पूर्वभूमिका
“येनाऽक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्”10 इति मुण्डकमन्त्रद्वारोद्घाटितायां ब्रह्मविद्याव्याख्यायां अक्षरं पुरुषं चेति स्फुटं निर्णीतं तत्त्वद्वयमेव श्रीमद्भगवद्गीतायां अक्षरं11 पुरुषोत्तमश्चेति12 शब्दाभ्यां विवर्णितमिति मिलित्वा समस्य निष्पन्नोऽयम् अक्षरपुरुषोत्तमशब्दः परब्रह्मस्वामिनारायणानुगामिना अक्षरपुरुषोत्तमदर्शनस्य प्रखरप्रवर्तकेन ब्रह्मस्वरूपशास्त्रिमहाराजेन प्रप्रथममुद्घोषितः।13 नायं साधारणशब्दोऽपि तु श्रुतिस्मृतितर्केतिप्रस्थानत्रयप्रतिपादितवैदिकसनातनदर्शनपरिचायकोऽस्ति। वेदान्तदर्शनपरम्परायां सन्निहितमिदं दर्शनमाधारीकृत्य प्रकटाक्षरब्रह्मगुरुमहन्तस्वामिमहाराजविरचिते सत्सङ्गदीक्षाशास्त्रे बादरायणप्रणीतब्रह्मसूत्रे च दरीदृष्टं प्रभूतं सामञ्जस्यं विद्यते शोधपत्रस्याऽस्य लेखने हेतुभूतं प्राचीनाऽर्वाचीनशास्त्रज्ञापितसिद्धान्तैक्यप्रदर्शकं च। सामञ्जस्यमिदमक्षरपुरुषोत्तमदर्शनलक्षणब्रह्मविद्याप्रतिपादकत्वम्। अथैतत्सर्वमनुबन्धचतुष्टयतत्त्वमीमांसासाधनमीमांसाफलमीमांसादिविषयद्वारा ग्रन्थद्वयालोडनाद् निःसृतानां नवनीततुल्यसन्दर्भाणां पुरःसरं निश्चिनुयाम।
अनुबन्धचतुष्टयम्
शास्त्रालोडनप्रक्रियायां प्रायोऽनुबन्धचतुष्टयं विमृश्यते। अधिकारी विषयः सम्बन्धः प्रयोजनं चेति चत्वारोऽप्यनुबन्धा विद्वज्जनसम्मता ग्रन्थगरिम-तत्सामञ्जस्यादिनिर्णायकाश्च।
तत्राद्योऽधिकारी ग्रन्थाध्ययनतत्प्रदर्शितविषयज्ञानतत्प्राप्तिसाधनाद्यनुष्ठाता शास्त्राधिकारवत्त्वेन निर्णीयते। अधिकारिणैवानुष्ठीयते। ब्रह्मसूत्रस्याधिकारी ब्रह्मविद्याभिलाषी मुमुक्षुरित्याद्यसूत्रभाष्य एवोद्घोषितम्।14 सत्सङ्गदीक्षायां “सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति। शास्त्रं सत्सङ्गदीक्षेति शुभाऽऽशयाद् विरच्यते॥”15 इति ग्रन्थविरचनाशयप्रख्यापकवचनेऽधिकारिणो मुमुक्षव इति प्राज्ञाप्यत। ननु मुमुक्षुजनेषु कोऽपि भेदः स्यान्नवेति शाङ्कापङ्कां समादधन्ती समेषां कृत आनन्दकारिणी सूचनोद्घोषिता प्रस्तुतग्रन्थद्वयेऽपि सकलवर्णगतनरनारीत्यागिगृहिण आबालवृद्धं सर्वजीवेश्वरात्मानो ब्रह्मविद्याधिकारिण इति।
ब्रह्मसूत्रे अग्नीन्धनाधिकरणे “अत एव चाऽग्नीन्धनाद्यपेक्षा”16 इति सूत्रेण “ब्रह्मसंस्थोऽमृतत्वमेति”17 इति श्रुतिसन्दर्भेण सर्वाश्रमिभ्यो ब्रह्मविद्यायामधिकारः प्रदत्तः। पुनरन्तराधिकरणे “तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्य,”18 “जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नाऽत्र संशयः”19 इति श्रुतिस्मृतिवाक्येन तपःश्रद्धादिविशेषैर्जपादिभिर्वा गार्हस्थ्यादिकर्माऽभावेऽपि ब्रह्मविद्याऽनुग्रहो वर्षितः। एवमेव तद्भूताधिकरणे20 ब्रह्मविद्यासम्पादनाय प्रयतमानानां देशकालस्वभावादिप्राबल्यात् कदाचिदाश्रमभ्रष्टत्वेऽपि ब्रह्मविद्यायामधिकार इति प्रतिपादितम्। तथैव च प्रमिताधिकरणगर्भितदेवताधिकरणे21 जीवेश्वरकोटिगतानां देवतानामपि ब्रह्मविद्याऽधिकारो निर्णीतः।
सत्सङ्गदीक्षायां ब्रह्मस्वरूपमहन्तस्वामिमहाराजेन परब्रह्मस्वामिनारायणप्रबोधितसिद्धान्तानुसारं करुणातिशयेन ब्रह्मविद्यासंसिद्धये सुखप्राप्तये सर्वेभ्योऽधिकारं प्रदाय स्वाश्रितसत्सङ्गिसमाजे सर्वेऽपि समावेशिताः। तैरुक्तं यत् “सत्सङ्गाऽधिकृतः सर्वे सर्वे सुखाऽधिकारिणः। सर्वेऽर्हा ब्रह्मविद्यायां नार्यश्चैव नरास्तथा॥ नैव न्यूनाधिकत्वं स्यात् सत्सङ्गे लिङ्गभेदतः। स्वस्वमर्यादया सर्वे भक्त्या मुक्तिं समाप्नुयुः॥ सर्ववर्णगताः सर्वा नार्यः सर्वे नरास्तथा। सत्सङ्गे ब्रह्मविद्यायां मोक्षे सदाऽधिकारिणः॥”22 “सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च। न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥”23
अथ ग्रन्थद्वयस्य विषयो विमृश्यते। “अथातो ब्रह्मजिज्ञासा”24 इति ब्रह्मसूत्रारम्भकसूत्रे ज्ञानेच्छैव जिज्ञासेति व्याख्यायां ब्रह्मजिज्ञासा नाम ब्रह्मज्ञानेच्छा ब्रह्मविद्येच्छा वेति वक्तुं शक्यते, अदादिपठितविद्-धातोर्ज्ञानार्थकत्वात्। अतोऽक्षरपुरुषोत्तमनिरूपकब्रह्मविद्यामेव प्रतिपिपादयिषुणा बादरायणेन कृतेन ग्रन्थारम्भेण ब्रह्मविद्यैव ब्रह्मसूत्रस्य प्रधानविषय इत्यवबुध्यते।
एष एव प्रधानप्रतिपाद्यविषयः सत्सङ्गदीक्षाशास्त्रेऽपि। शास्त्रोक्तो ह्यक्षरपुरुषोत्तमसिद्धान्त एव ब्रह्मविद्येति मुण्डकाद्युपनिषन्मन्त्रैरवगम्यते। अक्षरपुरुषोत्तमवेदनं परमात्मोपासनं गुरूपसत्तिस्तदाज्ञापालनमित्यादि ब्रह्मविद्याविषयीभूतमेव। तदेतत्सङ्गृह्याऽऽज्ञोपासनेति शब्दावुपयुज्य सत्सङ्गदीक्षायामुक्तं यत् “शास्त्रेऽस्मिञ्ज्ञापिता स्पष्टम् आज्ञोपासनपद्धतिः। परमात्म-परब्रह्म-सहजानन्द-दर्शिता॥”25 अत एव शास्त्रस्यास्यापि विषयो ब्रह्मविद्येति स्पष्टम्। परञ्च “सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति। शास्त्रं सत्सङ्गदीक्षेति शुभाऽऽशयाद् विरच्यते॥”26 इत्यनेन मुमुक्षुहृदयाधिकरणसत्सङ्गविज्ञानरूपाशयं शास्त्रविरचने प्रदर्श्य प्रधानविषयत्वेन ब्रह्मविद्यैव लिखिता। ननु ब्रह्मसूत्रे ब्रह्मविद्याविज्ञानं हेतुभूतमत्र च सत्सङ्ग इत्यसामञ्जस्यमापतितमिति चेन्न सत्सङ्गस्यव्याख्यायामेव ब्रह्मविद्यादर्शनादवबुध्यते द्वयोरैक्यम्। यथोक्तमत्र “सत्यस्य स्वात्मनः सङ्गः सत्यस्य परमात्मनः। सत्यस्य च गुरोः सङ्गः सच्छास्त्राणां तथैव च॥ विज्ञातव्यमिदं सत्यं सत्सङ्गस्य हि लक्षणम्। कुर्वन्नेवंविधं दिव्यं सत्सङ्गं स्यात् सुखी जनः॥”27
आत्मपरमात्मगुरुसच्छास्त्रसङ्ग एवात्र सत्सङ्गशब्देन व्याख्यायितः। गुरुरत्राक्षरब्रह्मस्वरूप एव परमात्मा च परब्रह्मातो विराजितावत्राक्षरपुरुषोत्तमौ तथा च मुण्डकमण्डितब्रह्मविद्याव्याख्याबलान्निर्णीयते यदेतदक्षरपुरुषोत्तमतत्त्वद्वयविज्ञानात्मिकैव ब्रह्मविद्या सत्सङ्गलक्षणे सङ्गृहीतेति।
अनुबन्धचतुष्टयान्तर्गतस्य प्रमेयप्रमाणयोः सम्बन्धस्य विमर्शे ब्रह्मसूत्रे प्रतिपाद्यप्रतिपादकभावलक्षणः सत्सङ्गदीक्षायां च प्रतिपाद्यप्रतिपादकभावलक्षणो ज्ञेयज्ञापकभावलक्षणो विधेयविधायकभावलक्षणो वा वक्तुं सुशकत्वाद् भवति ग्रन्थद्वयसामञ्जस्यम्।
चतुर्थोऽनुबन्धश्च प्रयोजनम्। ऐहिकाधिकरणे28 जीवन्मुक्तिप्रदर्शनेन “अनावृत्तिः शब्दादनावृत्तिः शब्दाद्”29 इति सूत्रे ह्यपुनरावृत्तिलक्षणविदेहमुक्तिदर्शनेन च ज्ञायते ब्रह्मविद्यासाक्षात्कारादात्यन्तिकी मुक्तिरेव ब्रह्मसूत्रप्रयोजनमिति। सत्सङ्गदीक्षायामपि “स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः। सर्वेभ्यः परमां शान्तिम् आनन्दं सुखमर्पयेत्॥”30 इत्याद्याशीर्वचनैः “सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति। शास्त्रं सत्सङ्गदीक्षेति शुभाऽऽशयाद् विरच्यते॥”31 इति सत्सङ्गविज्ञानरूपाशयदर्शनेन “जीवन्नेव स्थितिं ब्राह्मीं शास्त्रोक्तामाप्नुयात् स च॥ धर्मैकान्तिकसंसिद्धिम् आप्नुते दिव्यमक्षरम्। शाश्वतं भगवद्धाम मुक्तिमात्यन्तिकीं सुखम्॥”32 इत्यादिफलप्रदर्शनद्वारा च शास्त्रस्यास्य प्रयोजनं परमानन्दप्राप्तिः सत्सङ्गविज्ञानम् (ब्रह्मविद्यासाक्षात्कारः) आत्यन्तिकी मुक्तिश्चेत्यवगम्यते।
एवमनुबन्धचतुष्टयविषये ब्रह्मसूत्रसत्सङ्गदीक्षासामञ्जस्यं सिद्धम्।
तत्त्वमीमांसा
सत्यसनातनतत्त्वानां मीमांसा तत्त्वमीमांसा। मीमांसा नाम विचारपूर्वको निर्णयः। तत्त्वगणनातत्स्वरूपादिविषयमधिकृत्य विहितश्चिन्तनानुभवादिमूलको निर्णयो हि तत्त्वमीमांसा। ब्रह्मसूत्रे श्रुतिस्मृतिवाक्यविमर्शेन सत्सङ्गदीक्षायां च श्लोकबद्धशब्दैः स्फुटं तत्त्वमीमांसा प्रकटीकृता। शास्त्रद्वयेऽस्मिन्नक्षरब्रह्मस्वरूपं पुरुषोत्तमस्वरूपम् अक्षरपुरुषोत्तमयोर्भेद इत्यादिविषये निर्णीतमत्र प्रस्तूयते।
१. अक्षरब्रह्मस्वरूपम्
“सर्वे वेदा यत्पदमामनन्ति... एतद्ध्येवाऽक्षरं ब्रह्म”33 इत्यादिश्रुतिभिर्भूरिशः समाम्नातमक्षरब्रह्माख्यतत्त्वम् अनादितो जीवेश्वरमायापरभूतं परमात्ममात्रन्यूनं तत्त्वान्तरात् स्वरूपस्वभावादिभिर्भिन्नमित्यक्षरपुरुषोत्तमदर्शने स्वीक्रीयते। भेदप्रदर्शकानि वचांसि ब्रह्मसूत्रे सत्सङ्गदीक्षायां चोपलभ्यन्ते।
ब्रह्मसूत्रान्तर्गतद्युभ्वाद्यधिकरणे “यस्मिन् द्यौः चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः”34 इति मुण्डकोक्तिसमन्वये द्युपृथिव्यन्तरिक्षादिनामाधारत्वेनाक्षरब्रह्मणः प्रतिपादनाय भेदनिर्देशात्35 इतिसूत्रनिरूपणे “प्रधानात् प्राणभृतः शारीराद्वाऽक्षरब्रह्मणो भेदस्य साक्षाद्व्यपदेशाद्” इति सिद्धान्तो गृहीतः।36 ततोऽत्रैव “पाराय तमसः परस्तात्,”37 “प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते”38 इत्यादिमुण्डकवाक्यसमन्वयद्वारा जीवेश्वरमायाभ्योऽक्षरतत्त्वं भिन्नमिति स्फुटं साधितम्।
एवमेव पुनरक्षराधिकरणे “एतद्वै तदक्षरं गार्गि ब्राह्मणा
अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितम्”39 इति वाजिप्रोक्तमन्त्रं गृहीत्वा मन्त्रगताऽक्षरशब्देनाभिहितमक्षरब्रह्मतत्त्वमम्बरान्तप्रकृतिपुरुषस्याप्याधारभूतमिति प्रतिपादयितुं प्रशासनादन्यभावव्यावृत्तेश्चेति हेतुद्वयेनाऽक्षरब्रह्मणो जीवमायाभ्यां परत्वनिबन्धनो भेदः प्रस्थापितः। एवमक्षरस्य जीवेश्वरमायातो भेदोऽत्रोक्तः परमात्मतो भेदस्त्वग्रे वक्ष्यते।
सत्सङ्गदीक्षायां जीवेश्वरमायापरमात्मेति तत्त्वचतुष्टयतो ह्यक्षरब्रह्मतत्त्वस्य भेदो निरूपितः। यथा “जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा। परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥ नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः। स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥”40
अत्र पञ्चानामपि तत्त्वानां पृथगुल्लेखेन, सर्वदा पञ्च भिन्नानि तत्त्वानीत्यादिशब्दैश्च ब्रह्माऽक्षरस्य भेदो विज्ञायते। एवमक्षरब्रह्मणो तत्त्वान्तराद् भेदविषये ग्रन्थद्वयस्य सामञ्जस्यं सिद्धम्।
व्यापकत्वम्
परब्रह्म
सत्सङ्गदीक्षायामप्यक्षरब्रह्मणो व्यापकत्वमुक्तम्। नित्यपूजावसरे स्वामिनारायणमहामन्त्रजापपुरःसरं मालाऽऽवर्तनं कुर्वन्नक्षरपुरुषोत्तमौ च व्यापकौ मत्वा तयोः प्रदक्षिणा विधातव्येत्युपदेशे ब्रह्माक्षरव्यापकत्वमुपदिष्टम्। यथा “ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्। व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥”47
धामरूपत्वम्
अक्षरपुरुषोत्तमदर्शने ब्रह्माऽक्षरस्य धामरूपत्वमपि निरूप्यते। परब्रह्मस्वामिनारायणस्येदं नित्यनिवासस्थानं शास्त्रेषु भूयो निरूपितम्। यथा - “ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः। यस्तन्न वेद किमृचा करिष्यति य इत्तद् विदुस्त इमे समासते।,”48 “तेषामेव ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्। तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति॥”49
एतत्सर्ववचांस्यवबुध्यैव श्रुति
अथाऽक्षरधामाऽवाप्य तत्रस्थानां विदेहमुक्तानां विग्रहैश्वर्यादिविषयेऽपि ब्रह्मसूत्रे चिन्तितम्। सम्पद्याविर्भावाधिकरणे51 दिव्यब्राह्मविग्रहवत्त्वम्, अविभागाधिकरणे52 परमात्मस्वरूपे भक्त्युपासनपरमप्रकर्षात् तदविभागः, ब्राह्माधिकरणे53 ब्राह्मशरीरगुणयोगः चिद्रूपत्वं च, सङ्कल्पाधिकरणे54 मुक्तानां सत्यसङ्कल्पत्वम्, अभावाधिकरणे55 परमात्मेतरपदार्थनिर्माणं परमात्मसङ्कल्पाधीनम्, तन्वधिकरणे56 परमात्मस्वरूपानन्दग्रहणे तन्वनधीनत्वेऽपि परमात्मेच्छया सर्वमुक्तेभ्यो दिव्यब्राह्मविग्रहप्राप्तिः, प्रदीपाधिकरणे57 मुक्तात्मनां सर्वज्ञत्वम्, जगद्व्यापाराधिकरणे58 मुक्तात्मनामैश्वर्ये स्वातन्त्र्येण जगद्व्यापारवर्ज्यत्वं ब्रह्मणा भोगमात्रसाम्यं धामाऽक्षरे च शाश्वताऽवस्थानमित्यादिविषये भूयोऽक्षरधाम प्रकीर्तितम्।
तदेतत्सर्वमपि सङ्गृह्य सत्सङ्गदीक्षायां समासेनोक्तम् “धर्मैकान्तिकसंसिद्धिम् आप्नुते दिव्यमक्षरम्। शाश्वतं भगवद्धाम मुक्तिमात्यन्तिकीं सुखम्॥”59 इति।
अक्षरब्रह्मसत्पुरुषो गुरुः
अक्षरब्रह्मणश्चिदाकाशरूपं सूक्ष्मत्वादिन्द्रियाऽगोचरम् अक्षरधामापि तमसः पारत्वात् सुदूरत्वाद्दुर्लभम्। अत एव तदेवाक्षरब्रह्म परमात्मोत्तम
एतदेव रहस्यं सत्सङ्गदीक्षायामपि विवर्णितम्। यथा – “साक्षाद् ब्रह्माऽक्षरं स्वामी गुणातीतः सनातनम्। तस्य परम्पराऽद्याऽपि ब्रह्माऽक्षरस्य राजते॥ गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः। प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥”61 ”ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा। सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥”62 एवमेव क्वचिद् ब्रह्मस्वरूपगुरोरावश्यकताप्रदर्शने क्वचिच्च तद्ध्यानाश्रयाज्ञापालनादेरादेशे “हरिर्ब्रह्मगुरुश्चैव”63 “ब्रह्माऽक्षरं तथा। गुणातीतं गुरुं”64 “गुरुं ब्रह्मस्वरूपं”65 “ब्रह्माऽक्षरं गुरुं”66 “ब्रह्मगुरुं”67 “प्रत्यक्षमक्षरं गुरुम्”68 “ब्रह्माऽक्षरे गुरौ”69 इत्यादिना ब्रह्मगुरुर्दृढायितः। गुणातीतानन्दस्वामिमहाराजारब्धाऽक्षरब्रह्मगुरुपरम्परा ब्रह्मस्वरूपभगतजीमहाराज-ब्रह्मस्वरूपशास्त्रीजीमहाराज-ब्रह्मस्वरूपयोगीजीमहाराज-ब्रह्मस्वरूप-
प्रमुखस्वामिमहाराजेतिनामभिर्ग्रन्थेऽस्मिन्नुल्लिखिता।70 सत्सङ्गदीक्षाशास्त्ररचयिता स्वयमेव ब्रह्माक्षरगुरुपरम्पराप्रतिष्ठितः प्रकटगुरुः सन्नपि निर्मानभावेन स्वनामधेयमनुद्घाटयन् परमात्मनो ब्रह्माक्षरगुरुद्वारा सदा प्राकट्यमुदलेखीत्। सम्प्रदायेऽस्मिन् प्रसिद्धं यत् सम्प्रति प्रकटाऽक्षरब्रह्मगुरुर्महन्तस्वामिमहाराज एवेति।
२. पुरुषोत्तमस्वरूपम्
अक्षरपुरुषोत्तमदर्शने सर्वावतारावतारित्वेन सर्वोपरित्वेन सर्वकारणकारणत्वेन स्वतन्त्रतया सर्वकर्तृत्वेन परतोऽप्यक्षरात्परत्वेन च पुरुषोत्तमपरब्रह्मपरमेश्वरादिशब्दैः प्रसिद्धं परमात्मतत्त्वं निरूपितम्। ब्रह्मसूत्रे परमात्मस्वरूपगुणादिकं प्रसाधितम्।
कर्तृत्वम्
ब्रह्मसूत्रस्य “जन्माद्यस्य यतः”71 इति द्वितीयसूत्रमारभ्यैव जगत्कर्तृत्वेन परब्रह्मणो कथनम्। ईक्षत्यधिकरणे72 छन्दोगैः समाम्नातान् “सदेव सोम्येदमग्र आसीत्”73 “तदैक्षत बहु स्यां प्रजायेयेति”74 इत्यादिमन्त्रान् विषयीकृत्य ईक्षणकर्मणा परमात्मनो निमित्तकारणत्वं, तद्व्यापकत्व
सत्सङ्गदीक्षायामपि ब्रह्मसूत्रवत् “सर्वकर्ता,”78 “कर्ताऽयं सर्वहर्ताऽयं सर्वोपरि नियामकः”79 इत्यादिवचनैः परमात्मकर्तृत्वं प्रख्यापितम्। अत्र न केवलं तत्त्वज्ञानचर्चायामपि तु साधनायामपि परमात्मकर्तृत्वविचारं निवेश्य तद्बलाद् दुःखविरहिते आनन्दे निमज्जनमशिक्ष्यत। यथा “भगवान् सर्वकर्ताऽस्ति दयालुः सर्वरक्षकः। स एव नाशकः सर्व-सङ्कटानां सदा मम॥ भगवान् कुरुते यद्धि हितार्थमेव तत्सदा। प्रारब्धं मे तदिच्छैव स एव तारको मम॥”80 “भूतं यच्च भवद् यच्च यदेवाग्रे भविष्यति। सर्वं तन्मे हितायैव स्वामिनारायणेच्छया॥”81
परमात्मानं सर्वकर्तारं दयालुं सर्वरक्षकं च मत्वा स मत्सकलदुःखान्यवश्यं विनङ्क्ष्यति, तत्कर्तृत्वं च सदैव मम सुखायैवेति विश्वासपूर्वकं कर्तृत्वमननमिदम्। भूयश्च सर्वकर्मफलप्रदातृपरमात्मेच्छयैव मत्प्रारब्धं सञ्चालितमिति स्वसकलैश्वर्यसम्पन्नपितुः क्रोडे क्रीडन् बाल इव भक्तः कर्तृत्वविचारेण परमात्माङ्के रममाणो भवति।
साकृतिकत्वम्
परमात्मस्वरूपाकृतिविषयेऽपि ब्रह्मसूत्रे सत्सङ्गदीक्षायां च निर्णीयोद्घोषितम्। “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः॥ तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी”82 इति छान्दोग्योपनिषन्मन्त्रे परमात्मस्वरूपं विवर्णितम्। अत्र हिरण्मयः इत्यादिवर्णवर्णनेन श्मश्रुकेशाक्ष्याद्यङ्गोल्लेखश्रवणात् पुरुषपदेन निश्चिताकृतिकथनाद् दृश्यत इति दर्शनकर्मदर्शनाच्चानेन परमात्मस्वरूपं साकारमेवेति निश्चीयते। इममेव मन्त्रं गृहीत्वाऽन्तस्तद्धर्माधिकरणे83 आदित्यान्तःस्थत्वेन श्रूयमाणं पुरुषं परमात्मानमुक्त्वा तत्साकृतिकत्वं तद्दिव्यविग्रहवत्त्वं च न्यरूपि। परञ्च ब्रह्मपरब्रह्मसाकारत्वविषयको निर्णय ईक्षतेर्नाऽशब्दम्84 इति सूत्रे उद्घोषित एव पुनश्च सर्वोपेताधिकरणे “विकरणत्वान्नेति चेत् तदुक्तम्”85 इत्यादिनापि दृढायितः।
सत्सङ्गदीक्षायां परमात्मस्वरूपाकारविषये स्फुटं शब्दितं “साकारः”86 इति। अन्यच्च “सर्वकर्ता”87 “कर्ताऽयं सर्वहर्ताऽयं... नियामकः”88 इत्यादिशब्दैर्वर्णितं परमात्मकर्तृत्वं, पूर्वोक्तानुसारं च निर्णीतं मुक्त्यवस्थायां धामगमनं तत्र च परमात्मसुखानुभूतिरित्यादिकं मूर्तिमत्त्वज्ञापकमेव।
सर्वोपरित्वम्
परब्रह्मपरमात्मा सर्वोपरि सर्वसमुत्कृष्ट इत्यपि ग्रन्थद्वये सुस्पष्टम्। ब्रह्मसूत्रान्तर्गतपराधिकरणे89 सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः स्थानविशेषात् प्रकाशादिवदुपपत्तेः अन्यनिषेधाद् आयामशब्दादिभ्यः इत्यादिहेतुभिः सर्वतः परभूतादक्षरादपि परत्वेन परमात्मनः सर्वत्र सर्वथा सर्वदा सर्वोत्तमत्वं निगदितम्।
“सर्वोपरि”90 इति शब्देन सत्सङ्गदीक्षाग्रन्थः परमात्मनः सर्वसमुत्कृष्टत्वमुपादिशत्। आधिक्येन च स्पष्टतया वक्ति - “परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा। ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥”91 भूयश्च पूर्वत्र प्रसाधिते सर्वकर्तृत्वसकलनियामकत्वे अपि सर्वोपरित्वं ज्ञापयतः।
प्रत्यक्षत्वम्
सर्वकर्ता सर्वनियन्ता सदासाकारः सर्वसमुत्कृष्टोऽयं परमात्मा पुरुषोत्तमः नैकजीवेश्वरोद्दिधीर्षया करुणावरुणालयः स्वयं स्वदिव्याक्षरधामतः सकलैश्वर्यसम्पन्नः सन्नेव पृथिव्यामवतरतीति दर्शनेऽस्मिन् सिद्धान्तितम्। इदमेव रहस्यं प्रकारचतुष्टयेन ब्रह्मसूत्रे सत्सङ्गदीक्षायां च दरीदृश्यते। तर्कप्रस्थाने इन्द्रप्राणाधिकरणगतसूत्रैः इन्द्रवामदेवयोरुदाहरणपूर्वकं शास्त्रदृष्टिनयोपासात्रैविध्याऽऽश्रितत्वादिविषये चर्चित्वा ब्रह्मस्वरूपगुरुद्वारा परमात्मप्राकट्यविषये निर्णीतं प्राक्। तथैव “अभिव्यक्तेरित्याश्मरथ्यः,” “अनुस्मृतेर्बादरिः,” “सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति” इति सूत्रत्रयेणाश्मरथ्यबादरिजैमिनीत्याचार्यत्रयाभिमतद्वाराऽपि परमात्मा प्रादेशमात्रतां भजत इति दृढायितम्।92 अत्र सूत्रत्रये अभिव्यक्तेरनुस्मृतेः सम्पत्तेश्चेति त्रयो हेतवो दर्शिताः। तत्रानन्दपूर्वकं स्वोपासनया परमात्मा प्रादेशमात्रतयाऽभिव्यक्तस्वरूपं बिभ्रति, परमात्मदर्शनानन्तरं तन्मनननिदिध्यासनाऽभिध्यानादिरूपानुस्मृतये परमात्मनः प्रत्यक्षस्वरूपे परममहिमदिव्यभावस्नेहप्राचुर्यजनिततल्लीनतालक्षणसम्पत्तिहेतुना चापि परमात्मनः प्रादेशमात्रता। एवमनवधिकातिशयानन्तापारपरमात्मनः प्रादेशमात्रत्वमुक्त्वैतस्मिन् विषये स्वामिनारायणभाष्ये चतस्रो रीतयो ज्ञापिता – स्वयं परमात्मा, तद्विभूतिस्वरूपाणि, ब्रह्माक्षरगुरुद्वारा सम्यगखण्डिततया प्राकट्यं प्रतिमास्वरूपाणि च।93
एष एव सिद्धान्तः सत्सङ्गदीक्षायामपि प्राप्यते। “मुमुक्षूणां विमोक्षाय प्रकटो वर्तते सदा”94 इत्युक्तदिशा स्वयं परब्रह्म परमात्मा कृपातिशयेन धरायामस्यां प्रादुर्भूय स्वामिनारायण इति नामधेयेन प्रसिद्धिमाप्नोदिति। “स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः। परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥”95 “कृपयैवाऽवतीर्णोऽत्र मुमुक्षुमोक्षहेतुना। परब्रह्म दयालुर्हि स्वामिनारायणो भुवि॥”96
स एव परमात्मा जीवेश्वरचेतनतत्त्वमनुप्रविश्य विभूतिस्वरूपेणाप्यवन्यामवतीर्य तत्तदुद्देश्यं प्रपूरयति। एतद्विभूतिस्वरूपमवतारशब्देनापि परिचीयते। “हरेस्तदवताराणाम्”97 इत्यनेन तद्धर्यवतारखण्डननिषेधविषये “चैत्रशुक्लनवम्यां हि कार्यं श्रीरामपूजनम्। कृष्णाऽष्टम्यां तु कर्तव्यं श्रावणे कृष्णपूजनम्॥”98 इत्यनेन चाऽवतारजन्मदिवसे तत्पूजनादेशे तानि स्वरूपाण्यत्र संस्मारितानि।
स्वान्तर्धानादनु परमत्मनः सम्यङ्नैरन्तर्येण प्राकट्यं त्वक्षरब्रह्मगुरुद्वारैवास्ति तदनादितो मायारहितत्वात् परमात्मधारणे तत्सर्वोत्कृष्टपात्रत्वात् परब्रह्मणा तथैव निर्णीतत्वाच्चेत्यनेन परमात्मनोऽखण्डं प्राकट्यं दर्शनमिदमुज्जुघोष। सत्सङ्गदीक्षायामपि “ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा। सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥”99 इत्यादिवचनैः समर्थितम्। एवं प्रकटपरमात्मप्राप्तेरानन्दानुभूतिप्रसङ्गेऽप्युक्तं “प्रत्यक्षमिह लब्धो मे स्वामिनारायणो हरिः॥”100 इति।
किञ्चाक्षरब्रह्मगुरुणा प्रतिष्ठापिताः पूजिता वा मूर्तयोऽपि परमात्मस्वरूपाण्युच्यन्ते। अत एव तास्वपि परमात्मभावं संरक्ष्य भक्तिभावेन तत्पूजादिकरणे सत्सङ्गदीक्षा प्रेरयति। अत्र त्रिधा मूर्तिस्थापनमुक्तम्। प्रथमं नित्यपूजायां यथा “स्थापयेच्चित्रमूर्तीश्च शुचिवस्त्रोपरि ततः। दर्शनं स्याद् यथा सम्यक् तथा हि भक्तिभावतः॥”101 द्वितीयं गृहमन्दिरे यथा – “प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ। गुरवश्च गुणातीता भक्त्या परम्परागताः॥”102 तृतीयं च नगरस्थमन्दिरे यथा “मन्दिराणां हि निर्माणं तदाज्ञामनुसृत्य च। दिव्यानां क्रियते भक्त्या सर्वकल्याणहेतुना॥ पुरुषोत्तममूर्त्या तद्-मध्यखण्डे यथाविधि। सहितं स्थाप्यते मूर्तिरक्षरस्याऽपि ब्रह्मणः॥”103
अन्तर्यामित्वम्
एष एव परमात्मा सर्वात्मनि स्थित्वा नियन्तृत्वात् सर्वान्तर्यामीत्यप्युच्यते। परमात्मनो हृत्स्थत्वं नियामकत्वं व्यापकत्वं सर्वकर्मफलप्रदायकत्वं च सङ्कलय्य तदन्तर्यामित्वमिति स्पष्टमवगम्यते। अथ “अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।”104 “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः”105 इत्यादिना कठोपनिषत्प्रोक्तपरमात्माङ्गुष्ठमात्रत्वं प्रसाधयितुं प्रमिताधिकरणान्तर्गते “हृद्यपेक्षया तु मनुष्याधिकारत्वात्”106 इति सूत्रे परमात्मैव स्वोपासनसुखायोपासकहृदयारविन्देऽवतिष्ठतीत्युक्तमतो हृद्यपेक्षया परमात्माऽप्यङ्गुष्ठपरिमाणवत्त्वं भजत इति निश्चप्रचम्। एवमल्पपरिमाणहृत्स्थतयैव ध्येयत्वादुपास्यत्वाच्च “निचाय्यत्वाद्”107 इति हेतुना सर्वत्राधिकरणे सर्वव्यापकत्वे सति सर्वहृदयान्तर्वर्तित्वं न्यरूप्यत। सत्सङ्गदीक्षायामपि परमात्मन आत्मस्थत्वमुल्लिखितम्। परमात्मभक्तेन नित्यपूजावसरे “हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ। तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥”108 इत्यनेन ब्रह्मपरब्रह्मणोर्मानसी पूजा विधातव्येत्युक्तम्। मानस्यां पूजायां हृत्पद्मेऽन्तर्यामित्वेन स्थितः परमात्मैव धार्यते। तस्मिन्नेव विधावावाहनपुनरागमनमन्त्रयोरपि “आगम्यतां मदात्मतः”109 “गच्छाऽथ त्वं मदात्मानम्”110 इत्यक्षरपुरुषोत्तमयोः स्वात्मतो गमनागमनकथने स्वात्मन्यवस्थानं निश्चीयते।
परञ्च प्रागुक्तानुसारमीशावास्यमिदं सर्वमिति यजुर्मन्त्रं गृहीत्वा ब्रह्मसूत्रस्थसर्वत्राधिकरणे ब्रह्मपरब्रह्मणोर्व्यापकत्वं प्रसाधितमित्यनेनाप्यन्तर्यामित्वं ज्ञायते। तथैव “व्यापकम्”111 इति शब्देनाक्षरपुरुषोत्तमव्यापकत्वं सत्सङ्गदीक्षाऽभिप्रेतमपि।
किञ्चान्तर्याम्यधिकरणं112 तु कृत्स्नतया परमात्मसर्वान्तर्यामित्वपरायणमेव। अत्र “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः॥”113 इत्यादीनि श्रुतिवचांसि स्वीकृत्य पृथिव्यबग्न्यन्तरिक्षवाय्वादिषु सकलचिदचित्पदार्थेष्वन्तर्यामितया परमात्माऽवतिष्ठत इति निरूपितम्। सत्सङ्गदीक्षायां ‘नियामकः’114 इति शब्देन सर्वनियामकत्वेन पुरुषोत्तममहिमा। आत्मान्तःस्थत्वे सिद्धे नियामकत्वस्य प्रसाधनेनाऽन्तर्यामित्वमेव सिध्यति।
निर्दोषत्वम्
श्रुतमस्माभिरद्यावधि परमत्मनः कर्तृत्वं व्यापकत्वं धरायामस्यां प्राकट्यं च। एवं सत्यपि परमात्मनो कर्मबन्धविहीनत्वं कामक्रोधाऽहङ्कारादिमायादोषरहितत्वं चेति प्रस्तुतग्रन्थद्वयोद्घोषः। “सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः॥”115 इत्यादिश्रुतिसन्दर्भपुरःसरं “सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्”116 इति सूत्रे ब्रह्मपरब्रह्मणोः जीवेश्वरात्मसु व्यापकत्वेऽपि बद्धजीवेश्वरतः सर्वथा विशिष्टत्वात्, भूमिस्थहेम्न इव भूतान्तरस्थव्योम्न इव च तयोर्न लौकिकसुखदुःखादिसम्भोगदोषभाक्त्वं न वा स्वव्याप्यदोषगन्धापादनावसर इति प्रतिपादितम्। तथैव “ब्रह्मपरब्रह्मणोर्जगदुपादानत्वेऽपि तद्वद्भावप्रसङ्गो न तु नैवाऽस्ति। दृष्टान्तभावाद् विकारत्वाऽऽपन्नमुपादेयं स्वोपादाने प्रलीयमानमपि स्वधर्मविशेषैः स्वोपादानं न दूषयतीत्यस्मिन्नर्थे दृष्टान्तानामुपलब्धेरित्यर्थः।”117 इत्यादिवाक्यसमूहद्वारा “न तु दृष्टान्तभावात्”118 इति सूत्रे परमात्मनो जगत्कारणत्वेऽपि निर्लेपत्वं प्रत्यपादि। एवं “न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि”119 इति सूत्रे परब्रह्मणो जडचेतनात्मकसकलसृष्ट्यन्तर्यामितयाऽवस्थानतोऽपि श्रुतिस्मृतिशास्त्रेषु सर्वत्रावस्थाने चाऽपि तदुभयलिङ्गादर्थात् परब्रह्मणो निरतिशयालौकिकसद्गुणवत्त्वलक्षणसगुणत्वे सति सत्त्वरजस्तमइतिमायागुणरहितत्वलक्षणनिर्गुणत्वान्न तत्स्थानप्रयुक्तदोषप्रसङ्गसम्भव इति स्पष्टीकृतम्।
एवमेव च सत्सङ्गदीक्षाऽपि परमात्मनो मायामलरहितत्वं दिव्यत्वं चाध्यापयति। यथा “तेषु मायापरौ नित्यम् अक्षरपुरुषोत्तमौ। जीवानामीश्वराणां च मुक्तिस्तद्योगतो भवेत्॥”120 “दृश्यो न मानुषो भावो भगवति तथा गुरौ। मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥”121
आनन्दप्रदायकत्वम्
परमात्मा परमानन्दप्रदातेति विषये आनन्दमयाधिकरणे122 “तस्माद्वा एतस्माद् विज्ञानमयाद्। अन्योन्तर आत्माऽऽनन्दमयः”123 इत्यादितैत्तिरीयमन्त्रसमन्वये अभ्यासात्, प्राचुर्यात्, तद्धेतुव्यपदेशात्, भेदव्यपदेशात्, कामादित्यादिहेतुभिः परमात्मैवानन्दमय इति मुहुः प्रतिपादितम्। तद्धेतुव्यपदेशादित्यत्रोक्तहेतौ “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति। को ह्येवान्यात् कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति।”124 इति मन्त्रमाधारीकृत्य जीवेश्वरादीनामानन्दस्य हेतुः परमात्मैवेति दृढायितम्।
सत्सङ्गदीक्षा क्वचित् प्रार्थनायां क्वचिच्च वैचारिकसाधनायामित्यादिविषयविभेदेन परमात्मन आनन्दप्रदत्वमुद्घाटयति। ग्रन्थस्याद्येऽन्तिमे चापि श्लोकद्वये प्रार्थनारूपेणोक्तम् – “स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः। सर्वेभ्यः परमां शान्तिम् आनन्दं सुखमर्पयेत्॥”125 “तनोतु सकले विश्वे परमानन्दमङ्गलम्। स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः॥”126 परमानन्दप्रदायकादेव खल्वानन्दयाचना कर्तव्येति विवेकपुरःसरमेवेयं प्रार्थना। एवं च प्राक्कथनमनुसृत्य ब्रह्मस्वरूपगुरुं द्वारीकृत्य साक्षात् परमात्मा भूमिस्थसकलभक्तेभ्य आनन्दं प्रयच्छतीति कथयति – “ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा। सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥”127 अत एव प्रकटपरमात्माऽऽश्रयबलेन धन्यत्वं पूर्णकामत्वं सुखं चेत्यादिकमनुभवितव्यमिति कथनायाऽऽश्रयदीक्षामन्त्रे वदति – “धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी। अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात्॥”128 सर्वकर्तृहर्तृनियन्तृभगवद्बलवैभवात् सर्वथा दुःखनिवृत्तिपूर्वकं चरमसुखानुभूतिरवश्यंभावीति विचारेण प्रत्यक्षाऽक्षरपुरुषोत्तमप्राप्तिबलेन सदैवानन्दे स्थेयमित्युपदेशेऽपि परमात्मान आनन्ददायकत्वमेव बोधयन् गदति “नूनं नङ्क्ष्यन्ति मे विघ्नाः पापदोषाश्च दुर्गुणाः। नूनं प्राप्स्याम्यहं शान्तिमानन्दं परमं सुखम्॥ यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः। निश्चयेन तरिष्यामि दुःखजातं हि तद्बलात्॥ विचार्यैवं बलं रक्षेद् नाऽऽश्रितो निर्बलो भवेत्। आनन्दितो भवेन्नित्यं भगवद्बलवैभवात्॥”129 “कर्ताऽयं सर्वहर्ताऽयं सर्वोपरि नियामकः। प्रत्यक्षमिह लब्धो मे स्वामिनारायणो हरिः॥ अत एवाऽस्मि धन्योऽहं परमभाग्यवानहम्। कृतार्थश्चैव निःशङ्को निश्चिन्तोऽस्मि सदा सुखी॥”130
अनन्यतया परमोपास्यत्वम्
परमात्मन एव सर्वकर्तृत्वात् सर्वसुखप्रदायकत्वात् सर्वोपरित्वात् सर्वान्तर्यामित्वादनन्यनिष्ठया परमोपास्यत्वमपि। यथाश्रयभावाधिकरणे131 छान्दोग्योपनिषत्प्रोक्तवैश्वानरविद्यां गृहीत्वा तत्सहभावाऽश्रुतेर्दर्शनादिति च हेतुद्वयेनान्यदेवानामुपासनेनोपासकात्मनि परमात्मस्वरूपस्य कार्त्स्न्येन ज्ञानाभावादुपासकस्य यथावदुपासनशून्यत्वं मूर्धापतनाऽन्धत्वाद्यनिष्टफलापादनादिकं च भवतीत्युक्तम्। अनेन च ऋते परमात्मानं नान्य उपासितव्य इति निर्णीतम्। एवमेव प्रतीकाधिकरणे132 परमात्मानं विहाय द्युनामादिप्रतीकवर्गः नोपास्य इति बादरायणव्यास उपदिदेश। सत्सङ्गदीक्षाऽपि परमात्मैवानन्यत्वेनोपास्य इत्युपदिशन् कथयति – “स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः। परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥ स एकः परमोपास्य इष्टदेवो हि नः सदा। तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥”133
साधनमीमांसा
१. प्रधानसाधना
इन्द्रियान्तःकरणाऽगोचरावप्यक्षरपुरुषोत्तमौ परमात्मकृपयैव प्राप्यते सा च कृपा “एतैरुपायैर्यतते यस्तु विद्वान्” इत्यादिना प्रदर्शितया साधनया लभ्यत इति मुण्डकोद्घोषः।134 सकलसाधनेषु प्रधानं साधनमक्षररूपो भूत्वा पुरुषोत्तमोपासनेत्येवं प्रस्तुतग्रन्थद्वयस्य मतैक्यम्। ब्रह्मसूत्रस्थपुरुषविद्याधिकरणे135 पुरुषपदेन मुण्डकोक्तः परतोऽप्यक्षरात् परभूतः पुरुषः पुरुषोत्तमो निर्णीतः। अत्र “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।”136 “उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः॥”137 इत्यादिमन्त्रैः परमात्मनः परमोपास्यत्वं विज्ञायते। परमात्मोपासनाय ब्रह्मरूपत्वसम्पत्तिरप्यनिवार्येत्यप्यत्र “धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत। आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाऽक्षरं सोम्य विद्धि॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्॥”138 इत्यादिसन्दर्भैः साधितम्। सत्सङ्गदीक्षाशास्त्रकारप्रकटब्रह्मस्वरूपमहन्तस्वामिमहाराजस्याप्ययमेव सिद्धान्तः। तेनैव स सर्वसत्सङ्गिभ्यः “अक्षरमहं पुरुषोत्तमदासोऽस्मि” इति साधनामन्त्रं प्रायच्छत्। एतन्मन्त्रजापविषये ग्रन्थेऽस्मिन् सोऽलिखत् – “अक्षरमहमित्येवं भक्त्या प्रसन्नचेतसा। पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥”139 स्वसकलत्यागिगृहिभ्य एतत्सिद्धान्तमनुसृत्यैव साधनां कर्तुं प्रेरयन् स उपादिशत् – “निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्। विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥”140 “स्वाऽऽत्मब्रह्मैकतां प्राप्य स्वामिनारायणो हरिः। सर्वदा भजनीयो हि त्यागिभिर्दिव्यभावतः॥”141
ब्रह्मात्मैक्यम्
पुरुषोत्तमोपासनेऽनिवार्यतयोक्तमक्षरब्रह्मणैक्यमथ भूयः निश्चीयते। “आत्मेति तूपगच्छन्ति ग्राहयन्ति च”142 इति सूत्रे वामदेवादीनां परमात्मोपासकानामुदाहरणेन ब्रह्मात्मैक्यं साधितम्। “तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाऽहं ब्रह्माऽस्मीति”143 मन्त्रेऽस्मिन् वामदेवर्षिरहं ब्रह्मास्मीत्यनेन ब्रह्मात्मैक्येन सहैव परमात्मोपासनं बोधयति। अन्यशास्त्राण्यप्येतदेव रहस्यं ग्राहयन्तीत्युक्त्वा भूयः शास्त्रवचनैः प्रतिपादितम्।
सत्सङ्गदीक्षायां मानसीपूजाऽऽरम्भत एव स्वस्यात्मन्यक्षरब्रह्मरूपत्वविभावनोपदिष्टा। यथा “अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्। कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥”144 वैचारिकसाधनायामात्मविचारनिरूपणावसरेऽपि प्रतिदिनं स्वात्मनो ब्रह्मणैकत्वस्यैव प्रतिपादनमवलोक्यते यथा “देहत्रय-त्र्यवस्थातो ज्ञात्वा भेदं गुणत्रयात्। स्वात्मनो ब्रह्मणैकत्वं प्रतिदिनं विभावयेत्॥”145
आत्मबुद्धिः
स्वात्मत्वेनानुसन्धानमात्मबुद्धिः। ब्रह्मात्मैक्यसम्पादने खलु प्रत्यक्षब्रह्मगुरावात्मबुद्धिः सम्पादनीयेति सिद्धान्तो ग्रन्थद्वये प्रोक्तः। ब्रह्मात्मैक्याय प्रत्यक्षाक्षरब्रह्मगुरावात्मबुद्धिस्तस्यै च तादृशगुरोः प्राप्तिरनिवार्या। “तद्विज्ञानार्थं स गुरुमेवाऽभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्म निष्ठम्॥”146 “गुरुं ब्रह्मस्वरूपं तु विना न संभवेद् भवे। तत्त्वतो ब्रह्मविद्यायाः साक्षात्कारो हि जीवने॥ नोत्तमो निर्विकल्पश्च निश्चयः परमात्मनः। न स्वात्मब्रह्मभावोऽपि ब्रह्माऽक्षरं गुरुं विना॥”147 इत्यादिशास्त्रसन्दर्भैरवबुध्यते ब्रह्मरूपत्वसम्पत्तये ब्रह्माक्षरगुरोरावश्यकतेति।
अक्षरब्रह्मगुरुमवाप्य तस्मिन्नात्मबुद्धिर्दृढा प्रीतिर्वा कर्तव्येति विषये आत्मगृहीत्यधिकरणान्तर्गतं “आत्मगृहीतिरितरवद् उत्तरात्”148 इति सूत्रं प्रमाणम्। सूत्रेऽस्मिन् गृहीतिर्नाम बुद्धिरनुसन्धानं वा। आत्मगृहीतिरित्यात्मबुद्धिरेव। अक्षरब्रह्मात्रेतरत्त्वेन गृहीत्वा तदक्षरब्रह्मवत् तत्साम्येन ममात्माऽक्षरब्रह्मेति तद्भावेन चाऽऽत्मनोऽनुसन्धानमिति। तस्मिन्नेवाऽधिकरणे “समान एवं चाऽभेदात्”149 इति सूत्रे स्वसजातीयतया पृथिव्यामवस्थिते गुरुरूपे प्रत्यक्षाऽक्षरब्रह्मणि स्वात्मनोऽभेदेनाऽनुसन्धानात् तदनुसन्धातुर्भक्तस्यात्मनि ब्रह्मात्मैक्यलक्षणाऽऽत्मगृहीतिः सिद्ध्यतीति साधितम्।
ब्रह्मस्वरूपगुरुप्रणीतसत्सङ्गदीक्षायामपि तादृशगुरावात्मबुद्धेरुपदेशः। “प्रीतिः कार्याऽऽत्मबुद्धिश्च ब्रह्माऽक्षरे गुरौ दृढा। प्रत्यक्षभगवद्भावात् सेव्यो ध्येयः स भक्तितः॥”150 “प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा। कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥ ब्रह्माऽक्षरे गुरौ प्रीतिर्दृढैवाऽस्ति हि साधनम्। ब्रह्मस्थितेः परिप्राप्तेः साक्षात्कारस्य च प्रभोः॥”151
अक्षरब्रह्मध्यानम्
परमात्मनोऽन्तर्यामित्ववर्णनप्रसङ्गे निचाय्यत्वादिति हेतुना तद्ध्येयत्वं तदुपास्यत्वं चात्र चर्चितम्। एवमेवाक्षरब्रह्मविषयेऽप्यवबोध्यम्। भूयश्च “अल्पश्रुतेरिति चेत्तदुक्तम्”152 इत्यत्र दहराधिकरणनिरूपिताक्षरब्रह्मणो दहरत्वं दहरशब्दस्याऽल्पार्थत्वं चापि साधकेभ्यो ध्यानसौकर्यानुग्रहाय हृदाद्यल्पस्थानीयत्वमेवेति गदितम्। अक्षरध्यधिकरणं153 त्वक्षरब्रह्म तत्सद्गुणगणसहितमेव ध्येयमिति न्यरूप्यत। तथैव सत्सङ्गदीक्षाशास्त्रमपि “हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ। तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥”154 इत्यनेन ब्रह्मगुरोर्ध्यानमुपादिशत्।
परमात्मोपासनम्
ब्रह्मणैकत्वविचारेण सहापि परमात्मोपासना कर्तव्येति चर्चितं प्राक्। परमात्मस्वरूपनिरूपणप्रसङ्गे स एव परमोपास्यो नान्य इत्यपि निश्चितम्। यथावत्परमात्मोपासने तदनन्तकल्याणगुणवत्त्वं तन्मायिकगुणरहितत्वं च ज्ञेयमिति माहात्म्यज्ञानपुरःसरमेव परमात्मोपासितव्य इत्युभयलिङ्गाधिकरणे155 निरूपितम्। तत्रैव पुनः “अपि च संराधने प्रत्यक्षाऽनुमानाभ्याम्”156 इति सूत्रमधिकृत्य “प्रत्यक्षब्रह्मस्वरूपगुरुदृढतमप्रसङ्गोपदेशादिभिर्बह्मात्मैक्यं सम्पाद्य प्रत्यक्षपरमात्मसमाराधनलक्षणभक्तावनुष्ठितायां तस्यैवानुग्रहतस्तद्दिव्यस्वरूपं साक्षात्क्रियते”157 इति सिद्धान्तः स्वामिनारायणभाष्ये श्रुतिस्मृतिसन्दर्भैर्ज्ञापितः। अनेन “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥”158 इति शास्त्रवचनानुसारं च परमात्मप्राकट्यानुभावके तत्सम्यग्धारके गुरावपि परमात्मभावेन भक्तिर्विधातव्येति विज्ञायते।
सत्सङ्गदीक्षाऽपि “सर्वकर्ता,” “सर्वहर्ता,” “सर्वोपरि,” “सर्वरक्षकः,” “दयालुः,”159 “नियामकः,” “दिव्यौ” इत्यादिशब्दानुपयुज्य परमात्मनो निरतिशयदिव्यकल्याणगुणगणवत्त्वं प्रदर्शयति तथा च “मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा। कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥”160 इत्यादिवचनैः परमात्मनः प्रकटस्वरूपभूतब्रह्मस्वरूपगुरौ परमात्मदृष्टिं शिक्षयति।
२. औपयिकसद्गुणाः
अक्षररूपत्व
भक्तेषु दिव्यदृष्टिः
अक्षरपुरुषोत्तमाश्रित
सत्सङ्गदीक्षा “सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च। अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥”162 इति श्लोके दिव्यदृष्टिविषये सुहृद्भावदिव्यभावाक्षरब्रह्मभावेति भावत्रयं निरूपयति।
श्रद्धा
सर्वसाधनमातृत्वेन प्रसिद्धाऽक्षरपुरुषोत्तमस्वरूपोपदेशचरित्रादिषु परमसत्यताधीरेव श्रद्धा, विश्वास इत्यर्थः। नित्यमायापरभूताऽक्षरपुरुषोत्तमसाक्षात्कारे इन्द्रियान्तःकरणानामकिञ्चित्करत्वात् केवलप्रत्यक्षानुमानोपमानादीनि प्रमाणान्यसमर्थानि, प्रत्यक्षस्येन्द्रियान्तःकरणापेक्षत्वाद् अनुमानोपमानादीनां प्रत्यक्षोपजीव्यत्वाच्च। अत एवालौकिकविषयेऽनुमानादितः शास्त्राश्रयः श्रेयान्। एतत्सर्वमन्यच्चापि “शास्त्रयोनित्वात्”163 इति सूत्रे सोहापोहं तर्कमात्रप्रतिपादकतर्कानां निरसनपुरःसरं शास्त्रवचनेषु ब्रह्मस्वरूपगुरुवाक्येषु च श्रद्धा सम्पादनीयेति प्रतिपादितम्।
सत्सङ्गदीक्षाशब्दान्तर्गतदीक्षाशब्दस्य व्याख्यायामेव “दीक्षेति दृढसङ्कल्पः सश्रद्धं निश्चयोऽचलः”164 इत्यनेन श्रद्धा विराजते। अत एव न मानेर्ष्यादम्भादिदोषप्रेरणया न वा लौकिकफलेच्छयाऽपि तु श्रद्धया भक्तिभावेन दिव्यभावेन च सेवाभक्तिकथाश्रवणमननध्यानतपोयात्रादिसकलसाधनान्याचरितव्यानीत्युपादिशच्छास्त्रकारः। यथा “सेवाभक्तिकथाध्यानतपोयात्रादि साधनम्। मानतो दम्भतो नैव कार्यं नैवेर्ष्यया तथा॥ स्पर्धया द्वेषतो नैव न लौकिकफलेच्छया। श्रद्धया शुद्धभावेन कार्यं प्रसन्नताधिया॥”165 “अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्। महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥”166 “इत्येवमादिरूपेण श्रद्धया प्रीतिपूर्वकम्। हरिप्रसन्नतां प्राप्तुं विशेषां भक्तिमाचरेत्॥”167 “पठने चाऽसमर्थैस्तु श्रव्यं तत् प्रीतिपूर्वकम्। आचरितुं च कर्तव्यः प्रयत्नः श्रद्धया तथा॥”168
किञ्च “श्रद्धां प्रीतिं हरौ कुर्यात्”169 इति वाक्ये ग्रन्थरचयिता यूनां मिषेण सर्वस्मै परमात्मनि श्रद्धाया उपदेशं प्रायच्छत्। एवं चोक्तसाधनानि श्रद्धया कुर्वते भक्ताय परमात्मप्रसन्नताजीवन्मुक्त्यादिफलप्रापकानीति विषये वक्ति - “एतच्छास्त्रानुसारेण यः प्रीत्या श्रद्धया जनः। आज्ञोपासनयोर्दार्ढ्यं प्रकुर्यात् स्वस्य जीवने॥ हरेः प्रसन्नतां प्राप्य तत्कृपाभाजनो भवेत्। जीवन्नेव स्थितिं ब्राह्मीं शास्त्रोक्तामाप्नुयात् स च॥”170
अत्र क्वचिद् विश्वासशब्देनाऽपि श्रद्धा दृढायिता। “विश्वासः सुदृढीकार्यो भगवति तथा गुरौ।”171 “भजेत दृढविश्वासम् अक्षरपुरुषोत्तमे॥”172 इत्यादिवाक्यैर्ग्रन्थकारोऽक्षरपुरुषोत्तमे श्रद्धादार्ढ्याय सर्वेभ्यः प्रेरयति। भूयश्च तादृशश्रद्धालुभक्तस्य सङ्गेन साधकात्मन्यपि श्रद्धा जनयेदित्यादिकल्याणमनीषाभिः “हरेर्गुरोश्च वाक्येषु शङ्का यस्य न विद्यते। विश्वासुर्बुद्धिमान् यश्च कुर्यात् तत्सङ्गमादरात्॥”173 इत्यनेन तद्भक्तसङ्गः आदरेण कर्तव्यतयोक्तः। प्रार्थनस्यापि यथार्थं साफल्यं हरौ गुरौ च दृढविश्वासेनैव भवतीत्यनेन कथयति – “प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।”174 इति। एतच्छ्रद्धादार्ढ्यादिकं सर्वमपि सफलीकर्तुं शुभाशीर्वादानपि पाठयति प्रकटाक्षरब्रह्मगुरुमहन्तस्वामिमहाराजः – “सर्वेषां जायतां प्रीतिर्दृढा निष्ठा च निश्चयः। विश्वासो वर्धतां नित्यम् अक्षरपुरुषोत्तमे॥”175 इति।
निदिध्यासनम्
स्वाङ्गानुसारं निर्णीतायाः प्रीतिमहिमादिसाधनाया भूयो भूय आवर्तनं निदिध्यासनम्। साधनस्यास्य माहात्म्यं शास्त्रद्वये प्रगीतम्। ब्रह्मसूत्रे “आवृत्तिरसकृदुपदेशात्”176 इति सूत्रे “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः,”177 “तं पश्यते निष्कलं ध्यायमानः”178 इत्यादिषु मनननिदिध्यासनध्यानादिरूपेण मुहुरभ्यासोपदेशादिति हेतुना मोक्षसाधनभूतब्रह्मविद्याया असकृत् पौनःपुन्येनाऽऽवर्तनं कर्तव्यमित्युपदिदेश महर्षिबादरायणः। सत्सङ्गदीक्षायां परमात्मनो गुणातीतगुरूणां चोपदेशचरित्रादिकं मन्तव्यत्वेन निदिध्यासितव्यत्वेन चादिष्टम्। यथा - “कार्यं लीलाचरित्राणां स्वामिनारायणप्रभोः। श्रवणं कथनं पाठो मननं निदिध्यासनम्॥”179 “उपदेशाश्चरित्राणि स्वामिनारायणप्रभोः। गुणातीतगुरूणां च सत्सङ्गिनां हि जीवनम्॥ अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्। महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥”180
अनेन मनननिदिध्यासनरूपसाधनेन ब्रह्मगुणप्राप्तिः परब्रह्मसाक्षात्कारश्च भवतीति फलनिदर्शनेनापि साधनावर्तनं सदैव कर्तव्यतयाऽऽदिश्यते – “ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये। ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥”181 इति।
गृहस्थाश्रमे शमादमादिगुणानामाश्रमकर्मणां चापेक्षा
ब्रह्मविद्यायाः साकल्येन सम्पत्तये ब्रह्मात्मैक्यपरब्रह्मोपासनारूपप्रमुखसाधनेन सह तदौपयिकत्वेन शमदमादिसद्गुणा अप्यर्जितव्याः। दमो नाम बाह्येन्द्रियाणां परमात्माराधनप्रतिबन्धकलौकिकविषयेभ्यो निरोधः स च तपश्चर्यादिरूपः। शमश्चाऽन्तःकरणस्य निषिद्धविषयतो निरोधः।182 एते सद्गुणा ऊर्ध्वरेतसां नैष्ठिकब्रह्मचारिणां कृते त्वस्त्येव परं गृहस्थेभ्योऽप्युपयोगिन इति मर्म ब्रह्मसूत्रे शमदमाधिकरणे “शमदमाद्युपेतः स्यात् तथाऽपि तद्विधेस्तदङ्गतया तेषामवश्याऽनुष्ठेयत्वात्”183 इति सूत्रे स्पष्टीकृतम्।
इदमेव रहस्यं सत्सङ्गदीक्षायामपि दरीदृश्यते। चातुर्मासनियमेषु “चान्द्रायणोपवासादिः”184 इति शब्देन तपश्चर्यया देहदमनं साधनायां निवेशितम्। अयमेव दमनगुणः एकादश्यादिव्रतरूपेणाप्यर्जयितुं प्रेरयति - “संयमनोपवासादि यद्यत्तपः समाचरेत्। प्रसादाय हरेस्तत्तु भक्त्यर्थमेव केवलम्॥ एकादश्या व्रतं नित्यं कर्तव्यं परमादरात्। तद्दिने नैव भोक्तव्यं निषिद्धं वस्तु कर्हिचित्॥ उपवासे दिवानिद्रां प्रयत्नतः परित्यजेत्। दिवसनिद्रया नश्येद् उपवासात्मकं तपः॥”185
एवमेव शमरूपो गुणोऽपि साध्यत्वेनोक्तः। कामक्रोधादिदोषाणां शमनम् अक्षरमहं पुरुषोत्तमदासोऽस्मीति साधनामन्त्रेण कर्तव्यमित्यत्रोपदिष्टम् – “मानेर्ष्याकामक्रोधादिदोषाऽऽवेगो भवेत् तदा। अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥”186 इति।
किञ्च गृहस्थेभ्य आश्रमधर्मा अपि नित्यकर्तव्यतया ब्रह्मविद्यासहकारित्वेन च यथायोग्यं पालनीयेति विषये विहितत्वाधिकरणे187 प्रतिपादितं चतुर्भिः सूत्रैः। सत्सङ्गदीक्षायां च “अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा। धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥”188 “स्वधर्मं पालयेन्नित्यं परधर्मं परित्यजेत्।”189 इत्यादिश्लोकैः समासेनैव स्वधर्मपालनादेशं विधाय भूयः प्रत्येकधर्माणामुल्लेखपूर्वकं विशेषस्पष्टतया गृहस्थाश्रमोचितकर्माणि निरूपितानि। मातृपितृश्वसुरश्वश्रूस्नुषापुत्रपुत्र्यादिसम्बन्धिनां यथायोग्यं सेवनं परिवारजनेष्वैक्यम् आतिथ्यभावना स्वनिर्वाहानुसृत्य धनसञ्चयादिकं वात्सल्येनोक्त्वा गुरुहरिः स्वशिष्याणामैहिकमामुष्मिकं च सर्वथा श्रेयो व्यधात्। “सेवां मातुः पितुः कुर्याद् गृही सत्सङ्गमाश्रितः। प्रतिदिनं नमस्कारं तत्पादेषु निवेदयेत्॥ श्वशुरः पितृवत् सेव्यो वध्वा श्वश्रूश्च मातृवत्। स्वपुत्रीवत् स्नुषा पाल्या श्वश्र्वाऽपि श्वशुरेण च॥ संपाल्याः पुत्रपुत्र्यश्च सत्सङ्गशिक्षणादिना। अन्ये सम्बन्धिनः सेव्या यथाशक्ति च भावतः॥”190 “मिलित्वा भोजनं कार्यं गृहस्थैः स्वगृहे मुदा। अतिथिर्हि यथाशक्ति संभाव्य आगतो गृहम्॥”191 “स्वोपयोगाऽनुसारेण प्रकुर्यात् सङ्ग्रहं गृही। अन्नद्रव्यधनादीनां कालशक्त्यनुसारतः॥”192
आपत्कालीनधर्माः
“धर्मो रक्षति रक्षितः”193 इत्यादिभिः शास्त्रकारैर्दृढतया धर्मपालनमध्यापितम्। तथा च “शरीरमाद्यं खलु धर्मसाधनम्”194 इत्यनेनापि धर्मपालने शरीरावस्थानमपि दुर्निवार्यम्। द्वयोः समन्वयेन शास्त्रेष्वापद्धर्माः प्रोक्ताः। प्राणापद्युपपन्नायां दशायां क्वचिद् वैपरीत्येन वर्तनमपि तत्कालीनो धर्म एवेति रहस्यं ग्रन्थद्वये प्रबोधितम्।
ब्रह्मसूत्रे सर्वान्नानुमत्यधिकरणे195 छान्दोग्यकथितमहर्ष्युषस्तिचाक्रायणोदाहरणेन प्राणापत्तिसमये सर्वेषां जनानामन्नं भोक्तव्यमित्यनुमतिः प्रदत्ता। स्वच्छन्दाचारे एव प्रतिबन्धः किन्त्वापत्काले त्वबाधाच्छ्रुतिस्मृतिवचनाच्च शरीरमवस्थापितव्यमिति निर्णयः। सत्सङ्गदीक्षायामप्येतद्रहस्यं स्फुटं ज्ञापितम्। एतद्विषये ग्रन्थकारो वक्ति - “आपत्काले तु सत्येव ह्यापदो धर्ममाचरेत्। अल्पापत्तिं महापत्तिं मत्वा धर्मं न संत्यजेत्॥ आपत्तौ कष्टदायां तु रक्षा स्वस्य परस्य च। यथैव स्यात् तथा कार्यं रक्षता भगवद्बलम्॥ आपत्तौ प्राणनाशिन्यां प्राप्तायां तु विवेकिना। गुर्वादेशाऽनुसारेण प्राणान् रक्षेत् सुखं वसेत्॥”196
भूयश्च पतिपत्नीसम्बन्धविरहितेन जनेन सहाऽऽपत्कालं विना रहसि नैव स्थेयमित्यप्युपदिष्टमत्र। एवमत्राऽऽपत्कालीनधर्म उक्तोऽनापत्तिसमये च संयमोपि कथितः। यथा “स्वीयपत्नीतराभिस्तु रहसि वसनं सह। आपत्कालं विना क्वापि न कुर्युर्गृहिणो नराः॥ तथैव नहि नार्योऽपि तिष्ठेयुः स्वपतीतरैः। पुरुषैः साकमेकान्ते ह्यापत्तिसमयं विना॥”197 “आपत्कालेऽन्यरक्षार्थं स्पर्शे दोषो न विद्यते। अन्यथा नियमाः पाल्या अनापत्तौ तु सर्वदा॥”198
सङ्गविवेकः
सङ्गबलेन मनुष्य ऊर्ध्वाऽधोगती लभत इति लोकशास्त्रप्रसिद्धम्। अत एवोक्तम् – “सङ्गोऽत्र बलवाँल्लोके यथासङ्गं हि जीवनम्। सतां सङ्गम् अतः कुर्यात् कुसङ्गं सर्वथा त्यजेत्॥”199 इति। कुसङ्गत्यागपुर्वकं सत्सङ्गमाहात्म्यं शास्त्रेषूपदिष्टम्। ब्रह्मसूत्रस्य द्वितीयाऽध्यायान्तःस्थो द्वितीयः पादः चरमनिःश्रेयसप्रतिबन्धकरश्रुतिप्रत्यनीकपक्षप्रतिक्षेप्तुमारब्धः। अनेन कुसङ्गिनां परिचितिः। अत्रोत्पत्त्यसम्भवाधिकरणे200 नास्तिकशिरोमणिः स्वभाववादी चार्वाको निरस्तः। प्रत्यक्षैकप्रमाणपूजकोऽयं वेदपरमात्मपरलोकादीनां खण्डकः। परमात्मविरोधेन जायते तदवतारतदुपासनादीनामपि खण्डनम्। तदन्याश्च पाशुपतमताऽनुगामिनः पत्यधिकरणे201 पूर्वपक्षित्वेनोपस्थिताः। परमात्माऽऽकारखण्डका एतेऽपि कुसङ्गित्वेन परिचायिताः। परं चैकस्मिन्नसम्भवाधिकरणे202 कर्मैव जगद्धेतुत्वेन मन्यमानाः परमात्मास्तित्वद्वेषिणो वेदप्रामाण्यनिषेधका आर्हता निरस्ताः। समुदायाधिकरणेऽभावाधिकरणे सर्वथाऽनुपपत्त्यधिकरणे च चतुर्विधाः सौगताः प्रतिक्षिप्ताः।203 एतेऽपि चार्वाकाऽऽर्हतादिवच्छ्रुतिसिद्धान्तनिषेधकत्वाद् जगत्कर्तुः परमात्मनोऽस्तित्वमनङ्गीकाराच्च नास्तिका इत्युच्यन्ते। अन्येऽप्यत्र ह्याध्यात्मिकतत्त्वनिर्णयेऽनुमानप्रमाणं मुख्यत्वेन मन्यमानाः श्रद्धां च गौणीं कुर्वाणा वैशेषिका महद्दीर्घाधिकरणे204 कापिलाश्च रचनानुपपत्त्यधिकरणे205 प्रतिक्षिप्ताः। एते सर्वेऽपि ब्रह्मसूत्रे कुसङ्गित्वेन प्रख्याप्य तस्माद्दूर एवावस्थानं कर्तव्यमिति गूढोपदेशः।
सत्सङ्गदीक्षायां एते सर्वेऽन्ये चापि कुसङ्गिनः स्फुटं परिचायिताः। यथा “हरेस्तदवताराणां खण्डनं विदधाति यः। उपास्तेः खण्डनं यश्च कुरुते परमात्मनः॥ साकृतिकं परब्रह्म मनुते यो निराकृति। तस्य सङ्गो न कर्तव्यस्तादृग्ग्रन्थान् पठेन्न हि॥”206 “गुर्वाश्रयविरोधी यो वैदिकशास्त्रखण्डकः। भक्तिमार्गविरोधी स्यात् तस्य सङ्गं न चाऽऽचरेत्॥”207 “श्रद्धामेव तिरस्कृत्य ह्याध्यात्मिकेषु केवलम्। पुरस्करोति यस्तर्कं तत्सङ्गमाचरेन्न हि॥”208
मुक्तिमीमांसा
सकलसाधनानां फलमात्यन्तिकी मुक्तिः। एषा परमनिःश्रेयसदशा शास्त्रेषूपवर्णिता। सत्सङ्गदीक्षायां “अक्षरब्रह्मसाधर्म्यं संप्राप्य दासभावतः। पुरुषोत्तमभक्तिर्हि मुक्तिरात्यन्तिकी मता॥”209 इति वचनेन साक्षात्कारस्थितौ ब्रह्माक्षरेण साधर्म्यं परब्रह्मणश्च दासभावेनोपासनं निश्चायितम्। ब्रह्मसूत्रे हान्यधिकरणे210 “अध्यात्मयोगाधिगमेन देवं मत्वा,”211 “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥”212 इत्यादिश्रुतिस्मृतिवचनैः पुण्यपापलक्षणकर्मप्रहाणावपि स्वात्मब्रह्मरूपत्वपूर्वकपरमात्मोपासनं विद्यत एवेति प्रतिपादितम्।
द्वयोरपि ग्रन्थयोः द्विधा मुक्तिरुक्ता जीवन्मुक्तिर्विदेहमुक्तिश्चेति। सत्सङ्गदीक्षाशास्त्रमनुसृत्य स्वजीवने आज्ञोपासनयोर्दृढतां कुर्वाणो भक्तो “जीवन्नेव स्थितिं ब्राह्मीं शास्त्रोक्तामाप्नुयात् स च॥”213 इत्यनेन जीवत एव मुक्तिदशां प्राप्नुयादित्युक्त्वा जीवन्मुक्तिरत्र निरूपिता। ब्रह्मसूत्रे ऐहिकाधिकरणे214 “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते,”215 “एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य,”216 “पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः,”217 “इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥”218 इत्यादिश्रुतिस्मृतिवचनैर्जीवन्मुक्तिः प्रतिपादिता। उपरोक्तसन्दर्भेषु “अत्र,” “इह” इत्यादिशब्दद्वारा ज्ञानेन्द्रियमनोबुद्धीनामविकम्पनश्रवणेन चास्मिन्नेव लोकेऽस्मिन्नेव देहे स्थितिं प्राप्तानां वर्णनमिदमिति स्फुटं ज्ञायते। अनेन जीवन्मुक्तिः सिध्यति।
देहमोचनानन्तरं ब्रह्मरूपः परमत्मोपासकोऽक्षरधाम्नि भोग्यां विदेहमुक्तिमपि लभते। जीवन्मुक्तिनिरूपके उपरोक्तैहिकाधिकरणे “ऐहिकमपि” इत्यत्राऽपिशब्देन विदेहमुक्तेः सङ्ग्रहः। “अनावृत्ति शब्दादनावृत्तिशब्दाद्”219 इति सूत्रेऽपि परमात्मनः शाश्वतनिवासस्थानमक्षरधाम प्राप्य ब्रह्मरूपभक्तस्य प्रत्यावर्तनं नैव भवति, अनन्तकालपर्यन्तं च परमात्मनो दिव्यमनन्तमानन्दं भुङ्क्ते इत्युक्तम्। सत्सङ्गदीक्षायामयमेव सिद्धान्तः सङ्गृहीतः। एतच्छास्त्रवचनानुसारं सम्यगनुवर्तनेन विदेहमुक्तिरवाप्यते इत्युपदिष्टम् – “धर्मैकान्तिकसंसिद्धिम् आप्नुते दिव्यमक्षरम्। शाश्वतं भगवद्धाम मुक्तिमात्यन्तिकीं सुखम्॥”220 इति।
उपसंहारः
एतावत्पर्यन्तमनुबन्धचतुष्टयविवेचनात्, तत्त्वमीमांसाविषये अक्षरपुरुषोत्तमयोर्नित्यभेदेन स्वीकाराद्, अक्षरब्रह्मणो जीवेश्वरमायायां व्यापकत्वेन परमात्मधामरूपत्वेन गुरुरूपेण च निरूपणात्, परमात्मनोऽक्षरादपि परत्वेन वचनाद्, तत्कर्तृत्वसाकारत्वसर्वोपरित्वप्रत्यक्षत्वादिमाहात्म्यवर्णनसाम्यात्, तदानन्दादिगुणकथनात्, तन्मायामलरहितत्ववचनाद्, अक्षरमहं पुरुषोत्तमदासोऽस्मीति मन्त्रमनुसृत्य साधनोपदेशाद्, दिव्यदृष्टिश्रद्धादिसाधनसामान्याद्, मुक्तिवर्णनादिसाम्याच्च ब्रह्मसूत्रसत्सङ्गदीक्षेतिद्वयोरपि ग्रन्थयोरक्षरपुरुषोत्तमदर्शनप्राप्तिः प्राचीनसाम्प्रतकालीनग्रन्थप्रदर्शितरहस्यैक्यं चेति निश्चीयते। एवं सादृश्ये सति ग्रन्थद्वयोरपि मनुष्यजीवनायौचित्यमप्युपलभ्यते। त्यागिगृहिबालयुववृद्धस्त्रीपुरुषादिसकलमनुजानां कृते कल्याणद्वारोद्घाटनमुखेन सर्वेऽपि सुखिनो भाविताः। जनजीवनोन्नतिकरस्वस्ववर्णाश्रमधर्मदृढपालनोपदेशेन सह स्वपरप्राणप्रणाशसमय आपत्कालीनधर्मा अप्युद्बोधिताः। सर्वजीवानामात्यन्तिकमुक्तिकरब्रह्मविद्यानिरूपणद्वारा द्वावपि ग्रन्थौ सर्वथोचितावेवेत्यनेन साधर्म्ये सत्यौचित्योपलभ्यत्वाद्द्वयोः सम्यक् सामञ्जस्यं सिध्यतीति शम्।
सन्दर्भग्रन्थसूचिः
अष्टाविंशत्युपनिषत्सङ्ग्रहः. १, चौखम्बा विद्याभवन, २००४.
प्रो. रूपकिशोरः शास्त्री, Editor. शाङ्खायनशाखीया ऋग्वेदसंहिता. प्रथमसंस्करणम्, vol. प्रथमो भागः, महर्षि सान्दीपनि राष्ट्रिय वेद विद्या प्रतिष्ठानम्, २०१२.
मनुः. मनुस्मृति. Translated by डो. रामचन्द्र वर्मा शास्त्री, विद्याविहार.
महाकविकालिदासः. कुमारसम्भवम्. Translated by श्री पं. प्रद्युम्नपाण्डेय, पुनर्मुद्रित संस्करण, चौखम्बा विद्याभवन, २०१३.
साधुर्भद्रेशदासः महामहोपाध्यायः. ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.
---. छान्दोग्योपनिषत्स्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१२.
---. बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.
---. ब्रह्मसूत्रस्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.
---. श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.
પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ. સત્સંગદીક્ષા. Translated by સાધુ ભદ્રેશદાસ મહામહોપાધ્યાય, 1st ed., સ્વામિનારાયણ અક્ષરપીઠ, શાહીબાગ, ૨૦૨૦.
સાધુ ભદ્રેશદાસ મહામહોપાધ્યાય. અક્ષરપુરુષોત્તમ દર્શન પરિચય. 3rd ed., સ્વામિનારાયણ અક્ષરપીઠ, ફેબ્રુઆરી ૨૦૧૮.
सन्दर्भसूचिः
1 (ब्रह्मसूत्रम् १/१/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३)
2 (ब्रह्मसूत्रम् ४/४/२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४३१)
3 (ब्रह्मसूत्रम् १/१/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३)
4 (ब्रह्मसूत्रम् १/१/२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १२)
5 (ब्रह्मसूत्रम् १/१/३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १७)
6 (ब्रह्मसूत्रम् ३/२/३०) इत्यादि (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३०४)
7 (ब्रह्मसूत्रे द्वितीयेऽध्याये द्वितीयः पादः) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १८८-२१৪)
8 (ब्रह्मसूत्रम् ३/३/१५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३२३)
9 (ब्रह्मसूत्रम् ४/४/२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभাষ्यम् ४३১)
10 (मुण्डकोपनिषद् १/२/१३) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २५६)
11 (श्रीमद्भगवद्गीता ८/३, १५/१६) (महामहोपाध्यायः साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम्, १७३, ३१२)
12 (श्रीमद्भगवद्गीता १५/१८) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् ३१४)
13 (સાધુ ભદ્રેશદાસ ૬૮)
14 (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १०)
15 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૭)
16 (ब्रह्मसूत्रम् ३/४/२५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३६८)
17 (छान्दोग्योपनिषद् २/२३/१) (साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम् ९५)
18 (प्रश्नोपनिषद् १/१०) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १८१)
19 (मनुः २/९०)
20 (ब्रह्मसूत्रम् ३/४/४०-४३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३७६-७७)
21 (ब्रह्मसूत्रम् १/३/२६-३०) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १११-१५)
22 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૨-૧૪)
23 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૭)
24 (ब्रह्मसूत्रम् १/१/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३)
25 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૧)
26 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૭)
27 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૮, ૯)
28 (ब्रह्मसूत्रम् ३/४/५०) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३८२)
29 (ब्रह्मसूत्रम् ४/४/२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४३१)
30 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧)
31 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૭)
32 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૮૯-૯૦)
33 (कठोपनिषद् २/१५, १६) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् ९९-१०३)
34 (मुण्डकोपनिषद् २/२/५) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २७४)
35 (ब्रह्मसूत्रम् १/३/५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ९०)
36 (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ९०)
37 (मुण्डकोपनिषद् २/२/६) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २७५)
38 (मुण्डकोपनिषद् २/२/४) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २७३)
39 (बृहदारण्यकोपनिषद् ३/८/८) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् १९०-९१)
40 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૨, ૧૦૩)
41 (ब्रह्मसूत्रम् १/२/११) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ६६)
42 (कठोपनिषद् ३/१) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १२१)
43 (ब्रह्मसूत्रम् १/३/१४) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १०१)
44 (छान्दोग्योपनिषद् ८/१/१) (साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम् ३४२)
45 (ब्रह्मसूत्रम् १/२/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ५८)
46 (ईशावास्योपनिषद् १) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् ५)
47 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૬૮)
48 (श्वेताश्वतरोपनिषद् ४/८) (अष्टाविंशत्युपनिषत्सङ्ग्रहः २५९); (प्रो. रूपकिशोरः शास्त्री १/१६४/३९)
49 (प्रश्नोपनिषद् १/१५-१६) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १८५-८७)
50 (ब्रह्मसूत्रम् ३/३/२६-२९) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३३२-३३)
51 (ब्रह्मसूत्रम् ४/४/१-३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४१६-१७)
52 (ब्रह्मसूत्रम् ४/४/४) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४१९)
53 (ब्रह्मसूत्रम् ४/४/५-७) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४१९, ४२१)
54 (ब्रह्मसूत्रम् ४/४/८-९) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४२१-२२)
55 (ब्रह्मसूत्रम् ४/४/१०-१२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४२२-२३)
56 (ब्रह्मसूत्रम् ४/४/१३-१४) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४२४-२५)
57 (ब्रह्मसूत्रम् ४/४/१५, १६) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४२५-२६)
58 (ब्रह्मसूत्रम् ४/४/१७-२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४२८-३१)
59 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૯૦)
60 (ब्रह्मसूत्रम् १/१/२९-३२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ५२-५६)
61 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૯૮-૯૯)
62 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૭)
63 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૫૯)
64 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૦)
65 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૧)
66 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૩)
67 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૪)
68 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૫)
69 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૮, ૧૩૫)
70 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૧૧-૧૫, ૩૧૧-૧૩)
71 (ब्रह्मसूत्रम् १/१/२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १२)
72 (ब्रह्मसूत्रम् १/१/५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २९)
73 (छान्दोग्योपनिषद् ६/२/१) (साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम् २५२)
74 (छान्दोग्योपनिषद् ६/२/३) (साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम् २५६)
75 (ब्रह्मसूत्रम् ३/२/३६-३९) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३१०-११)
76 (बृहदारण्यकोपनिषद् ४/३/१०) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् २४४)
77 (ब्रह्मसूत्रम् ३/२/१-६) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २८४-८७)
78 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૬)
79 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૪૭)
80 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૪૪-4૫)
81 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૫૨)
82 (छान्दोग्योपनिषद् १/६/६-७) (साधुभद्रेशदासः, छान्दोग्योपनिषत्स्वामिनारायणभाष्यम् ३८)
83 (ब्रह्मसूत्रम् १/१/२१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४४)
84 (ब्रह्मसूत्रम् १/१/५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २९)
85 (ब्रह्मसूत्रम् २/१/३२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १८१)
86 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૬)
87 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૬)
88 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૪૭)
89 (ब्रह्मसूत्रम् ३/२/३०-३५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३०४-०९)
90 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૬, ૧૪૭)
91 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૫)
92 (ब्रह्मसूत्रम् १/२/३०-३२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ८३-८४)
93 (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ८३)
94 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૬)
95 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૯૬)
96 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૯૭)
97 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૧૮)
98 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૪૮)
99 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૭)
100 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૪૭)
101 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૬૦)
102 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૮૦)
103 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૯૦-૯૧)
104 (कठोपनिषद् ४/१२) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १४५)
105 (कठोपनिषद् ६/१७) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १६८)
106 (ब्रह्मसूत्रम् १/३/२५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १११)
107 (ब्रह्मसूत्रम् १/२/७) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ६१)
108 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૫૯)
109 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૬૫)
110 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૭૩)
111 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૬૮)
112 (ब्रह्मसूत्रम् १/२/१८-२१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ७२-७५)
113 (बृहदारण्यकोपनिषद् ३/७/३) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् १८१)
114 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૪૭)
115 (कठोपनिषद् ५/११) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १५४)
116 (ब्रह्मसूत्रम् १/२/८) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ६३)
117 (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १६३)
118 (ब्रह्मसूत्रम् २/१/९) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १६३)
119 (ब्रह्मसूत्रम् ३/२/११) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २९१)
120 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૪)
121 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૩૧)
122 (ब्रह्मसूत्रम् १/१/१३-२०) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३७-४३)
123 (तैत्तिरीयोपनिषद् २/५/२) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् ३७३)
124 (तैत्तिरीयोपनिषद् २/७/२) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् ३८०-८१)
125 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧)
126 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૩૧૫)
127 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૭)
128 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૯)
129 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૪૬-૪૮)
130 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૪૭-૪૮)
131 (ब्रह्मसूत्रम् ३/३/५९-६४) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३५४-५६)
132 (ब्रह्मसूत्रम् ४/१/४-६) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३८७)
133 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૯૬, ૯૭)
134 (मुण्डकोपनिषद् ३/२/३-४) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २९३-९४)
135 (ब्रह्मसूत्रम् ३/३/२३-2४) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३२८-२९)
136 (मुण्डकोपनिषद् ३/१/३) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २८४)
137 (मुण्डकोपनिषद् ३/२/१) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २९१)
138 (मुण्डकोपनिषद् २/२/३-४) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २७१-७३)
139 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૫૭)
140 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૧૬)
141 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૮૫)
142 (ब्रह्मसूत्रम् ४/१/३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३८६)
143 (बृहदारण्यकोपनिषद् १/४/१०) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् ४८)
144 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૫૮)
145 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૫૦)
146 (मुण्डकोपनिषद् १/२/१२) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २५३)
147 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૨-૨૩)
148 (ब्रह्मसूत्रम् ३/३/१५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३२३)
149 (ब्रह्मसूत्रम् ३/३/१८) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३२५)
150 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦૮)
151 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૩૪-૩૫)
152 (ब्रह्मसूत्रम् १/३/२१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १०८)
153 (ब्रह्मसूत्रम् ३/३/३२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३३५)
154 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૫૯)
155 (ब्रह्मसूत्रम् ३/२/११-२५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २९१-३०१)
156 (ब्रह्मसूत्रम् ३/२/२३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३००)
157 (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३००)
158 (श्वेताश्वतरोपनिषद् ६/२३) (अष्टाविंशत्युपनिषत्सङ्ग्रहः २६४)
159 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૪૪, ૨૯૭)
160 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૩૭)
161 (ब्रह्मसूत्रम् ४/१/५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३८७)
162 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૪૦)
163 (ब्रह्मसूत्रम् १/१/३) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १७)
164 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૦)
165 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૨૯-૩૦)
166 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૩૮)
167 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૪૨)
168 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૯૪)
169 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૧૫)
170 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૮૮-૮૯)
171 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૩૨)
172 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૮૦)
173 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૩૦)
174 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૫૩)
175 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૩૦૩)
176 (ब्रह्मसूत्रम् ४/१/१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३८४)
177 (बृहदारण्यकोपनिषद् २/४/५) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् १२४)
178 (मुण्डकोपनिषद् ३/१/८) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २८९)
179 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૩૩)
180 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૩૭-૩૮)
181 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૩૬)
182 (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् २२३)
183 (ब्रह्मसूत्रम् ३/४/२७) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३६९)
184 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૪૧)
185 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૫૫-૫૭)
186 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૫૪)
187 (ब्रह्मसूत्रम् ३/४/३२-३५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३७२)
188 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૧૭)
189 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૫૬)
190 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૭૨-૭૪)
191 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૭૬)
192 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૯૬)
193 (मनुः ८/१५)
194 (महाकविकालिदासः ५/३३)
195 (ब्रह्मसूत्रम् ३/४/२८-३१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३७०-७१)
196 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૬૯-૭૧)
197 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૮૧-૮૨)
198 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૧૮૪)
199 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૧૬)
200 (ब्रह्मसूत्रम् २/२/४२-४५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २१७-१८)
201 (ब्रह्मसूत्रम् २/२/३७-४१) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २१४-१६)
202 (ब्रह्मसूत्रम् २/२/३३-३६) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २११-१३)
203 (ब्रह्मसूत्रम् २/२/१८-३२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् २०१-१०)
204 (ब्रह्मसूत्रम् २/२/११-१७) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १९५-९९)
205 (ब्रह्मसूत्रम् २/२/१-१०) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् १८९-९४)
206 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૧૮-૧૯)
207 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૨૧)
208 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૨૩)
209 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૯૧)
210 (ब्रह्मसूत्रम् ३/३/२५) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३३०)
211 (कठोपनिषद् २/१२) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् ९६)
212 (श्रीमद्भगवद्गीता १८/५४) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् ३५८)
213 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૮૯)
214 (ब्रह्मसूत्रम् ३/४/५०) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ३८२)
215 (बृहदारण्यकोपनिषद् ४/४/७) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् २७२); (कठोपनिषद् ६/१४) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १६६)
216 (मुण्डकोपनिषद् २/१/१०) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २६६)
217 (मुण्डकोपनिषद् ३/२/२) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २९२)
218 (श्रीमद्भगवद्गीता ५/१९) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् १२५)
219 (ब्रह्मसूत्रम् ४/४/२२) (साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम् ४३१)
220 (પ્રગટ બ્રહ્મસ્વરૂપ શ્રી મહંતસ્વામી મહારાજ ૨૯૦)