवेचने भ्रातृस्नेहे धर्मसत्यनिष्ठानां, त्यागदानयोः च यथार्थं दर्शनम् उत्पादितम्। अन्ते निष्कर्षतो घोषितं यच्श्रीरामायणं भ्रातृस्नेहस्याऽऽदर्शग्रन्थरूपेण स्वीकृतं, यत्र भ्रातृत्वे समर्पणं, विश्वासः, परस्परसंरक्षणं चाऽपरिहार्यधर्म इव प्रकटितम्।