श्रीपुरुषोत्तमक्षेत्ररहस्यम्

Abstract

अखिलाण्डकोटिब्रह्माण्डनायकस्य परमात्मनः परमपुरुषस्य पुरुषोत्तमस्य श्रीजगन्नाथस्य पवित्रतमं धाम पुरी भारतस्य पूर्वस्यां दिशि महोदधेः तीरे विराजते। भारतस्य चतुर्षु धामसु एतत् अन्यतमं भवति। अस्मिन् क्षेत्रे निर्मितं श्रीजगन्नाथमन्दिरं, तस्मिन्मन्दिरे पूजिताः चतुर्धा विग्रहाः कदा प्रतिष्ठापिताः अस्मिन् विषये आकलनं कर्तुं नैव शक्यते। वेदोपनिषदादिषु ग्रन्थेषु, पुराणेषु, संस्कृत-साहित्ये च अस्य क्षेत्रस्य विषये महती चर्चा क्रियते। विशिष्टतया पुराणेषु स्कन्द-ब्रह्म-ब्रह्मवैवर्त-नारदीयपुराणानि तथा च वामदेवसंहिता, कपिलसंहिता, नीलाद्रिमहोदयः इत्यादयः ग्रन्थाः अस्य क्षेत्रस्य वैशिष्ट्यं प्राचुर्येण प्रतिपादयन्ति। शोधप्रबन्धेऽस्मिन् एतेषु शास्त्रेषु ग्रन्थेषु वा चर्चितस्य श्रीपुरुषोत्तमक्षेत्रस्य तथा श्रीमन्दिरे श्रीजगन्नाथादिविग्रहाणां प्रतिष्ठायाः रहस्यं यथामति यथाशास्त्रं परिशील्यते। अधुना प्रायशः सर्वाणि तीर्थक्षेत्राणि कलुषितानि जायन्ते। धार्मिकभावना, सदाचारः, भक्तिपरायणता मानवेषु लुप्यन्ते। मन्दिराणां जीर्णता सर्वत्र दरीदृश्यते। अस्मिन् सन्दर्भे पुराणानां प्रचारप्रसारं कृत्वा तादृशानां पुण्यक्षेत्राणां तीर्थस्थलानां पुनारचना अपेक्ष्यते। तदर्थमयं शोधप्रबन्धः प्रकल्पितः।

Copyright (c) 2024 The BAPS Swaminarayan Research Journal

How to Cite

Dash, S. (2024). श्रीपुरुषोत्तमक्षेत्ररहस्यम्. The BAPS Swaminarayan Research Journal, 3(2), 131–158. Retrieved from https://research.baps.org/journal/index.php/BSRJ/article/view/03_02_06

© Akshardham Center for Applied Research in Social Harmony (AARSH) | Terms of Use | Privacy Policy