Abstract
अथैदानीं श्रीस्वामिनारायणप्रबोधिताक्षरपुरुषोत्तमदर्शनीयस्य श्रीप्रमुखस्वामिजीमहाराजाज्ञया साधुश्रीभद्रेशदासस्वामिभिः प्रणीतस्य प्रस्थानत्रयीभाष्यस्य पाणिनीयमिति प्रथितस्य मुनित्रयोक्तशब्दशास्त्रीयसिद्धान्तपथमनुसृत्यैव तत्र-तत्र स्वसिद्धान्तोपस्थापने उपोद्बलकतया मुनित्रयोक्तेरुपन्यासेन प्रवर्तितत्वात्प्रकृतोऽयं लेख उपन्यस्तपाणिनीयप्रमाणानि कथं स्वामिनारायणभाष्यस्थानंशानुपोद्बलयन्तीति मीमांसायां प्रारभ्यते। तत्र ब्रह्मसूत्र-दशोपनिषद्-गीताभाष्ये सन्ति बहूनि स्थलानि यत्र पाणिनीयसंवादोऽसकृत् कृतो वर्तते तत्तत्सूत्रव्याख्याने उपनिषद्वाक्यविवृतौ गीतोपनिषदर्थपर्यालोचने च। अनेन प्रस्थानत्रयीभाष्यप्रणयनावसरे आचार्याः साधुभद्रेशदासस्वामिनः स्वोक्तार्थस्य निर्णयाय, सङ्गतये व्युत्पत्तिविग्रहादिप्रदर्शनवेलायाञ्च तत्र तत्र पाणिनीयसंवादेन शास्त्रे वदन्ते नान्यत्र विवदन्ते इति सुवचम्। एतच्च लेखनेनानेनाग्रे स्फुटीभविष्यति।
नह्यत्र नैकशास्त्रविदामाचार्याणां शास्त्रप्रमाणैः प्रमाणितस्य भाष्यस्य पुनरपि प्रमाणयितुं काचिद् विधित्सा वर्तते “स्वयं प्रमाणस्य कुतः परीक्षा” इति न्यायेन। यथा वा सिद्धस्यापि विषयस्य प्रमाणान्तरैः पुनस्साधनेन दृढीकरणम्, तथैव प्रकृतप्रस्थानत्रयीभाष्ये प्रदर्शितपाणिनीयसंवादस्य यथायथं प्रस्तावेन भाष्योक्तिषु कल्पितानामर्थानां पक्षे सप्रमाणत्वकथनेन निष्प्रमाणत्वोक्तिनिरासः, क्वचित्तु प्रदर्शितप्रमाणानां संक्षेपेण विवरणाद् व्याख्यासापेक्षत्वात् क्व तात्पर्यमिति प्रदर्शनञ्च विषयोऽत्र प्रवर्तनायाम्। अनेन मूलोक्तेरेव पुनरत्रापि प्रस्तावात् पुनरुक्तमिति निरस्यते। अनैनेव च प्रकृतस्यास्य पाणिनीयप्रमाणोक्तीनां प्रकृतभाष्यसन्दर्भे उपोद्बलकत्वस्य प्रतिपिपादयिष्यमाणत्वात् समूलत्वमपूर्वत्वं सिद्धसाधनदोषरहितत्वमपि ध्वन्यत इति सविनयं विज्ञप्तिरेषा।