Abstract
धरायामस्यां जम्बुद्वीपे भरतखण्डे भारतवर्ष आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे पुण्यभूमा उत्तरकोसलेषु छपैयाख्यग्रामे प्रादुर्भूतो घनश्याम-नीलकण्ठ-श्रीहरि-सहजानन्दादिनाम्ना सुप्रसिद्धः स्वामिनारायणो भगवान् स्वाश्रितसाधुभक्तैः साक्षात् परब्रह्मरूपेण पूजितत्वाद्[1], नैकग्रन्थेषु[2] च परब्रह्मत्वेन प्रदर्शितत्वादत्र परब्रह्मेतिविशेषणविशिष्टा सञ्ज्ञा विलसति शीर्षके। परब्रह्मस्वामिनारायणस्य जीवनकार्यसद्गुणादिकं विलोक्य नैके मुमुक्षवो समाकृष्य तच्छरणं संप्राप्य स्वजीवनं तद्भगवच्चरणयोः समर्प्य त्यागाश्रमदीक्षां स्व्यकुर्वन्। एतादृशास्त्यागिन आहत्य त्रिसहस्रसङ्ख्याकाः[3] सन्तः स्वामिनारायणभगवन्तमाश्रितास्तमेवैकं स्वेष्टदेवरूपेण भजमानास्तदाज्ञोपासनप्रवर्तका बभूवुः। एतेषु केचन गद्यपद्यात्मकसाहित्यविरचनक्षेत्रे निपुणाः कृतभूरिपरिश्रमाश्चाऽवर्तन्त। तत्रापि तैः प्रणीतं पद्यात्मकं साहित्यं प्रभूतमुपलभ्यते। श्रीहरिचरित्रवर्णनं तदुपदेशसङ्ग्रहः श्रीहरिमहिमप्रकाशनं प्रार्थना सतां लक्षणानि साधुमहिमकथनमित्यादिविषये मुक्तानन्दस्वामी, ब्रह्मानन्दस्वामी, निष्कुलानन्दस्वामी, प्रेमानन्दस्वामी, देवानन्दस्वामीत्यादयः परमहंसा महाकाव्यानि खण्डकाव्यानि गीतिकाव्यानि स्तोत्राणि कीर्तनाऽष्टकानि कीर्तनचतुष्टयानि विभक्तानि कीर्तनानीत्येवं विभिन्नप्रकारेण पद्यसाहित्यं विरचयाञ्चक्रिरे। तदेतत्साहित्यनिचयाद् अमुकप्रकारकं[4] साहित्यमधीतं मया। तेनाऽनुभूतं यदत्र ‘ब्रह्म’[5] ‘परब्रह्म’[6] ‘अक्षरम्’[7] ‘पुरुषोत्तमः’[8] इत्यादयः शब्दाः स्फुटमवलोक्यन्ते। पुनश्चात्र “ब्रह्मरूपत्वं प्राप्य परब्रह्मोपासनम्”[9] इति सिद्धान्तोऽपि दृढायितः।
परब्रह्मस्वामिनारायणप्रबोधिते वचनामृतग्रन्थे एवमेव चोपनिषद्गीताब्रह्मसूत्रेतिप्रस्थानत्रयशास्त्रेषु प्रतिपादितं खल्वक्षरपुरुषोत्तमदर्शनमिति स्वामिनारायणसिद्धान्तसुधादिग्रन्थेषु साधितं पुरा विद्वद्धौरेयैः। अस्मिन् दर्शनेऽपि ब्रह्मपरब्रह्माऽक्षरपुरुषोत्तमादिशब्दानुपयुज्य दर्शनान्तराद् विलक्षणः सिद्धान्तो निरूपितः। तमेव सिद्धान्तं श्रुतिमनुगा स्मृतिरिव प्रोक्तकीर्तनेष्वपि गम्यमानं विलोक्य लुब्धं मे मनस्तानि वचांसि पृथक्कृत्य तत्सम्पादनाय। परब्रह्मस्वामिनारायणस्य वचनामृतानि विश्रुत्य तदभिप्रायं विजानन्त एते कवयः परमहंसाः स्वकाव्यग्रन्थेष्वपि स्वेष्टदेवप्रबोधितसिद्धान्तं सुचारुतया गुम्फितवन्त इत्येवं परमहंसानां भक्तिः सिद्धान्तनिष्ठेत्यादिसद्गुणानां दर्शनं अनेन शोधकार्येण भविष्यति। मन्येऽहं यदेतया रीत्या विहितेन नूतनविश्लेषणकार्येण स्वामिनारायणसम्प्रदायस्य तात्त्विकसिद्धान्तो नूनमक्षरपुरुषोत्तमदर्शनमेवेत्यसन्दिग्धतया दृढीभविष्यतीति।
[1]. “साम्प्रतिकाः सर्वे हरिभक्ता एवमवगच्छन्ति यद्, ‘अक्षरातीतः पुरुषोत्तमो भगवान् ह्यस्माभिः प्रत्यक्षं प्राप्तः, वयं च कृतार्थाः’ इत्येवमवगम्य प्रत्यक्षभगवदाज्ञायां वर्तमानास्तद्भगवतो भक्तिमनुतिष्ठन्तीति।” (परब्रह्म श्रीस्वामिनारायण २२)
[2]. “परब्रह्मस्वामिनारायणप्रबोधित-अक्षरपुरुषोत्तमदर्शनप्रतिपादकं शास्त्रम्” (साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम्; साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम्; साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम्; साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम्; साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा)
[3]. (આધારાનંદ સ્વામી ૭૮૪૭)
[4]. (भक्तचिन्तामणिः, चोसठपदी, पुरुषोत्तमप्रकाशः, भक्तिनिधिः, सारसिद्धिः, हरिबळगीता, धीरजाख्यानम्, वचनविधिः, स्नेहगीता, कीर्तनाऽष्टकानि, कीर्तनचतुष्टयानि, नैकानि च विभक्तानि कीर्तनानीत्यादिकम्), (મુક્તાનંદ સ્વામી; પરમહંસો, કીર્તનાવલિ હજારી; નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ; નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય; બ્રહ્માનંદ સ્વામી; પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૧; પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૨; પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧; પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૨)
[5]. (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૫)
[6]. (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૫)
[7]. (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૪)
[8]. (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૪)
[9]. “બ્રહ્મ હોય પરબ્રહ્મ ઉપાસત” (બ્રહ્માનંદ સ્વામી ૩૭૯)