Abstract
भारतीयदर्शनपरम्परायां वेदान्तदर्शने महर्षिबादरायणेन श्रुतिस्मृतिप्रस्थानद्वयसारगर्भिततृतीयप्रस्थानरूपको ब्रह्मसूत्रग्रन्थो विनिर्मितः। वेदान्तदर्शनेषु चैकतमं परब्रह्मस्वामिनारायणप्रबोधितम् अक्षरपुरुषोत्तमदर्शनं वैदिकं सनातनं च वरीवर्ति। दर्शनमिदमधिकृत्य प्रकटब्रह्मस्वरूपमहन्तस्वामिमहाराजैः निजहस्तेनाऽऽज्ञोपासनसिद्धान्तनिरूपकं सत्सङ्गदीक्षाशास्त्रं विरचितम्। अक्षरपुरुषोत्तमदर्शनप्रतिपादकं ब्रह्मसूत्रस्वामिनारायणभाष्यं तथा च सत्सङ्गदीक्षेति ग्रन्थद्वये भूयः सामञ्जस्यं दरीदृश्यते। सामञ्जस्यमिह साधर्म्ये सत्यौचित्यम्। ग्रन्थद्वयसिद्धान्तसाम्यं मनुष्यजीवनेन च सह तदौचित्यं खलु द्वयोः सामञ्जस्यं प्रख्यापयति। “अथातो ब्रह्मजिज्ञासा”[1] इति सूत्रादारभ्य “अनावृत्तिः शब्दादनावृत्तिः शब्दाद्”[2] इति ग्रन्थसमाप्तिसूचकसूत्रपर्यन्तं ब्रह्मसूत्रे दुःखमयसंसारान्निर्वेदमाप्य तस्मादात्यन्तिकविमुक्तये ब्रह्मजिज्ञासा,[3] अक्षरपुरुषोत्तमकर्तृत्वम्,[4] शास्त्रश्रद्धा,[5] ब्रह्मपरब्रह्मभेददर्शनम्,[6] परमतखण्डनादिना[7] सङ्गविवेकः, आत्मगृहीतीत्यादिना[8] साधनानिरूपणम्, अनावृत्तिरादिशब्दैर्मुक्तिवर्णनम्[9] इत्यादिविषये सुचारुतया ब्रह्मविद्या प्रदर्शिता। सत्सङ्गदीक्षाशास्त्रेऽप्यमी विषयाः सङ्क्षेपेण सुग्रथिताः। अतः साम्प्रतकालीनमिदं शास्त्रं प्राचीनशास्त्रैर्दृढतया सुसम्बद्धमिति निश्चीयते। अनेन सनातनवैदिकपरम्परायां विज्ञायते प्राचीनाऽर्वाचीनयोर्मध्ये भेदः कालनिर्णीत एव न तु सिद्धान्तनिबन्धनः। कथं चाऽस्मिन्नर्वाचीनसमये प्राचीनसिद्धान्ततया वर्तितव्यमित्यपि ग्रन्थद्वयसामञ्जस्येन निर्णेतुं शक्यतेऽतः साम्प्रतकालीनप्रश्नानां समाधानं पुरातनराद्धान्तैः कथं प्राप्तव्यमिति विषयेऽपि शोधपत्रोऽयं सुचारुतया महत्त्वपूर्णां भूमिकां भक्ता।
दर्शनस्यास्य वैदिकत्वे सति मौलिकत्वात् सत्सङ्गदीक्षायाश्चापि नावीन्यात् तस्या ब्रह्मसूत्रेण सामञ्जस्यात्मकं शोधकार्यमत्रापूर्वमेवेत्यवबुध्यते। तदिदं सम्यगनुसन्धानशैल्या प्रकाशमाप्नुयादिति मनीषया प्रवर्त्यते मया शोधकार्येऽस्मिन्नतो ब्रह्मविद्याचिन्तनावसरेणानुगृहीतोऽस्मीति।
[1]. (ब्रह्मसूत्रम् १/१/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३)
[2]. (ब्रह्मसूत्रम् ४/४/२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४३१)
[3]. (ब्रह्मसूत्रम् १/१/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३)
[4]. (ब्रह्मसूत्रम् १/१/२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १२)
[5]. (ब्रह्मसूत्रम् १/१/३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १७)
[6]. (ब्रह्मसूत्रम् ३/२/३०) इत्यादि (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३०४)
[7]. (ब्रह्मसूत्रे द्वितीयेऽध्याये द्वितीयः पादः) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १८८-२१८)
[8]. (ब्रह्मसूत्रम् ३/३/१५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३२३)
[9]. (ब्रह्मसूत्रम् ४/४/२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४३१)