Abstract
भाष्यते शास्त्रव्यवहारादिना प्रयुज्यते इति भाष्धातोः ‘गुरोश्च हलः’ इत्यनेन अप्रत्यये विहिते निष्पाद्यते भाषा शब्दः। इत्थं चावापोद्वापादिप्रत्ययकरणं भाषेति वक्तुं शक्यते। पुनश्च समुपसर्गपूर्वकं डुकृञ् करणे इत्यस्य धातोः क्तिन्प्रत्यये विहिते निष्पाद्यते संस्कृतिरिति शब्दः। स च किञ्चिद्वस्तुनः संस्कारपूर्वकं पूर्णतां परिष्कारं मनोविकासं वा व्यनक्तीति वामनादिशब्दपण्डितानां वचनम्। एवं च द्वयोर्निष्पत्तिं संरक्ष्य स्मर्यते यत्, ‘संस्कृतिशब्दस्य अभिप्रायेण मनुष्यं मनुष्यस्य आचारं वा व्यवहारसम्बन्धि समाचरणं, तेषां च पारस्परिकम् आहारव्याहाराणाम् आदानप्रदानं विचारविनिमयं चेत्यादिभावानां ग्रहणं भवतीति’। एवं च संस्कृतेः प्रचारप्रसारणार्थं भाषैव प्राथमिकं सोपानमिति निश्चप्रचं यत्र लोकशास्त्रसाहित्यादीनां समावेशः। यथा वेदवेदाङ्गादिशास्त्राणि चतुर्दशविद्यादिग्रन्थाश्च। यथा च पुराणादिसाहित्येभ्यः पुराणस्य पञ्च वा दश वेति लक्षणानुसारं मन्वतरेशानुकथादीनां प्रतिबोधः। रामायणभारतादीतिहासेन तत्कालीनसमाजव्यवस्था धर्मादिपुरुषार्थज्ञानम्। याज्ञवल्क्यादिस्मृतिभ्यो व्रतादिव्यवहारविज्ञानम्। अर्थशास्त्रनीतिशास्त्रादिभ्यो यथापरिस्थिति कार्याऽकार्यविवेकभानम्। कर्णभारादिकं नाटकं संवीक्ष्य कविभासेन कर्णस्य पात्रस्य मनोझञ्झावातं तस्य च सकारात्मकतायाश्च प्रवर्तनं तावत्समाजव्यवस्थायां विहितमिति वक्तुं शक्यते। मेघदूतादि संवीक्ष्य तत्कालीनभारतस्य भूगोलदर्शनञ्चेत्याद्यवगम्यते।
इत्थं चतुःषष्टिकलावेदनादारभ्य समाजोन्नतितत्परितवर्तनपरम्पराप्रभृतिज्ञानं भाषया तल्लेखादिभिश्चाऽवगम्यते। भाषापरिवर्तनेन संस्कृतिपरिवर्तनमित्यप्यवलोक्यते। यतो हि भाषासंस्कृत्योः अन्योन्याश्रयमिति नाऽश्चर्यकरम्।
भाषासंस्कृत्योः सुचारुसमन्वयः वेदान्तदर्शनेऽपि द्रष्टुं शक्यते। यत्र जीवमायामुक्तिब्रह्मादिविचाराः परिप्लुताः। प्राचीनपरम्परायामस्यां वेदान्तदर्शने बादरायणप्रणीतब्रह्मसूत्रमधिकृत्य भाष्यप्रणयनेन स्वसम्प्रदायराद्धान्तप्रस्थापनपरम्परा नैवाधुनिकी। शताब्द्यामस्यां परब्रह्मस्वामिनारायणोक्तस्य मौलिकं नूतनं दर्शनमधिकृत्य स्वामिनारायणभाष्यस्य प्रणयनं जातमिति दार्शनिकचिन्तनपरम्परा नैव पर्यवसिता अपितु परिवर्धितेति तत्त्वबुभुक्षूणां कृते महोपकार इति मन्ये। साम्प्रतमस्य ब्रह्मसूत्रस्वामिनारायणभाष्यस्य आलोकेन भाषासंस्कृतिप्रवर्तने पुष्टिर्जातेति विषयमधिकृत्य किञ्चिद्वैशिष्ट्यं प्रस्तोतुमुत्सहे।