मध्वाचार्याणां तत्त्ववादः

Abstract

तत्त्ववादप्रतिष्ठापकानां मध्वाचार्याणाम् ऐतिह्यं तावत् नारायणपण्डिताचार्यकृतेन श्रीमध्वविजयमहाकाव्येन ज्ञायते। नारायणपण्डिताचार्यः त्रिविक्रमपण्डिताचार्यस्य पुत्रः। त्रिविक्रमपण्डिताचार्यस्तु मध्वाचार्याणां साक्षाच्छिष्यः। अतः मध्वाचार्यसमीपकालीनेन विदुषा ग्रथितमिति अस्त्येव मध्वविजयमहाकाव्यस्य प्रामाण्यम्। द्वैतमतप्रतिष्ठापनाचार्यः मध्वाचार्यः सा.श. १२ शतके उडुपिक्षेत्रसमीपे पाजकनामकग्रामे अवततार। पूर्णप्रज्ञ इति एतेषामाश्रमनाम। आनन्दतीर्थ इति च वेदान्तसाम्राज्याभिषेचनसन्दर्भे दत्तं नाम। अच्युतप्रेक्षतीर्थाः आश्रमगुरवः। मध्वाचार्यप्रतिष्ठापितस्य सिद्धान्तस्य प्राचीनतमं नाम तत्त्ववाद इति। एतैः ग्रथितानां ग्रन्थानां समष्टिनाम सर्वमूलमिति। प्रस्थानत्रयभाष्येषु आदौ निबद्धं भाष्यं गीताभाष्यम्। तच्च उत्तरभारतयात्रायां बदरिकाश्रममेत्य तत्र विराजमानाय भगवते वेदव्यासाय समर्पयामासुः। ततस्तेन भगवता समाज्ञप्ताः भाष्यान्तराणि व्यरचयन्। प्रस्थानत्रयमतिरिच्य एतैः वेदव्याख्यानात्मकं ऋग्भाष्यं कर्मनिर्णयः एवं पुराणप्रस्थानसम्बद्धं महाभारततात्पर्यनिर्णयः भागवततात्पर्यञ्चेति ग्रन्थद्वयं व्यरचि। मध्वाचार्यकृतिषु आचारग्रन्थाः, तन्त्रग्रन्थाः, तिथिनिर्णयनामकः ज्योतिषग्रन्थः, भक्तिसाहित्यसम्बद्धानि द्वादशस्तोत्राणि, यमकनिबद्धं यमकभारतम् इत्यादयः ग्रन्थाः प्रसिद्धास्सन्ति। सत्समयस्य वेदादिप्रमाणप्रमितस्य तत्त्ववादस्य प्रतिष्ठापनाय प्रसाराय च अद्वैत-जैन-बौद्धादि-शास्त्रपारङ्गतैः सार्धं वादादिकथाः अकुर्वन् इति श्रीमध्वविजयकाव्यात् ज्ञायते। एतेषां शिष्याः विभिन्नदेशसम्बद्धाः सुप्रसिद्धाश्चासन्। आन्ध्रदेशात् पद्मनाभतीर्थाः, ओडिशातः नरहरितीर्थाः तेषु प्रसिद्धाः मध्वाचार्यपरम्पराप्रवर्तकाश्च। अस्य नव्यसिद्धान्तस्य श्रैष्ठ्यं, तत्प्रवर्तकस्य मध्वाचार्यस्य तत्त्वनिष्ठां अप्रधर्ष्यं व्यक्तित्वम्, युक्तियुक्तं चिन्तनम् अद्भुतं पाण्डित्यञ्चालोक्य अचिरादेव कालादनेके अयुक्तं चिन्तनं विहाय अस्य सम्प्रदायस्य अनुयायिनो जाताः। तेषां समेषाम् श्रद्धाकेन्द्रत्वेन नितान्तरमणीयां श्रीकृष्णप्रतिमां रजतपीठपुरे प्रतिष्ठापयामासु: मध्वाचार्या:। अत्रत्यकृष्णप्रतिमा भगवतः नारायणस्य स्वयं व्यक्तप्रतिमासु अन्यतमेति परम्परागता श्रद्धा। श्रीकृष्णपूजार्थमेव अष्टौ यतयः नियुक्ता आसन्। तेषामेवाद्य अष्टमठाः रजतपीठपुरे (उडुपिक्षेत्रे) विलसन्ति।

मध्वाचार्यप्रतिष्ठापितस्य नूतनस्य तत्त्ववादस्य वृद्धिमसहमाना जनाः तन्मतस्य तन्मतानुयायिनाञ्च निग्रहाय नैकप्रकारकप्रयत्नानकार्षुः। नव्यमतेनानेन सम्भाव्यं स्वमतस्यापायं निवारयितुं मतमिदं समर्थतया अभिमुखीकर्तुं च अन्याय्योऽपि मार्गः समाश्रित इति श्रूयते। नेदमाश्चर्यकरं दार्शनिकपरम्पराविदाम्। तादृशप्रयत्नेषु अयमन्यतमः यत्, मध्वाचार्यणां ग्रन्थागार एव अपहृतः केनचित्समुदायेन इति। तच्च वर्णितं श्रीमध्वविजये। तस्मिन् ग्रन्थसङ्ग्रहे अत्त्यमूल्यानि कृतिरत्नानि आसन्। तेषु केचनैव ग्रन्थाः कुम्बळे प्रान्ताधिपतेः जयसिंहस्य प्रयत्नेन अभिज्ञाताः पुनारक्षिताश्च।

अस्मिन्नेवावसरे जयसिंहस्य राज्ञः आस्थानपण्डितत्वेन मान्यम्, अद्वैतवेदान्तदिग्गजत्त्वेन च तत्प्रान्ते प्रथितयशसं च त्रिविक्रमपण्डिताख्यं विद्वांसं वादे निर्जित्य स्वशिष्यत्त्वेन स्वीचकार। अयं च त्रिविक्रमपण्डिताचार्यः मध्वशिष्यतापरिग्रहादनन्तरं तत्वप्रदीपाख्यं ग्रन्थमेकं रचयामास। स च ग्रन्थः मध्वाचार्याणां ब्रह्मसूत्रभाष्यस्य टीका अस्ति। प्रायः लघ्वाकारस्य बह्वर्थगर्भितस्य ब्रह्मसूत्रभाष्यस्य अध्ययने त्रिविक्रमपण्डिताचार्येण क्लेशः अनुभूतः अतः तत्प्रार्थनयैव मध्वाचार्यैः अस्मिन्नेव काले स्वीयभाष्यव्याख्यारूपः अनुव्याख्याभिध: ग्रन्थोऽअपि निरमायि। सोऽयं ग्रन्थः मध्वाचार्याणां मेरुकृतिः इति प्रतिष्ठां भजते। त्रिविक्रमपण्डिताचार्यस्य इदं मतपरिवर्तनप्रकरणं मध्वमतस्य भवितव्यतायां महत्परिवर्तनस्थानं भजते।

मध्वाचार्यैः वेदार्थप्रतिपादनपूर्वकं यथा सत्सिद्धान्तः प्रत्यपादि तथा वैदिककर्मसु परिशुद्धतासम्पादनाय वैदिकी हिंसापि कलौ त्याज्या इति प्रतिपादयन्तः, पिष्टपशुयागविधानेन वैदिककर्मसु नूतनतामाविष्चक्रुः। वेदप्रामाण्यसमर्थनाय वेदमन्त्रपठनेन बीजानाम् अङ्कुर-दल-पुष्पाणि उदपादयन्। तथैव शास्त्रे प्रतिपादितानां नैकप्रकारकतत्त्वानां सप्रमाणं समन्वयः प्रादर्शि मध्वाचार्यैः। यथा - एकदेवतावाद-अनेकदेवतावादयोः समन्वयः ज्ञान-कर्म-भक्तियोगानां समन्वयः, भेदाभेदवादपराणां मन्त्राणां समन्वयः, सगुणनिर्गुणवचनानां समन्वयः इत्येवमनेके विवादाश्रयविषयाः मध्वाचार्यैः सप्रमाणं सयुक्तिकं विचारिताः निर्णीताश्च।

ज्ञानं मोक्षसाधनमिति केचन, केचन कर्मेति, अपरे तु भक्तिरिति। सर्वेऽपि स्वाभिप्रायसमर्थनाय प्रमाणान्युदाहरन्ति। यद्येवं प्रमाणान्येव विवदन्ते तर्हि कस्तावन्निर्णये शक्नुयात्। तत्र विशिष्यन्ते मध्वाचार्याः। ज्ञानं विना शुष्कं कर्माचरणं व्यर्थमापततीति कर्मयोगे ज्ञानं यथा समाविष्टं तथा ज्ञानयोगेऽपि कर्म समाविष्टमिति ज्ञानकर्मसमन्वयं प्रादर्शयन्। अपि च मध्वाचार्यै: मोक्षसाधनेषु ज्ञानस्यैव प्रामुख्यं प्रतिपादितम्। तच्च ज्ञानं भक्तिजननद्वारा मोक्षं साधयतीति तद्वचनादेवावगम्यते। “ज्ञानस्य भक्तिभागत्वात् भक्तिः ज्ञानम् इतीर्यते” यथोक्तं - “माहात्म्यज्ञानपूर्वस्तु सुदृढस्सर्वतोऽधिकः स्नेहो भक्तिरि” त्यादिना। अनेन ज्ञानजन्याया: भक्ते: एव मोक्षसाधनत्वमभिप्रयन्ति मध्वाचार्या: इति सुस्पष्टमवगम्यते। भक्ते: कार्यं भवति हरिनामस्मरणम्। अनवरतं हरिस्मरणं हि ज्ञानं विना न सम्भवति। अतिपरिपुष्टाभक्तिरेव मोक्षसाधनम्। अत: मध्वाचार्यै: विभिन्नछन्दोबद्धानि तालनिबद्धानि गेयानि द्वादशस्तोत्राणि विरचितानि। येषां पठन-श्रवणमात्रेणैव सामान्यजनोऽपि सम्मुग्धो भवेत्। तादृश: भक्तिभाव: तेषु स्तोत्रेषु निहित इति सार्वजनीन: अनुभव:। एवं गच्छता कालेन मध्वाचार्यैः प्रेरितास्तच्छिष्याः भक्तेः पारम्यमुद्घोषयन्तः हरिदाससम्प्रदायप्रवर्तकास्समभवन्।

एवं भारतीयदर्शनेषु माध्वसिद्धान्तस्य महत्तरं स्थानमस्तीति प्रतिपादनमेव अस्य लेखस्य सारः।

Copyright (c) 2024 The BAPS Swaminarayan Research Journal

How to Cite

Pujar, N. (2024). मध्वाचार्याणां तत्त्ववादः. The BAPS Swaminarayan Research Journal, 3(2), 115–130. Retrieved from https://research.baps.org/journal/index.php/BSRJ/article/view/03_02_05

© Akshardham Center for Applied Research in Social Harmony (AARSH) | Terms of Use | Privacy Policy