Article

Vol. 2 | Issue 2 | 2023

Navigation +

परब्रह्मस्वामिनारायणदीक्षितमुनीनां पद्यसाहित्ये­ऽक्षरपुरुषोत्तमदर्शनम्

Link copied to clipboard
Citation copied to clipboard

पूर्वभूमिका

साहित्यं खलु गद्यपद्यचम्प्वात्मकं जगति प्रसिद्धम्। तत्र चरणवाचकपदशब्दस्य यति परे क्लीबे निष्पन्नोयं ‘पद्यम्’ शब्दः पदं चरणमर्हतीति विग्रहेण कविकृतौ श्लोके च प्रयुज्यते।10 तच्च प्रायो गेयरचनासु व्यवह्रियते। दृश्-धातोः करणे ल्युटि व्युत्पन्नो दर्शनशब्दः साक्षात्कारसाधने तत्त्वज्ञानार्थके प्रयुज्यते। पद्यसाहित्येन सह दार्शनिकसिद्धान्तानां संयोजनं त्वस्माकं प्राचीनपरम्परा। वैदिकसाहित्यादारभ्यैषा रीतिः। वेदमन्त्राः खलु छन्दोबद्धाः। तत्र गायत्र्यनुष्टुप्त्रीष्टुब्जगत्यादीनि पद्यात्मकानि छन्दांस्युपलभ्यन्ते। छन्दोगृहीताऽक्षरसमूहेन श्रुतिषु सृष्टिप्रक्रियापरमात्मस्वरूपप्रकाशनमुक्तिमीमांसादिदार्शनिकनिर्णयोद्घाटनं वरीवर्ति। यथाऽनुष्टुप्छन्दोबद्धाः पुरुषसूक्तमन्त्रा अत्र प्रमाणं भजमाना द्रष्टव्याः -

“स॒हस्र॑शीर्षा॒ पु॑रुषः सहस्रा॒क्षः स॒हस्र॑पात्।

स भूमिं॑ वि॒श्वतो॑ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम्॥

ए॒तावा॑नस्य महि॒माऽतो॒ ज्यायाँ॑श्च॒ पूरु॑षः।

पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दिवि॥

तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः।

स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः॥”11

अत्र पुरुषपदेन परमात्मानं निर्दिश्य तत्स्वरूपमहिमादिवर्णनेन ‘तस्माद्विराळजायत’ इत्यादिशब्दैश्च सृष्टिप्रक्रियादर्शनेन दार्शनिकनिर्णयः स्फुटमवलोक्यते। इदमेव सूक्तं यजुर्वेदे12 सामवेदे13 अथर्ववेदे14 च स्थित्वा दर्शनसिद्धान्तानुद्घोषयति। कठोपनिषद्यप्यस्मिन्नेवा­ऽष्टाक्षरानुष्टुप्छन्दसि गुम्फितेन मन्त्रेण तत्त्वज्ञानमेवोद्घाट्यते यथा -

“एतद्ध्येवाऽक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्।

एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥”15

इत्यनेन परमात्मनो नित्यनिवासस्थानभूताऽक्षरब्रह्मतत्त्वनिरूपणम्। तस्य च विज्ञानेन ब्रह्म­लोकाप्तिरूपचरममुक्तिनिरूपणम्। ततश्चाऽग्रे -

“महतः परमव्यक्तमव्यक्तात् पुरुषः परः।

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः॥”16

इत्यनेन पुरुषशब्देन तदक्षरादपि परभूतं परब्रह्मस्वरूपं न्यरूपि। एवं गीतिप्राधान्येन तत्त्व­सिद्धान्त­प्रख्यापनपरम्पराया मूलं सनातनशास्त्राणि वेदा इत्यवगम्यते। इयमेव शैली श्रुत्यनुसारिणीषु स्मृतिष्वपि दरीदृश्यते। यथा श्रीमद्भगवद्गीता प्रायेणाऽनुष्टुप्छन्दोबद्धं स्मृतिशास्त्रेष्वन्यतमम्। तत्राक्षरब्रह्मयोगाऽख्येऽष्टमेऽध्याये श्रुतिसिद्धान्तं परिपोषयतोक्तम् -

“अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥”17

इति। एवमत्राव्यक्तशब्दशब्दितस्याऽक्षरस्वरूपत्वमुक्त्वा तदेवाऽपुनरावृत्तिकरं परमात्मधामास्तीत्यकथि। ततश्च पुरुषोत्तमयोगनाम्ना प्रसिद्धे पञ्चदशेऽध्याये -

“यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥”18

इत्यनेन तदक्षरादपि परभूतत्वेन परमात्मनो निदर्शनं सुष्ठु रीत्या सम्पादितम्। एवं गीतायामपि गानप्रणाल्या सह तत्त्वसिद्धान्तः सम्बद्धः। शार्दूलविक्रीडितादिछन्दोबद्धाः श्रीमद्भागवत­पुराणादिस्मृतिग्रन्था अप्यत्र प्रमाणत्वेन संयोक्तव्याः।19 एषैव रीतिर्जगति सुभाषित-­नाटक-महाकव्य-चम्पूकाव्यादिभिरातता कालक्रमेण।20 खलु श्रुतिसिद्धान्ताः सनातना अपि ऋगादिवेदमन्त्राद् दुरवबोध्याः स्मृतिकारैः सरलीकृत्य प्रदीयमानाः समाजोपकारिणो बभूवुः। तत्रापि बहुजनसौलभ्याय सुभाषितनाटकादिसाहित्यद्वारा लोके विस्तृताः। गच्छता कालेन गिर्वाणगिरावबद्धास्ते पुनर्ग्रामीणजनानामाबालवृद्धस्त्रीपुंसां कृते क्षीरपानवत् सुग्राह्या जायेरन् तदर्थे तुकाराम-तुलसीदास-मीराबाई-सुरदास-नरसिंहमहेतादीनां भक्तकवीनां प्रशस्तप्रयासेन भारतदेशेषु तत्तत्प्रान्तेषु प्रादेशिकभाषावबद्धं पद्यसाहित्यमुद्बोभूयाञ्चक्रे। यथा नरसिंहमहेताभक्तस्य कीर्तने “जे गमे जगद्गुरुदेव जगदीशने ते तणो खरखरो फोक करवो... हुं करुं हुं करुं ए ज अज्ञानता शकटनो भार जेम श्वान ताणे”21 इत्यत्र परमात्मकर्तृत्वविचारः सुरदासविरचितपद्ये “करमगति टारी नाहीं टरे”22 इत्यत्र कर्ममीमांसेत्येवं दार्शनिकी विचारधारा सकलजनसुलभा सम्पन्ना।

एतस्मिन्नेव क्रमे स्वामिनारायणसम्प्रदाये पुरुषोत्तमप्रकाशः वृत्तिविवाहः हरिबळगीता वचनविधिः सारसिद्धिरित्यादयो नैके पद्यात्मकाः ग्रन्थाः परब्रह्मस्वामिनारायण­दीक्षित­मुनिभिर्विरचिताः। तत्र श्रीहरिदिग्विजयः, श्रीहरिलीलाकल्पतरुरित्यादयो ग्रन्थाः गिर्वाणगिराबद्धा भक्तचिन्तामण्यादयो गुर्जरभाषायां निबद्धाः श्रीहरिचरित्रामृतसागरादयश्च प्रादेशिकहिन्दीव्रजादिभाषाषु गुम्फिताः। पुनश्च तत् श्रीहरिचरित्रवर्णनं23 तदुपदेशसङ्ग्रहः24 श्रीहरिमहिमप्रकाशनं25 प्रार्थना26 सतां लक्षणानि27 साधुमहिमकथनम्28 इत्यादिविषयेऽपि विभक्तुं शक्यते।

खलु स्वामिनारायणीयानां सतां साहित्यरचनायामवलोक्यते वैशिष्ट्यम्। तदेतत् साहित्यवैपुल्ये विरचनप्रयोजने वैविध्ये प्रत्यक्षपरमात्मानुभवे चेत्यादिविषये दृश्यतेऽस्य वैशिष्ट्यम्। तत्रादौ स्वामिनारायणीयसाधूनां साहित्यवैपुल्यं पश्यामः। तेषु मुक्तानन्दस्वामी संस्कृतप्राकृतभाषास्वाहत्य धर्माख्यानम्, पञ्चरत्नम्, सतीगीता इत्यादीन् त्रिंशदं ग्रन्थान् नैकानि च पद्यकाव्यानि विरचयामास।29 निष्कुलानन्दस्वामिना भक्तचिन्तामणिः, पुरुषोत्तमप्रकाश इत्यादयो त्रयोविंशतिं ग्रन्थान् पञ्चशतोत्तरद्विसहस्रतोऽप्यधिकानि कीर्तनानि च प्रणिनाय।30 प्रेमानन्दस्वामी ध्यानमञ्जरी, नारायणचरित्रम्, तुलसीविवाह इत्यादीन् ग्रन्थान् चतुर्दशसहस्रं कीर्तनानि च रचयाञ्चक्रे।31 ब्रह्मानन्दस्वामी पञ्चदशग्रन्थान् अष्टसहस्रप्रमितानि पद्यानि प्राणैषीत्।32 ततश्चापि नित्यानन्दस्वामिना श्रीहरिदिग्विजयाख्यो बृहद्ग्रन्थो व्यरचि। शुकानन्दस्वामिना संस्कृतप्राकृतभाषास्वाहत्य सप्तदशग्रन्थाः प्राणायिषत। आधारानन्दस्वामिना लक्षपङ्किबद्धः श्रीहरिचरित्रामृतसागराख्यो महाग्रन्थो हिन्दीभाषायां विरचितः। एवं सर्वेक्षणानुसारं सर्वेषां स्वामिनारायणदीक्षितमुनीनां पद्यानि त्रिंशत्सहस्रतोऽप्यधकसङ्ख्याकानि जायेरन्निति। एवमत्र साहित्यवैपुल्यदृष्ट्याऽवलोक्यते वैशिष्ट्यम्।

साहित्यविरचनप्रयोजनमपि तस्य महत्त्वं सूचयति। धनप्राप्तिर्वासनापरिपूर्तिः सम्मानोपलब्धिरित्यादयो नैके हेतवो दृश्यन्ते समाजे साहित्यविरचने। यथा महाकविः कालिदासेन कथितं “मन्दः कवियशःप्रार्थी”33 इति। एवमत्र कविकीर्तिरस्ति प्रयोजनम्। एतेषु सर्वेषु प्रयोजनेषु विशिष्टमासीदेतेषां मुनीनां साहित्यरचने प्रयोजनम् - तच्च प्रभुप्रसन्नता। कथमेवं ज्ञायत इति चेद् वर्ण्यते। प्रसिद्धसाहित्यकारः श्रीचन्द्रकान्तश्रेष्ठ्यवोचत् “ते साधुह्मचारिणः स्वयमेव सत्याः सन्तः सन्ति (आसन्)। यथा तेषां जीवनं तथैव वचनम्।... ते कवियशःप्रार्थितोऽप्यधिका विशेषत्वेन प्रभुपदप्रार्थिन आसन्”34 ii एवं मनस्येकं वचस्येकं कर्मण्येकं महात्मनामित्युक्तिरेतेषां कृते सार्थकी बभूव। किञ्च परब्रह्मस्वामिनारायणेन स्वसद्गुणः प्रदर्शितः “अथेत्थं हि मे प्रकृतिः - न हि स्वल्पनिमित्तेन प्रसन्नो भवेयं, न च स्वल्पनिमित्तेनाऽप्रसन्नोऽपि भवेयम्। तथा हि यदा यस्मिन् प्रसादजनकम् अप्रसादजनकं वा स्वभावं बहुदिवसपर्यन्तं निरीक्षे तदा भवति प्रसादोऽप्रसादो वा, किन्तु न हि कस्यचित् कथनश्रवणाभ्यां जायते कस्मिँश्चित् प्रसादोऽप्रसादो वा।”35 iii इति। एवं सुदीर्घकालपर्यन्तं प्रसन्नतासाधनानि वीक्ष्यैव प्रसन्नतां प्रदर्शयमानः स्वामिनारायणप्रभुः प्रेमानन्दस्वामिप्रगीतकीर्तनं विश्रुत्य भूयः प्रसन्नतां दर्शयामास इति “साधुः प्रेमानन्दस्वामी च भगवद्ध्यानविषयाणि ‘वंदुं सहजानंद रसरूप अनुपम सारने रे लोल’ इत्यादिगरबीपदानि जगौ। अथ गाने सम्पन्ने श्रीजीमहाराजः प्रोवाच, “बहु शोभनानि कीर्तनानि गीतानि। इमानि कीर्तनान्याकर्ण्य तु मम मनस्येवं विचार उदपद्यत यद्, ‘एवंरीत्या तस्य वर्तते भगवन्मूर्तिचिन्तनम्, अतस्तं साधुं समुत्थाय साष्टाङ्गं दण्डवत् प्रणमेयम्’ इति।’”36 इत्यनेन सन्दर्भेण विज्ञायते। एवमेतेषां सतां पद्यविरचनप्रयोजनं प्रभुप्रसन्नतैव। अतस्तद्भवति वैशिष्ट्यम्।

एतानि कीर्तनानि वैविध्यपूर्णान्यवर्तन्त। पूर्वोक्तानुसारं सतां माहात्म्यं प्रार्थनेत्यादिविषयवैविध्यं संस्कृत-हिन्दी-गुजरातीत्यादिभाषावैविध्यं चात्रोपलभ्यत एव किन्तु ततोऽपि एक एव साधुर्विभिन्नरसानुद्भाव्य कीर्तनानि रचयति। यथा ब्रह्मानन्दस्वामकृतं पद्यद्वयं पठतु -

“पेट कटारी रे मारीने सन्मुख चाल्या,

पाछा न वळे रे कोईना ते न रहे झाल्या;

आमा सामा रे ऊडे भाला अणियाळा,

ते अवसरमां रे रहे राजी ते मतवाला.”37

“वहालुं लागे मुने मोहन मुख तारुं, छो जो पूरण चंद्र थकी सारुं;

ब्रह्मानंद कहे वश कीधी मुजने, छे जो कोडीलुं कामणगारुं.”38

एवं प्रथमे कीर्तने वीररस उद्घाटितोऽपरे च पद्ये प्रभुप्रीतिप्रदर्शकः शृङ्गाररसोऽप्यास्वादितः। निष्कुलानन्दस्वामिनः कीर्तनद्वयमपि पठतु -

“हुं बलिहारी ए वैराग्यने, उपन्यो जेने अंगजी;

चौद लोक ने जे चतुरधा, न गमे सुखनो ते संगजी.

सुख न इच्छे ते संसारना, समजे सपना समानजी;

वात गमे एक वैराग्यनी, तनसुख त्यागवा तानजी.”39

“शूरो जेम रणमां लडवा, धरे हैयामां अति हुलास;

पेट कटारी मारी पग परठे, तेने केनी रही त्रास...

शूरा संतनी रीत एक सरखी, करवो वेरीनो विनाश;

काम, क्रोध, लोभ, मोह जीती, भावे भजवा अविनाश.”40

“शुं करुं साहेली रे घेली थई फरुं रे लोल, हैयुं तो रह्युं नहीं मारे हाथ रे.

रसबस थईने रे बाई एना रूपमां रे लोल, नीरखी निष्कुळानंदनो नाथ रे.”41

एवमत्र प्रथमकीर्तनपङ्कौ वैराग्यपूर्णशब्दैः शान्तरसः द्वितीयायां च पङ्कतौ वीररसः तृतीयायां च शृङ्गाररस इत्येवं विभिन्नरसोद्घाटकानि पद्यान्यत्र प्राप्यन्ते।

परञ्च प्रत्यक्षपरमात्मानुभूतिविषयेऽप्येतेषां कीर्तनानामस्ति वैशिष्ट्यमिति शक्यते वक्तुम्। धरायामस्यां नैके कवयः प्रादुर्भूताः। तेषु केचन भक्तकवय आसन्। तत्रापि प्रत्यक्षपरमात्मानं दृग्गोचरं प्राप्य भक्तिं कुर्वाणाः कवयः ख्वतीवाल्पसङ्ख्याकाः सन्ति। विषयेऽस्मिन् हरीन्द्रदवेनामकः साहित्यकारः स्वानुभूतिं प्रास्तौत् - “व्यासवाल्मिक्योर्भाग्ये ताभ्यां परमेश्वरत्वेन स्वीकृताभ्यां कृष्णरामेतिभगवत्स्वरूपाणां कवितारचनमासीत्। तत्पश्चात् क्वचिदेव केनचित् कविना प्रत्यक्षभगवतः कवितारचनाया अवसर उपलब्धः। नन्दकवीनां काव्येषु तद्वैशिष्ट्यं यत् तेषां कृते सहजानन्दस्वामी प्रकटपूर्णपुरुषोत्तम आसन्। तस्य च परमात्मानः प्रसन्नताया एव ते काव्यानि विरचयन्त आसन्। एते कवयो न कवियशोवाञ्छया काव्यरचनां चक्रुः। तेषामेकमात्रं ध्येयं प्रत्यक्षभगवत्प्रसन्नतैवासीत्”42 iv एवं स्वामिनारायणीयसाधूनां काव्येषूक्तप्रकारकं वैशिष्ट्यमवलोक्यते।

अथाऽक्षरपुरुषोत्तमदर्शनं खलु वचनामृतशास्त्रे परब्रह्मस्वामिनारायणेन प्रबोधितम्।43 स्वोपास्यत्वेन सेव्यमानस्य वदनान्निःसृतमिदं दर्शनं तैः सद्भिः साक्षाच्छ्रुतत्वात् स्वविरचितकाव्येषु स्फुटमवलोक्येतेति विषये नास्ति शङ्का। सद्भिरेतैर्विरचितेषु काव्येषु क्वचिदवलोक्यमानाः “रे पुरुषोत्तम बोल्या प्रीते,”44 “बोल्या श्रीहरि रे”45 इत्यादिशब्दाः प्रमाणं भजन्ते यत् प्रत्यक्षपरमात्मना प्रयुक्तानि वाक्यान्येव तैर्गुम्फितानीति। तेनैव काव्यरचयितृषु मुक्तानन्दस्वामी निष्कुलानन्दस्वामी प्रेमानन्दस्वामी ब्रह्मानन्दस्वामी देवानन्दस्वामी भूमानन्दस्वामी सुखानन्दस्वामीत्येतैः प्रणीतमीदानीं चोपलभ्यं पद्यात्मकं साहित्यं सङ्गृह्य तदवलोक्य वचनामृतशास्त्रेण सह दर्शनात्मके विषये कथमनुसन्दधातीति विमृश्यते। तत्राऽधो लिखितेषु विषयेष्विदानीं पद्यसाहित्यस्य वचनामृतेन सह सामञ्जस्यं विधीयते।

१. पञ्चतत्त्वप्रबोधनम्

२. अक्षरं पुरुषोत्तमश्चेति तत्त्वयोर्नित्यं भेदः पुरुषोत्तमस्य चाऽक्षरात् परत्वम्

३. अक्षररूपत्वं पुरुषोत्तमोपासनं च

४. परब्रह्म स्वामिनारायण उपास्यः

५. अक्षरब्रह्मस्वरूपम् - स्वरूपचतुष्टयम्

६. प्रकटत्वरहस्यम्

७. गुरुमहिमा

८. अक्षरपुरुषोत्तमयोरातिवाहिकत्वम्

पञ्चतत्त्वप्रबोधनम्

परब्रह्मस्वामिनारायणेन वचनामृतशास्त्रे सनातनतत्त्वपञ्चकस्य सिद्धान्तो दर्शितः यथा - “पुरुषोत्तमो भगवान्, अक्षरब्रह्म, माया, ईश्वरः, जीवश्चेति पञ्च भेदा अनादयः।”46 “वेद­पुराणेतिहास­स्मृतीतिसर्वशास्त्रेभ्यो मयैवं सिद्धान्तितं यद् जीवः, माया, ईश्वरः, ब्रह्म, परमेश्वरश्चेति सर्वेऽनादयः।”47 तदेतदेव सङ्गृह्योक्तं सत्सङ्गदीक्षायाम् - “जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा। परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥ नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः। स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥”48 इमं वचनामृतप्रबोधितसिद्धान्तमेव काव्यमाध्यमेन निष्कुळानन्दस्वामी भक्तचिन्तामणिग्रन्थे प्रसङ्गोपात्तं वक्ति। यदा परब्रह्मस्वामिनारायणो नीलकण्ठवर्णिरूपेण सकलभारतवर्षेषु विचरणं विधायान्ते गुजरातराज्ये लोजग्रामे जगाम तदा रामानन्दस्वामिन आश्रमे स्थितेन वरिष्ठसाधुना मुक्तानन्दस्वामिना सह सञ्जाते प्रश्नोत्तरे दर्शनसिद्धान्तोऽयं विवर्णितः। यथा -

“कहे नीलकंठ सुणो संत, तमे जाणो छो सर्वे सिद्धांत;

माटे करुं छुं प्रश्न महाराज, पूछ्युं प्रश्न परीक्षाने काज.

जीवेश्वर माया ब्रह्म जेह, परब्रह्म रूप कहो तेह”49

अत्रादौ जीवेश्वरमायाब्रह्मपरब्रह्मेतितत्त्वपञ्चकस्वरूपनिरूपणाय नीलकण्ठब्रह्मचारिकृतप्रश्ने एव पञ्चानां तत्त्वानां पार्थक्येनोल्लेखोऽकारि ततश्च मुक्तानन्दस्वामिन उत्तरेणापि तत्त्ववर्णनव्याजेनेदमेव तत्त्वं प्रकटीकृतं निष्कुलानन्दमुनिना।

अथ ब्रह्मानन्दस्वामी स्वकीर्तनपङ्क्ता एकादशीमहिमानं तद्रीतिं च वर्णयन् लिलेख -

“माया जीव ईश्वरना जाणे मर्म ने रे, रटे ब्रह्म थईने परब्रह्मने रे”50

अत्र पञ्चान्यपि तत्त्वानि पृथगुल्लिख्य जीवेश्वरमायास्वरूपं विज्ञाय ब्रह्म सम्भूय परब्रह्म रटेत् स उच्यते हरिभक्त इति रहस्यमुदघाटि। पुनश्च सतां लक्षणानां वर्णनेऽप्ययमेव सिद्धान्तो दृढायते यथा -

“ब्रह्म अखंड स्वरूप आपको, समजत त्रिगुणातीत...

माया जीव ईश ब्रह्महुकी, जानत सबही रीत...

ब्रह्मानंद कहत हरिसो प्रिय, जोगी इन्द्रियजीत”51

एवमत्रापि जीवेश्वरमायाब्रह्मेतितत्त्वचतुष्टयमुक्त्वा हरीतिशब्देन परमात्माऽपि दर्शितः।

पुनर्मुक्तानन्दस्वामी स्वकीर्तनपङ्कौ क्वचित् परमात्मभिन्नतत्त्वयोर्जीवेश्वरयोर्निर्देशं विधाय क्वचिद् ब्रह्मपरब्रह्मणोरपि भेदं वक्ति यथा -

“चैतन्य समरसमां भेद घणा, परमेश्वर ईश्वर जीवतणा”52

एवं जीवेश्वरपरमात्मेति त्रीणि चैतन्यतत्त्वानि गदित्वा पद्यान्तरेषु -

“श्री पुरुषोत्तम क्षर अक्षर पर”53

“क्षर अक्षर पर श्री पुरुषोत्तम, सोई प्रगट बहुनामी”54

“क्षर अक्षर अरु अक्षरपर की, सबही समज उर लावे”55

“ब्रह्म थई परब्रह्मने जुए ते जाणे रे”56

इत्येवं ब्रह्मपरब्रह्मनिरूपणमपि विधीयते। अक्षरपुरुषोत्तमदर्शने विराजमानानां जीवेश्वरब्रह्मपरब्रह्मेति चतुर्णां चेतनतत्त्वानां पृथङ्निरूपणद्वारा मायाऽख्यजडतत्त्वेन च सह तेषां संयोजनेन तत्त्वपञ्चकं साध्यते।

एवं परब्रह्मस्वामिनारायणदर्शितसिद्धान्तदिशा तत्त्वसङ्ख्याविषये तत्कालीनानां सतामप्यवलोक्यत ऐकमत्यम्। तच्च मतं स्वोपास्येष्टदेवनिर्दिष्टमेव तत्त्वपञ्चकमिति।

अक्षरं पुरुषोत्तमश्चेति तत्त्वयोर्नित्यं भेदः पुरुषोत्तमस्य चाऽक्षरात् परत्वम्

यद्यपि पञ्चतत्त्वभेदे सिद्धे ब्रह्मपरब्रह्मस्वरूपभेदस्तु कैमुत्यसिद्ध एव, तथापि परब्रह्मस्वामिनारायणेन वचनामृतशास्त्रेऽक्षरपुरुषोत्तमयोर्भेदो भूयो निरूपितः। इदं त्वस्य दर्शनस्य वैशिष्ट्यं मौलिकत्वं च। श्रुतिशास्त्रे खलु ब्रह्माक्षरं तत्त्वं क्वचिद् ब्रह्मेतिशब्देन क्वचिदक्षरेतिशब्देन क्वचिद्वा शब्दद्वयं संयोज्याऽक्षरब्रह्मेति शब्देन निरूपितम्।57 वचनामृतशास्त्रेऽपि तत्तत्त्वं निरूपयितुं श्रुतिशास्त्ररीतिमेवानुसृत्य एते शब्दा दर्शिताः। तस्माच्च परभूतं परमात्मतत्त्वमपि प्रदर्श्यते सर्वत्रेत्यग्रे ससन्दर्भं साधयिष्यामः। परमात्मनः कृते क्वचित् परब्रह्म पुरुषोत्तमः, भगवान्, परमेश्वर आदिशब्दा उल्लिखिताः। तदेतत्सर्वं परमहंसप्रणीतकीर्तनेष्वप्युपलभ्यते। तत्रादौ वचनामृतप्रमाणानि प्रस्तूयन्ते -

“साम्प्रतिकाः सर्वे हरिभक्ता एवमवगच्छन्ति यद्, ‘अक्षरातीतः पुरुषोत्तमो भगवान् ह्यस्माभिः प्रत्यक्षं प्राप्तः, वयं च कृतार्थाः’ इत्येवमवगम्य प्रत्यक्षभगवदाज्ञायां वर्तमानास्तद्भगवतो भक्तिमनुतिष्ठन्तीति।”58 “अक्षराच्च परो वर्ततेऽक्षरातीतः पुरुषोत्तमो भगवान्; स खलु सर्वेषामुत्पत्तिस्थितिप्रलयानां कर्ता, सर्वकारणं च।”59 “जगदुत्पत्तिकाले च भगवान् वर्ततेऽक्षररूपेण पुरुषप्रकृतिरूपेण विराट्पुरुषरूपेण...”60 “सृष्टिसमयेऽक्षरातीतः पुरुषोत्तमो भगवान् अक्षरसम्मुखम् ईक्षते, तदा तदक्षरात् पुरुषः प्रकटीभवति। तदनु स पुरुषोत्तमोऽक्षरं प्रविश्य पुरुषं प्रविशति, पुरुषरूपेण च प्रकृतिं प्रेरयति।”61 “स चाऽऽत्मनामक्षरस्य चेति सर्वेषां प्रेरकः, स्वतन्त्रः, नियन्ता, सकलैश्वर्यसम्पन्नश्च; अपि च परतः पराद् अक्षरादपि परः। तादृशोऽयं पुरुषोत्तमो भगवान्,”62 “अपरञ्च क्षराऽक्षरेभ्यः परभूतः पुरुषोत्तमो भगवान् यदा जीवकल्याणार्थं ब्रह्माण्डे मनुष्यतुल्यां मूर्तिं धृत्वा विचरति”63 एवमत्र ‘अक्षरातीतः पुरुषोत्तमो भगवान्,’ ‘अक्षरादपि परः... पुरुषोत्तमो भगवान्’ इत्यादिवचनैरक्षरपुरुषोत्तमयोर्भेदः पुरुषोत्तम­परब्रह्मणश्चाऽक्षरादपि परभूतत्वं वचनामृतरहस्यमिति निर्णीयते।

अक्षरपुरुषोत्तमदर्शनस्यैतं सिद्धान्तं विश्रुत्य कविवरः प्रेमानन्दस्वामी स्वपदेषु तमवतारयन् वक्ति -

“जयश्री नारायण सर्वकारण सदा, जयश्री अक्षरपति अंतरजामी;

जयश्री धर्मात्मज प्रगट पुरुषोत्तम, जयश्री सहजानन्द सुखद स्वामी.”64

“जयसि सहजानन्द अक्षरवासी”65

अत्र परमात्ममहिमा गीयते। पुरुषोत्तमलक्षणेष्वक्षरपतित्वमन्तर्यामित्वं चेति लक्षणद्वयमुक्त्वा स पुरुषोत्तमः साक्षात् धर्मात्मजः सहजानन्दः श्रीहरिरेवेत्यपि स्पष्टीकृतम्। अन्यच्च स्वामिनारायणसम्प्रदाये निष्ठावन्तः सत्सङ्गिजनाः प्रेमानन्दस्वामिविरचितानि श्रीहरेश्चेष्टापदानि प्रतिदिनं गायन्ति। तत्र ध्यानचिन्तामणिविभागे परब्रह्मस्वामिनारायणस्य महिमोच्यते प्रेमसख्या प्रेमानन्देन -

“वंदुं सहजानंद रसरूप, अनुपम सारने रे लोल...

जे हरि अक्षरब्रह्म आधार, पार कोई नव लहे रे लोल”66

एवं सहजानन्दनाम्ना प्रसिद्धः स्वामिनारायण एव परमात्मा, स चाऽक्षरब्रह्मणोऽप्याधारोऽस्तीति समुज्जुघोष। तेनैव पुनः पुष्पदोलोत्सवपदानां वर्णने परमात्मना सह रङ्गक्रीडायां कृतार्थतामनुभवन्नुवाच -

“प्रेमानंद मिले श्री अक्षरपति, पूरण हमारे भाग”67

इत्येवमत्रापि परमात्मनोऽक्षरस्यापि नियामकत्वादक्षरपतित्वेनोल्लेखमकरोत् प्रेमानन्दस्वामी। स च पुनरनेनैव शब्देन परमात्ममहिमानं कीर्तयाञ्चक्रे -

“अक्षरपति अलबेलडा रे आव्या अमारे काज...

करुणा सागर कुंवर धर्मना.”68

खलु परब्रह्मस्वामिनारायणस्य पितुर्नामधेयं धर्मदेव आसीत्। तेनैव स धर्मपुत्रो धर्मसुतो धर्मकुमार इत्यादिशब्दैरपि निर्दिश्यते। तदत्राप्यवलोक्यते। स धर्मकुमारः साक्षादक्षरपतिरिति सिद्धान्तं प्रेमानन्दस्वामी निरदिशत् -

“प्रगट हरि मुजने मळ्या रे लोल...

ए तो प्रकृति पुरुष थकी पर छे रे लोल, ए तो अक्षर तणा आधार मारी बेनी...”69

एवं प्रकृतिपुरुषादपि परत्वेनऽक्षरब्रह्मणोऽप्याधारत्वेन परमात्मानं कथयित्वा स मां प्रकटो मिलित इति सानन्दं गीतम्। अथ मुक्तानन्दस्वामिवचोभिरप्येष सिद्धान्तो दृढायते। पूर्वोक्तानुसारं नीलकण्ठवर्णिना सह प्रश्नोत्तरप्रसङ्गे मुक्तानन्दस्वामिमुखान्निःसृतमिदं मर्मेति भक्तचिन्तामणिग्रन्थे लिलेख निष्कुलानन्दस्वामी यथा -

“हवे सुणो ब्रह्म निरूपण, सत्य ज्ञान अनंत पूरण;

अखंड ने अक्षर एनुं नाम, पुरुषोत्तमने रहेवानुं धाम.

मूर्तिमान अमूर्त कहेवाय, शुद्ध नित्य विकार विनाय;

माया ईश्वर जीव तत्त्व जेह, तेनुं प्रकाशक जाणो तेह.

वळी, सर्वाधार एह ब्रह्म, जाणो वर्णीराट एह मर्म;

हवे परब्रह्मने कहीए छीए, जेनो कहेतां ते पार न लईए.”70

इत्येवं ब्रह्मनिरूपणे तत्सत्यत्वज्ञानत्वाऽनन्तत्वादिलक्षणलक्षितत्वमुक्त्वा तस्याऽक्षरशब्देनापि व्यवहृतत्वं पुरुषोत्तमधामत्वं मूर्तामूर्तत्वं जीवेश्वरमायाप्रकाशकत्वं सर्वाधारत्वमुक्त्वा ततोऽपि परभूतस्य परमात्मनो निरूपणं चकार। एवमत्रापि प्रसङ्गमुद्दिश्य ब्रह्मपरब्रह्मतत्त्वभेदवर्णनं विहितम्। स्वरचितपद्यसाहित्येऽप्येष सिद्धान्तोऽभ्यासनयेन पुनरावर्तितः। यथा -

“श्री पुरुषोत्तम क्षर अक्षर पर”71

“मेरे उर नीलकण्ठ निज स्वामी...

क्षर अक्षर पर श्री पुरुषोत्तम सोई प्रगट बहुनामी”72

वनविचरणकाले नीलकण्ठनाम्ना प्रसिद्धं परब्रह्मस्वामिनारायणं स्वहृदि निधाय क्षराक्षरपरत्वेन तं पुरुषोत्तममुपासते मुक्तानन्दस्वामीत्यनेनावबुध्यते। ततश्च सतां लक्षणानि वर्णयता सम्प्रदाये साधुगुणगणसंवलितत्वेन प्रसिद्धो मुक्तानन्दस्वाम्युवाद -

“क्षर अक्षर अरु अक्षरपर की, सबही समज उर लावे”73

“क्षर अक्षर पर मोकुं जानत, सब अक्षर को स्वामी

अपनो रूप शुद्ध ब्रह्म मानत”74

एवं ज्ञानी साधुः क्षराक्षरौ तत्परं पुरुषोत्तमं चावबुध्यते। स्वं रूपं च ब्रह्मैक्यत्वेन विधार्यत इत्येवमुक्त्वा यो पुरुषोत्तमं ब्रह्माक्षरात् परभूतं मत्वा ब्रह्मणैक्यं साधयति स एव ज्ञानी साधुरित्यप्यन्वय­व्यतिरेकदृष्ट्या मुक्तानन्दस्वामिकथनादवगम्यते। अमुमेव विषयं ब्रह्मानन्दस्वाम्यपि स्वरचितपद्यपङ्क्तावाङ्कयत “अक्षरातीत अजित अखंडित”75 “अक्षरातीत”76 इत्येतैः शब्दैः। न चात्र परमात्मोल्लेखाभावादक्षरात् पुरुषोत्तमस्य भेदो दर्शयितुं न शक्यत इति वाच्यम्, पुरुषोत्तमलक्षणदर्शनेन स एवात्र प्रकृतः। अक्षरातीतत्वं खलु पुरुषोत्तमं विहाय न कुत्रापि व्यभिचरितत्वाद् भवति सर्वं समञ्जसमेव। एवं भूमानन्दस्वामी स्वकीर्तनपङ्क्तौ गायति -

“घेरे चाली आव्या ब्रह्ममो’लवासी रे,

जेने कहे छे अक्षरातीत अविनाशी रे”77

अत्र ब्रह्ममहालयत्वेनाऽक्षरधाम निर्दिश्य तन्निवास्यक्षरातीतत्वाऽविनाशित्वलक्षणलक्षितः परमात्मा मद्गृहे समागत इति प्रत्यक्षपरमात्मोपलब्धिकथनेऽयं सिद्धान्तो दृढायितः।

अक्षररूपत्वं पुरुषोत्तमोपासनं च

ब्रह्माक्षरात् परब्रह्मणः परत्वं विज्ञाय तदक्षरेण सहैक्यं विधाय पुरुषोत्तमस्योपासना विधातव्येति परब्रह्मोक्तसिद्धान्तः। यथा “ब्रह्मज्ञानमार्गे त्विदं वेदितव्यं यद्, ‘ब्रह्म तु वर्तते निर्विकारं निरंशं चेति न तद् विकारमाप्नुयाद्, न चाऽपि भवेयुस्तदंशाः।’ यच्च तस्य ब्रह्मणः सर्वरूपत्वमुच्यते तत् त्वेवमभिप्रायकं यत्, तदिदं ब्रह्म प्रकृतिपुरुषादिसर्वेषामपि कारणमाधारस्तत्सर्वेषु चाऽन्तर्यामिशक्त्या व्यापकं चेति यद् भवेत् कारणमाधारो व्यापकं च, तत्तु न भवेत् कार्यात् पृथगित्यभिप्रायमुद्दिश्य हि शास्त्रं तस्य ब्रह्मणः सर्वरूपत्वमनुशास्ति, किन्तु न च तद् ब्रह्मैव विकारं प्राप्य चराचरजीवरूपं सञ्जातमिति वाच्यम्। अथ तस्माद् ब्रह्मणः पृथग् वर्तते परब्रह्म पुरुषोत्तमो नारायणः। स च ब्रह्मणोऽपि कारणमाधारः प्रेरकश्च। एवं विज्ञाय स्वकीयजीवात्मनस्तेन ब्रह्मणा सहैकतां विभाव्य परब्रह्मणः स्वामिसेवकभावेनोपासनाऽनुष्ठेया। इत्येवंरूपेण ज्ञाते सति ब्रह्मज्ञानमपि परमपदप्राप्तये वर्तते निर्विघ्नः पन्थाः।”78 “अतोऽस्मदीयसत्सङ्गिभिस्तु सर्वैरित्थमेव निश्चेयं यद्, ‘अस्माभिरपि तदक्षररूपमुक्तपङ्क्तौ सम्मिलितव्यम्, अक्षरधाम च समेत्य भगवत्सेवायामखण्डमुपस्थेयम्...”79 “यो ब्रह्मरूपो भवति तस्यैवाऽस्ति पुरुषोत्तमस्य भक्त्याम् अधिकारः।”80

एवं क्वचिद् ब्रह्मज्ञानव्याख्यायां क्वचिद्भक्त्यधिकारकथने क्वापि वा विदेहमुक्तिनिरूपणप्रसङ्गे ब्रह्मरूपत्वं परब्रह्मोपासनं सिद्धान्तितं परब्रह्मणा। अयमेव सिद्धान्तः कविभिः सद्भिरपि क्वचिद् भक्तलक्षणोक्तौ क्वचिद्वा भक्तसाक्षात्कारदशाकथन इत्यादिविभिन्नप्रसङ्गेषु प्रत्यपादि। यथा मुक्तानन्दस्वामी ‘अनुभवी’ इति शब्देन साक्षात्कारवतः पुरुषस्य लक्षणं दर्शयति। तत्रैतादृशो भक्त आनन्देन परमात्मभजनं कुरुते, परब्रह्मणि स्नेहेन परिप्लावितः सन् स न पुनर्भवं प्राप्नोतीत्यपुनरावृत्तिकरे स्नेहे वैशिष्ट्यं वक्ति -

“ब्रह्म थई परब्रह्मने जुए ते जाणे रे,

एवा जीवनमुक्त जनना गुण वेद वखाणे रे”81

इति। ब्रह्म भूत्वा परब्रह्म साक्षात्कुरुते स एव ज्ञानी, स च जीवन्मुक्त इत्यनेनात्र ज्ञानिनो जीवन्मुक्तस्य च व्याख्या प्रदीयते। एतादृशो भक्तस्य गुणानां महिमा वेदेऽपि गीत इत्येवं “अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मणः”82 इत्यादिश्रुतिमन्त्राणां मर्म गदितम्। विषयेऽस्मिन् क्वचित् परमात्मशब्दमध्याहृत्यैव भज्-धातुं प्रयुज्यैष सिद्धान्त उच्चारितो यथा -

“ब्रह्मरूप होय भजत निरंतर”83

सेवार्थे प्रयुज्यमानोऽयं भज्-धातुः स्वामिसेवकत्वभावं दर्शयति। एवं ब्रह्मरूपत्वेन यद्यक्षरब्रह्मणैकत्वं विहितं तर्हि केन सह स्वामिसेवकत्वमिति जिज्ञासायां ब्रह्मतोऽपि परभूतेन परब्रह्मणा सहैवेत्येवं ब्रह्मरूपो भूत्वा स्वस्वामिनं परमात्मानं सेवत इति सिद्धान्त उपवर्णितः। अत्र निरन्तरशब्देनापि साधनदशायां सिद्धदशायां जीवन्मुक्तौ विदेहमुक्ताविति कस्यामपि स्थितावखण्डमेतादृशो भाव सम्पादितव्य इत्युक्तम्। अनेनैव दर्शनेऽस्मिन् “अक्षरब्रह्मसाधर्म्यं संप्राप्य दासभावतः। पुरुषोत्तमभक्तिर्हि मुक्तिरात्यन्तिकी मता॥”84 इत्येवं चरममुक्तिनिरूपणे विवर्णितामेतां स्थितिं “अक्षरमहं पुरुषोत्तमदासोऽस्मि”85 इति साधनामन्त्रेणापि दृढीकर्तुं महन्तस्वामिमहाराजा अप्याज्ञापयन्। क्वचित् परमात्मनः कृते हरिशब्दं प्रयुज्योक्तं भजनं दर्शितम्। यथा सतां लक्षणानां कथनावसरे मुक्तानन्दस्वामी कथयामास -

“ब्रह्मरूप थई हरिने भजे”86

इति। क्वचिद्धरिशब्देन सह दासशब्दं प्रयुज्यापि स्वनियामकभूतपरब्रह्मणा सह स्वस्य सेवकत्वं प्रास्तौद् मुक्तानन्दस्वामी। यथा पुष्पदोलोत्सवप्रसङ्गं विवर्णयन् स परब्रह्मसम्बन्धमहिमानं गायति -

“ब्रह्मरूप हरिदास भयोरि”87

एवमत्र परमात्मना सह रङ्गरमणमात्रेण स्वान्तःकरणाद् मानादिदोषा निवृत्ताः, स्वयं च ब्रह्मरूपो भूत्वा परब्रह्मदासः सम्पन्न इत्येवं सिद्धान्तोऽयमुद्घोषितः। क्वचिद्वा परमात्मनः कृते गिरिधारिशब्दं प्रयुज्यापि सिद्धान्तोऽयं निगद्यते। यथा प्रेमानन्दस्वामी साधुलक्षणनिरूपणावसरे परमात्मप्रीतिपात्रसाधुः कथं वर्तेत केन सह च परमात्मा नित्यं रमेतेति जिज्ञासां सन्तोषयन्नुवाच -

“ब्रह्मरूप थई भजे गिरिधारी”88

इत्येवं प्रथममेव लक्षणं ब्रह्मरूपत्वं सम्पाद्य परब्रह्मभक्तिरित्युक्तम्। भूयश्च तदेवोच्यते कीर्तनान्तरे प्रेमानन्दस्वामिना -

“एवा संत हरिने प्यारा रे तेथी घडीये न रहे वालो रहे वालो न्यारा रे...

महिमा हरिनो सारी पेठे जाणे... रहे ब्रह्मस्वरूप मतवाला रे”89

ब्रह्मानन्दस्वाम्यपि परमात्मनः प्रीतय इदमेव लक्षणमुक्तवान्। अनेन प्रीतिपात्रत्वेन भक्तिर्निर्णीयते यथा -

“ब्रह्म अखंड स्वरूप आपको, समजत त्रिगुणातीत...

ब्रह्मानंद कहत हरिसो प्रिय, जोगी इन्द्रियजीत”90

अत्र स्वात्मानं त्रिगुणातीतं ब्रह्मरूपं विज्ञाय स इन्द्रियजिद् योगी परमात्मानं प्रीणातीत्येवं सतां व्याख्यायां दर्शनस्याऽस्योद्घाटनम्। क्वचिच्च परमात्मना स्वयमेवोद्घोषितं कविमुनिभिः स्वकर्णाभ्यां श्रुतं स्वलेखिन्याऽङ्क्येत तर्हि वक्तारमुत्तमपुरुषप्रयोगेन निर्दिश्य पद्यपङ्क्तयो विरच्येरन्। यथा ब्रह्मानन्दस्वामी मुक्तानन्दस्वामी च कथयाञ्चक्राते -

“ब्रह्मरूप होय जगमही विचरे, तजके देह अध्यास;

उरके बीच रहे नित मेरो, समरण श्वासोस्वास”91

“मेरे जन मोकुं भजे... ब्रह्मस्वरूप अमर अजे”92

अत्र ‘मेरो’ ‘मेरे’ इति शब्दद्वयं परमात्मनो वक्तृत्वं निर्दिशति। ‘उरके बीच’ इत्यनेनापि छान्दोग्यकथिता दहरविद्याऽप्यत्र संयुज्यते, हृदयपुण्डरीकस्थदहराकाशशब्दशब्दिताऽक्षरब्रह्मणा सह स्वात्मानमेकीकृत्य तस्मिंन् यदन्तः स्थितस्य परमात्मनोऽन्वेष्टव्यतया विजिज्ञासितव्यतया चानुसन्धानश्रवणात्।93 एवं परमात्ममुखाच्छ्रुत एव श्रुत्युक्त सिद्धान्तोऽत्र निगद्यत इति सिद्धम्। क्वचित् स्फुटमेवावाचि सिद्धान्तो यथा ब्रह्मानन्दस्वामिना सतां महिमकथने। मुमुक्षूणां कृते परमात्मात्मकं परं पारं प्रापयितुं नौकासमः साधुः कीदृश इति जिज्ञासायां -

“ब्रह्म होय परब्रह्म उपासत”94

इत्येवमुक्तम्। क्वचिच्च ब्रह्मशब्दस्य स्थानेऽक्षरशब्दं प्रयुज्यापि सिद्धान्तोऽयं दृढीकृतो यथा पुनः साधुलक्षणवेलायामकथि ब्रह्मानन्दस्वामिना -

“भजे अक्षर थईने अक्षरातीतने रे”95

पूर्वोक्तानुसारमक्षरातीतत्वं पुरुषोत्तमस्य लक्षणादक्षरं भूत्वा पुरुषोत्तमं भजत इत्येवमुक्तम्। क्वचिद्वा ब्रह्मविद्याशब्देन भगवदभिप्रायः प्रदर्शितः। नूनं परब्रह्मस्वामिनारायणेनैव वचनामृते ब्रह्मज्ञानशब्देन ब्रह्मविद्यायां ब्रह्मद्वयं न्यरूपि तदुक्तमेव पुरा। मुण्डकोपनिषत्स्वामिनारायण­भाष्ये­ऽपि ब्रह्मविद्याव्याख्यानावसरे शास्त्रवचनमनुसृत्याऽक्षरपुरुषोत्तमौ न्यरूपिषाताम्।96 अतस्तमेव शब्दं प्रयुज्य प्रेमानन्दस्वामी परमेश्वरप्रसादभाजनसतो महिमानं तल्लक्षणानि च लिलेख यथा -

“ब्रह्मविद्या जेणे दृढ करी साधी...

ब्रह्मस्वरूपमां रहे नित्य न्हाया, प्रगट हरिगुणमां चितडां हरायां”97

अत्र ब्रह्मात्मैक्यज्ञानवर्षणेन स्नात्वा स्वचेतः प्रकटपरमात्मनि सज्जत इत्युक्तम्। अत्र परमात्मनः प्रकटत्वं विज्ञाप्य तत्प्रकटस्वरूपेऽवसातव्यं स्वान्तःकरणवृत्तीरित्यप्युक्तम्।

स्वामिनारायणसम्प्रदाये प्रतिदिनं सायमारार्तिक्यं समाप्य प्रेमानन्दस्वामिविरचिता प्रार्थना गीयते। तत्रैका पङ्किः श्रूयते -

“निर्विकल्प उत्तम अति निश्चय तव घनश्याम”98

इति। एवं च प्रेमानन्दस्वामिप्रणीते प्रार्थनापदान्तरेऽप्येतादृशाः शब्दा अप्युपयुक्ता अवलोक्यन्ते यथा -

“धर्मकुंवर हरिकृष्णजी, तमे भक्तपति भगवान, ए वर मागुं छुं...

निर्विकल्प उत्तम अति एवो निश्चय थाय तमारो”99

एवमत्रापि हरिकृष्णसञ्ज्ञया प्रसिद्धं धर्मदेवस्य पुत्रं परब्रह्मस्वामिनारायणमुद्दिश्य वरं ययाच प्रेमानन्दस्वामी, भवत उत्तमनिर्विकल्पनिश्चयो भूयादिति। ननु कुत प्रार्थनेयमस्मिन् विषयेऽनुसन्दधातीति वक्तव्यम्। निश्चयपदेन तु परमात्मनि दृढा निष्ठैव व्यपदिश्यत इति चेन्न निश्चयोऽयं न सविकल्पो न वा कनिष्ठत्वमध्यमत्वान्यतमविशिष्टोऽपि तूत्तमत्वविशिष्टो निर्विकल्पश्चेति। किं वैशिष्ट्यं तत्रोत्तमनिर्विकल्पकत्व इति चेच्छ्रुणोतु, परब्रह्मणैव व्याख्यायामस्यामुक्तं वैशिष्ट्यं वचनामृते “अथ यदक्षरे ह्यष्टावरणयुक्तकोटिकोटि­ब्रह्माण्डान्यणुवद् भासन्ते, तादृशं यत् पुरुषोत्तमनारायणस्य धामरूपम् अक्षरं, तद्रूपेण स्वयं तिष्ठन् पुरुषोत्तममुपासीत, सोऽयमभिधीयत उत्तमनिर्विकल्पनिश्चयवानिति।”100 इत्येतैः शब्दैः। एवं सतां पद्येष्वङ्कितासु प्रार्थनाशब्देष्वपि सर्वोत्तमनिश्चयदृढताव्याजेन दरीदृश्यतेऽयं सिद्धान्तः।

परब्रह्म स्वामिनारायण उपास्यः

वचनामृतशास्त्रे परब्रह्मस्वामिनारायणेन भगवता स्वस्य परब्रह्मत्वं विज्ञाप्य स्वाश्रितेभ्यो स्वोपास्यत्वं निर्दिष्टम्। यथा “यद् एकरसं तेजः, तत् कथ्यत आत्मा वा ब्रह्म वाऽक्षरधाम वा; तत्प्रकाशे च विद्यमाना भगवन्मूर्तिः कथ्यत आत्मनस्तत्त्वं वा परब्रह्म वा पुरुषोत्तमो वेति... एवं च विजानत यत्, ‘तेजसि या मूर्तिर्विराजते, सैवाऽयं प्रत्यक्षो महाराजः’ इति”101 एवमत्र तेजःपदेनाऽक्षरधाम निर्दिश्य तस्मिन् तेजसि तेजःपरभूतां परमात्मनाम्नीं मूर्तिं विवर्ण्य सा मूर्तिः स्वयमेवेत्यवाचि। परञ्च स्वोपास्यत्वमप्युच्यते यथा - “तथाविधश्चाऽयं सर्वोपरिपुरुषोत्तमो भगवानेव दयया जीवानां कल्याणायाऽस्यां पृथिव्यां प्रकटितः सन् वर्तते सर्वजननयनगोचरः, अस्ति च युष्माकमिष्टदेवः, अङ्गीकरोति च वः सेवाम्। एवंविधस्याऽस्य प्रत्यक्षपुरुषोत्तमभगवतः स्वरूपेऽक्षरधामावस्थिते च भगवत्स्वरूपे नास्ति कोऽपि भेदः; तौ द्वावेकावेव। एवंविधश्चाऽयं प्रत्यक्षः पुरुषोत्तमो भगवान् अस्त्यक्षरादिसर्वेषां नियन्ता, ईश्वराणां चाऽपीश्वरः, सर्वकारणानां चाऽपि कारणम्; वर्तते च सर्वोपरि, सर्वाऽवताराणां चाऽवतारी, युष्माभिः सर्वैरेकान्तिक­भावेनोपासनयोग्यश्च।”102

तदेतद्रहस्यं स्वामिनारायणीयसाधूनां कीर्तनेष्वप्युपलभ्यते। यथा मुक्तानन्दस्वामी श्रीहरिणानुष्ठितानि कर्माणि संस्मृत्योद्घोषयति -

“पोते परब्रह्म छे रे, स्वामी सहजानंद”103

अर्थात्, सहजानन्दस्वामी स्वयमेव परब्रह्मेति। पुनश्च पृथिव्यां परमात्मनोऽवतरणलीलां संस्मृत्य सन्तः स्वामिनारायणस्य भगवतो पुरुषोत्तमत्वं दर्शयाञ्चक्रिरे। परमात्मप्राकट्येन खलु सकलं ब्रह्माण्डं माङ्गल्यपूर्णं सञ्जायते। सर्वत्रानन्दोत्सवोऽनुभूयते। तदेवोवाच मुक्तानन्दस्वामी -

“प्रेमवती सुत जायो अनुपम, बाजत आनंद बधाई हो;

प्रगट भये पूरन पुरुषोत्तम, सुर सज्जन सुखदाई हो”104

अत्र घनश्यामप्रभोर्माता भक्तिदेवी प्रेमवतीतिशब्देनापि प्रसिद्धत्वात् तस्य सूनुर्भगवान् स्वामिनारायणः स्वयं पुरुषोत्तम इत्युल्लेखः। पुनश्चास्मिन्नेव कीर्तनचतुष्टये वक्ति मुक्तानन्दस्वामी -

“श्रीपुरुषोत्तम क्षर अक्षर पर, अखिल भुवन आधार हो;

निज इच्छातें वृष घर प्रगटे, निजजन सुख दातार हो”105

अत्र क्षराक्षरपरत्वेन पुरुषोत्तमं निर्दिश्य स एव वृषपुत्रो घनश्याम इति स्पष्टीकृतम्। प्रादुर्भूय पुरुषोत्तमः दोलायां क्रीडतीति संस्मरणेन भूयो गीतम् -

“धर्मकुंवर झुले पालने मांइ...श्री पुरुषोत्तम”106

“भक्तिमात सुत पालना झुलावे...

बालविनोद निरखी मुक्तानंद, गूढ परब्रह्म पद शिर नावे”107

इत्यादिपदेषु मुक्तानन्दस्वामिना। निष्कुलानन्दस्वामी प्रेमानन्दस्वामी चापि परमात्मप्राकट्यकथनेन प्रकृतं रहस्यमुद्घाटयतः सर्वसुखकन्दपरमात्मप्राप्तिबलेन चानन्दतः -

“अक्षरधामथी आविया, स्वामी सहजानंद;

भक्तिधर्मसुत प्रगट्या, सर्वे मुनिनां वृंद

ब्रह्मविद्याना भोमिया, अक्षरमुक्त संगाथ”108

“मुने मळिया पुरुषोत्तमराय... अक्षरातीत... सहजानंद सुखधाम”109

“अक्षरपति अलबेलडा रे आव्या अमारे काज”110

इत्यादिपङ्क्तिषु। अत्र ब्रह्मविद्यामार्गज्ञः सहजानन्दस्वामी अक्षरधामतोऽक्षरमुक्तैः सह समागत इत्येवमक्षरपतित्वेन श्रीहरेः पुरुषोत्तमत्वं निर्दिष्टम्। अनेनाऽक्षरमुक्तैः सह परमात्मावतरणविषये वचनामृतप्रमाणमग्रे विमर्क्ष्यामः। क्वचित् पुरुषोत्तमपरब्रह्मपरमात्मादि­सर्वोत्कृष्टतत्त्ववाचकशब्देन भगवत्स्वामिनारायमस्योल्लेखं विधाय प्रकारान्तरेणापि तत्स्वरूपं विज्ञाप्यते यथा स परमात्मा सर्वकर्ता साकारोऽक्षरधामाधिपतिः सुखप्रदातेत्यादिना। यथा दयानन्दस्वाम्यक्षरनिवासिनं परब्रह्म सहजानन्दस्वामिनं भक्तुमादिशत् -

“प्रीते भजो रे परब्रह्मने, स्वामी सहजानंदजी...

ते अक्षरवासी वालमो”111

मुक्तानन्दस्वामी स्वविरचितविभिन्नकीर्तनेषु स्वामिसहजानन्दमहाराजमक्षरधामाधिपं पुरुषोत्तममकथयत्। यथा -

“अलौकिक आदित उदिया रे, सहजानंद स्वामी... पुरुषोत्तम पोते...

ब्रह्मरूप मुनि मोटा रे, करे सदगुण सेवा

अक्षरपद अविनाशी रे, जेनुं धाम कहावे”112

“सहजानंद स्वामी रे, पोते परब्रह्म छे रे, स्वामिनारायण जेनुं नाम रे...

कीधा वाले ब्रह्मरूप निज दास रे”113

“सुखदायक रे स्वामी सहजानंद, प्रगट पुरुषोत्तम श्रीहरि

जेनुं स्वामिनारायण नाम छे, जेने भजने रे पामे भवजळ पार”114

“वंदु श्री पुरुषोत्तम प्रकट, सहजानंद सुखदाइ हो...

अनंत कोटि इन्दु तरनी सम, एसो हे अक्षरधाम हो;

तामहि सदा विराजत सुंदर, द्विभुज घनश्याम हो.

अनंतकोटि महामुक्त एकांतिक, दिव्य अक्षरसम कावे हो;

सेवत सदा चरन पंकजरज, निरखी त्रपत नहि पावे हो.

माया काळ पुरुष अरु अक्षर, स्तवन करे पद नामी हो”115

एवमत्र मुक्तानन्दस्वामिनोक्तं यत् स्वामिनारायणो भगवान् तमोपहारकमादित्यमस्ति। ब्रह्मरूपा मुनयस्तु तत्परमात्मनः श्रीहरेः सेवकाः। न केवलमस्मिन्नेव लोकेऽपि त्वक्षरधाम्नि ब्रह्माक्षरसाधर्म्यमापन्ना दिव्याक्षरमुक्तास्तं सदा सेवन्ते। स च कालमायापुरुषाऽक्षरतोऽपि परभूतः तैरपि स्तुत्यः भगवान्स्वामिनारायणः स्वाश्रितान् ब्रह्मरूपानपि चकारेति। तदेतत्सर्वं वचनामृतेनोद्घाटितं पद्यरूपेणात्र गीयते।116

अथैकदा श्रीहरिः प्रेमानन्दस्वामिनो निवासस्थाने समागत्य तत्सेवाभक्तिं स्वीचकार। ततस्तत्र स्वयमेव स्वस्वरूपमुदघाटयत्। एष सकलः प्रसङ्गः सोपदेशः महिमरसलम्पटेन प्रेमानन्दस्वामिना स्वरचितकीर्तनेऽङ्क्यत।

“मारुं धाम छे रे, अक्षर अमृत जेनुं नाम...

तेमां हुं रहुं रे, द्विभुज दिव्य सदा साकार;

दुर्लभ देवने रे, मारो कोई न पामे पार.

जीव ईश्वर तणो रे, माया काळ पुरुष प्रधान;

सहुने वश करुं रे, सहुनो प्रेरक हुं भगवान.

अगणित विश्वनी रे उत्पत्ति पालन प्रलय थाय;

मारी मरजी विना रे, कोईथी तरणुं नव तोडाय.”117

अत्र भगवान् स्वामिनारायणः स्वनिवासस्थानमक्षरधामास्तीत्युक्त्वा स्वस्य सर्वनियन्तृत्वं सर्वकर्तृत्वं साकृतिकत्वं च दर्शयति। अथ भक्तचिन्तामणिग्रन्थे भगवत्स्वामिनारायणस्य चरित्राणि वर्णितानि। तच्चरित्राणां वैशिष्ट्यदर्शनाय निष्कुलानन्दस्वामी चरित्रकर्तुः श्रीहरेः स्वरूपमुदबोधयत्। यथा -

“विधि पर ते विराट कहीए, ते पर प्रधानपुरुष लईए;

ते पर मूळप्रकृतिपुरुष, तेथी पर अक्षर सुजश.

अक्षर पर पुरुषोत्तम जेह, तेणे धर्युं मनुष्यनुं देह”118

एवं हिरण्यगर्भाद् वैराजपुरुषः परभूतः ततश्च प्रधानपुरुषः परः तस्मात् प्रकृतिपुरुषो महान्, तस्माच्च ब्रह्माक्षरं परभूतमित्युक्त्वाऽन्ते तदक्षरात् पुरुषोत्तमस्य परत्वं विज्ञाप्य स एवात्र धरायां प्रादुर्भूय सहजानन्दस्वामीतिनाम्ना प्रसिद्धः सन्नाचरति चरित्राणित्येवं चरित्रमहिमकथनेन स्वामिनारायणस्य परब्रह्मत्वमप्युद्घाटितम्। क्वचित् परब्रह्मादिशब्दाननुपयुज्यैव तल्लक्षणेनाऽपि तत्सर्वोपरित्वं कथितमवगम्यते। यथा प्रेमानन्दस्वामी शपथग्रहणपूर्वकं सत्यवार्तामवोचद् यत् -

“प्राणी स्वामिनारायण देव, सत्य स्वरूप छे रे...

नेति नेति करी निगम गाये, उपनिषदनो सार;

काळ मायादिक सौना प्रेरक, अक्षरना आधार...

ब्रह्ममहोलना वासी रे प्रभु सदा दिव्य साकार;

अक्षरादिक मुक्त कोटि सेवे करी अति प्यार...”119

एवमक्षरस्याप्याधारत्वेनाऽक्षरमुक्तानां च सेव्यत्वेन तु पुरुषोत्तमस्यैव निरूपणात् तदन्यस्य कस्याप्यसम्भवात् स्वामिनारायणः पुरुषोत्तम एवेत्युक्तमत्र। पुनश्च प्रेमसखी प्रेमानन्दस्वाम्यकथयत् -

“सहजानंदजी सनेही सुखधाम छे जो...

दिव्य चैतन्य अक्षर एनुं घर छे जो, क्षर अक्षर थकी ए तो पर छे जो...

दिव्य द्विभुज सदा साकार छे जो, सर्वकर्ता प्रेरक ने आधार छे जो...”120

“राजे गढपुर महाराज... ए तो अक्षरना आतमा जो”121

एवमक्षरात् परत्वेनाऽक्षरस्यात्मत्वेन सर्वकर्तृत्वेन श्रीहरिं परमात्मानमेवोवाच। किञ्च भगवतः स्वामिनारायणस्योपदेशं गृहीत्वा भक्तचिन्तामणि ग्रन्थे तत्स्वरूपं वर्णितम्। तत्रैकदा गढपुरे श्रीहरिः परमहंसैः122 सह ज्ञानगोष्ठ्यां मुक्तानन्दस्वामिनः प्रश्नस्योत्तरे स्वसर्वकर्तृत्वमुवाच -

“मारुं धार्युं असत्य सत्य थाय छे, समरथ मारुं नाम सहि;

मारी दृष्टिए जक्त उपजे समे, अनेक रूपे माया थई.”123

“ते माटे तमे सांभळो सतसंगी सहु नरनार;

जे जे थाय छे जक्तमां तेनो बीजो नथी करनार...

जे मळ्या छे तमने, ते पार छे अक्षरथी”124

अर्थाद्, मम दृष्टिमात्रेण जगदुत्पद्यते विलीयते। अस्मिन् जगति मद्विना नास्त्यन्यो कर्तेत्येवं स्वस्य परब्रह्मत्वं प्रख्यापितम्। भूयश्चऽक्षरात्परतः परस्य मे साक्षात् प्राप्तिर्भवतामिति स्फुटमुवाच करुणावरुणालयो भगवान्।125 एवमेव वरतालग्रामे कार्तिकशुक्लैकादश्युत्सवे सभायामेव तत्रोपस्थितसकलसत्सङ्गिजनेभ्यो भगवान् स्वामिनारायणः स्वस्वरूपं प्रख्यापयाञ्चक्रे -

“अति अपार अक्षरातीत, थई तमारे ते साथे प्रीत;

भक्त जक्तमांहि छे जो घणा, उपासक अवतार तणा.

जे जे मूरति जनने भावे, ते मूर्ति निजधाम पहोंचावे;

पण सर्वेपार जे प्रापति, ते छे तमारे कहे प्राणपति.”126

अर्थाद्, हे भक्तजनाः, भवन्तः सर्वे सर्वोपरि स्थितस्य परब्रह्मण उपासकाः। अतो भवन्तः सर्वोत्कृष्टस्थानमक्षरधाम प्राप्स्यन्तीत्युवाच परमात्मा स्वयम्। एवमत्र परमहंसैः स्वकीर्तनेषु भगवतः स्वामिनारायणस्य परमात्मत्वं दृढायितम्। यद्यप्यत्र सर्वकर्तृत्वसदासाकृतिकत्व­सर्वोपरित्वप्रकटत्वकथनेन श्रीहरेरुपास्यत्वं तु सिध्यत्येव127 तथापि शब्दविशेषं प्रयुज्यापि स्फुटं बोधयन्ति परमहंसाः स्वेषामुपासकत्वं श्रीहरेश्चोपास्यत्वम्। यथा ब्रह्मानन्दस्वामी प्रेमानन्दस्वामी मुक्तानन्दस्वामी सुखानन्दस्वामी च जगुः -

“भलावे सहजानंदको में उपासी, चरण कमलको निवासी

माता पिता बंधु सहजानंद, सहजानंद सुखराशी...

सहजानंद विना कुण मेटे, कठण काळकी फांसी”128

“में तो स्वामिनारायण को उपासी... अक्षरधाम निवासी”129

“वंदु सहजानन्द चरनरज तीरथ सकल निवासी हो...

अनंत कोटि इन्दु तरनी सम, अक्षर तेज प्रकासे हो;

तामहिं मुक्त कोटि मिली सेवत, पदरज परम उल्लासे हो.

ऐसे परम पुरुष परमेश्वर, अक्षरधाम के धामी हो;”130

“मारा हृदियामांय, रात दिवस एक रटना सहजानंदनी”131

“स्वामिनारायण स्वामिनारायण स्वामिनारायण सत्य रे;

रट रे मन रेन दिन, और सब असत्य रे”132

“आरती प्रगट प्रभुकी कीजे...

नरनाटक क्षर अक्षर न्यारा, पुरुषोत्तम पूरण जन प्यारा”133

“भज मन सहजानंद स्वामी... जाको ध्यान धरत ब्रह्म अक्षर”134

“सहजानंद के दर्शन करके मगन भये सब गुरुज्ञानी...

परब्रह्म पूरण पुरुषोत्तम स्वामिनारायण सुमरानी”135

एवमत्र क्वचित् “त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव...”136 इत्येवं रीत्या श्रीहरेरेवानन्यत्वेनाऽऽश्रितोऽहमिति भावः क्वचिद्वा परमात्मसम्बन्धेन महत्त्वमाप्तस्य चरणरजसो वन्दनेन भूयो दासभावः, क्वचिच्च स्वमनसे परमात्मभक्त्युपदेशः क्वचिद्वा महिमाधिक्यस्मरणेन कृतार्थत्वमित्येवं भिन्नभिन्नप्रकारकाः भावा अवलोक्यन्ते। इत्थमस्मिन् दर्शने परब्रह्मस्वामिनारायणस्योपास्यत्वं सिद्धान्तितं तदेव परमहंसानां पद्यसाहित्येप्युपलभ्यते।

अक्षरब्रह्मस्वरूपम् - स्वरूपचतुष्टयम्

परब्रह्मस्वामिनारायणेन वचनामृते ब्रह्माक्षरस्य सगुणनिर्गुणस्वरूपनिरूपण­द्वाराऽप्ययं सिद्धान्तः प्रोक्तः। यथा “पुरुषोत्तमभगवतोऽक्षरधाम्नो वर्तेते द्वौ भेदौ - एकः सगुणत्वेन द्वितीयश्च निर्गुणत्वेन। अथ पुरुषोत्तमनारायणस्तु न कथ्येत सगुणोऽपि, न च कथ्येत निर्गुणोऽपि। सगुणनिर्गुणभेदौ त्वक्षरे वर्तेते। तदक्षरं निर्गुणत्वेन तु विद्यतेऽणोरप्यतिसूक्ष्मस्वरूपेण, अथ सगुणस्वरूपेण तु यावन्तो महान्तः पदार्था उच्यन्ते, ततोऽप्यतिशयं महत्। तदक्षरस्यैकैकस्मिन् रोम्णि ह्यनन्तकोटिब्रह्माण्डान्यणुवद् अवस्थितानि।”137 इति। तदेतद्विश्रुत्य प्रेमानन्दस्वाम्युवाच -

“रे पुरुषोत्तम बोल्या प्रीते... रे समजावुं कही दृष्टांते...

रे पक्षी उडे जेम आकाशे, रे देह सहित बोले हासे, अनंत एवा जाये आवे भासे...

रे वादळ विजळी ने वारि, रे वायुघटा शोभे सारी, सौनी आकृति न्यारी न्यारी...”138

“रे अक्षर आकाश ठेकाणे... मुक्त कोटि विजळियुं जाणे

रे पक्षी ते अनंत पुरुष लेखो, रे अष्टावरण देहने देखो,

रे निर्गुण सगुण समजी लेतां, रे ते सरवे अक्षरने के’तां, स्वतंतर पोते सदा रहेतां...

रे काळे माया क्षोभने पामे, रे अनंत ब्रह्मांड थाये तामे, एम कह्युं प्रेमसखीने श्यामे...”139

अत्र दृष्टान्तमाध्यमेनाऽक्षरब्रह्मणो निर्गुणसगुणेतिस्वरूपद्वयं कथयित्वा तदक्षरतोऽपि परमात्मा स्वतन्त्रोऽस्तीत्युक्तम्। एतस्मिन्नेव विषये ब्रह्मानन्दस्वाम्यपि कीर्तयामास -

“जेम गगनमंडळमां पंखी रे, ऊडे देह सहित असंखी रे...

वादळ ने विद्युत वारी रे, सौ आकृति न्यारी न्यारी रे...

अक्षर ते अम्बर स्थाने रे... पंखी ते पुरुष अपारा रे, अष्टाव्रण देहाकारा रे...

बहु मुक्त विजळी तोले रे... निरगुण ने सगुण लखाय रे, ते अक्षरने कहेवाये रे...”140

एवं परब्रह्मवचनानुसारं तदाश्रितौ सन्तावपि सगुणनिर्गुणस्वरूपं वर्णयामासतुः।

अथ दर्शनेऽस्मिन्नेकस्यैवाक्षरस्य कार्यभेदेन चत्वारि रूपाणि स्वीक्रियन्ते। उक्तं चात्र “चतुर्धाऽवस्थितिर्ज्ञेया कार्यभेदान्न तत्त्वतः। मुक्तिसृष्टिलयाद्यर्थम् एकस्यैवाऽक्षरस्य तु॥ चिदाकाशस्तथा देशस्तद्देशस्थश्च सेवकः। गुरुर्ब्रह्मस्वरूपश्च चतस्रो ब्रह्मणो विधाः॥”141 इति। तदेतत् परमहंसानां पद्यसाहित्येप्युपलभ्यते। तत्रैकैकशः पश्यामः।

अक्षरधाम परमात्मनिवासस्थानम्

वचनामृते परब्रह्मस्वामिनारायणेन परमात्मनो नित्यं निवासस्थानत्वेनाऽक्षरधाम निर्दिष्टम्। यथा “तच्चाऽक्षरं तु पुरुषोत्तमभगवतो धाम... तस्मिँश्चाऽक्षरधामनि स्वयं पुरुषोत्तमो भगवान् सदा विराजमानः।”142 “पुरुषोत्तमो भगवान् कोटिसूर्यचन्द्रतुल्यतेजोमये स्वकीयाऽक्षरधामनि सदादिव्याकारः सन् विराजमानः, अनन्तकोटिब्रह्मरूपमुक्तसेवितचरणकमलश्च।”143 तथैव सन्तोऽपि स्वकीर्तनपङ्क्तौ रचयामासुरक्षरधामवर्णनम्। यथा पूर्वोक्तानुसारं यदा श्रीहरिः प्रेमानन्दस्वामिनो निवासस्थानमागतस्तदोपदेशे स्वधाम न्यरूपयत्। तदेव प्रेमानन्दस्वामी लिलेख -

“बोल्या श्रीहरि रे, सांभळो नरनारी हरिजन;

मारे एक वारता रे, सहुने संभळाव्यानुं छे मन.

मारी मूरति रे, मारा लोक भोग ने मुक्त;

सर्वे दिव्य छे रे, त्यां तो जोयानी छे जुक्त.

मारुं धाम छे रे, अक्षर अमृत जेनुं नाम;

सर्वे साम्रथि रे, शक्ति गुणे करी अभिराम.

अति तेजोमय रे, रवि शशि कोटिक वारणे जाय;

शीतळ शांत छे रे, तेजनी उपमा नव देवाय.

तेमां हुं रहुं रे, द्विभुज दिव्य सदा साकार”144

एवं ‘मारुं’ इति शब्दप्रयोगेन परब्रह्मस्वामिनारायणस्य नित्यं निवासस्थानमक्षरधामास्तीति दृढीक्रियते। पुनश्च तच्छान्तत्वशीतलत्वाऽनुपमत्वादिविशेषणविशिष्टमस्तीत्यपि गदितम्। निष्कुलानन्दस्वाम्यपि पुरुषोत्तमप्रकाशग्रन्थे लिलेख -

“धामी जे अक्षरधामना रे, तेणे आप्यो छे आनंद”145

अर्थादक्षरधाम्नोऽधिपतिना श्रीहरिणा प्रदत्तोऽयमानन्द इति। पुनश्च मुक्तानन्दस्वामी क्वचिदक्षरधाम्नोऽधिपतेः प्राप्तिबलेनानन्दति -

“मिले मोय श्री सहजानंद स्वामी... अक्षरधाम के धामी”146

पुनः स एव सतां लक्षणेष्वपीमं सिद्धान्तं दृढयति। अक्षरधामाविनिशि विद्यते तत्र नैके मुक्ता निवसन्तीति सत्याः साधव एवैवं मन्वत इत्यकथयत् -

“अक्षर पद जानत अविनाशी, तेही मध्य मुक्त अपारा”147

इत्येतैः शब्दैः। अथ प्रेमानन्दस्वामी सहजानन्दस्वामिनमक्षरनिवासिनमुक्त्वा स एवावन्यां समागत इत्युवाच -

“अक्षरना वासी वा’लो, आव्या अवनी पर”148

इत्यनेन कीर्तनेन। एवं पद्यसाहित्ये परब्रह्मस्वामिनारायणस्य निवासस्थानत्वेनाऽक्षरधाम निर्दिष्टम्। क्वचित् केवलमक्षरधामशब्देनापि तदेव निगद्यते। यथा मुक्तानन्दस्वामी परब्रह्मस्वामिनारायणं पर्यङ्कोपरि शयनाधीनं कुर्वन्नुच्चारयति शब्दान् -

“अक्षर पर आनंदघन प्रभु, कियो है भूपर ठाम;

जेही मिलत जन तरत माया, लहत अक्षरधाम”149

एवं क्वचित् सतां सङ्गस्य महिमकथने तत्फलं प्रदर्शयितुमुच्यते

“संत संगे पामशो अक्षरधाम रे”150

इति। ब्रह्मानन्दस्वाम्यप्यक्षरधाम्नि स्थितानां मुक्तानां स्थितिमवर्णयत्।

“ब्रह्मानंद कहे अक्षरवासी, एही अमलमें छाके”151

अर्थादक्षरमुक्ताः सर्वेऽप्यक्षरधाम्नि परमात्मानन्दे निमग्नाः सन्तीति। एवं परब्रह्मस्वामि­नारायणोपदेशानुसारमेव तद्दीक्षिताः साधवोऽपि लिलिखुः।

चिदाकाशः

चिदाकाशोऽपि ब्रह्माक्षरस्यापरं स्वरूपमिति श्रीहरिणा स्वयमेवोक्तम्। यथा - “तदक्षरस्य विद्यते स्वरूपद्वयम् - एकं तु निराकारम् एकरसचैतन्यं, तत् कथ्यते चिदाकाशो ब्रह्ममहालयो वेति”152 “यः खलु सर्वाधार आकाशः, स तु निर्विकारोऽनादिश्च। तादृशोऽयं सर्वाधार आकाश उच्यते ब्रह्म वा चिदाकाशो वेति।”153 स्वामिनारायणसिद्धान्तसुधायामपि श्रीहरिकथितायमभिप्राय उक्तः।154 प्रेमानन्दस्वामी ब्रह्मानन्दस्वामी चेदं चिदाकाशस्वरूपं स्वपद्यपङ्कौ लिलिखतुः -

“रे अक्षर आकाश ठेकाणे...

रे निर्गुण सगुण समजी लेतां, रे ते सरवे अक्षरने के’तां, स्वतंतर पोते सदा रहेतां.”155

“अक्षर ते अम्बर स्थाने रे... निरगुण ने सगुण लखाय रे, ते अक्षरने कहेवाये रे...”156

धाम्निसेवकरूपं पृथिव्यां चाऽवतीर्णमक्षरब्रह्म

“तच्चैवाऽक्षरमन्यरूपेण पुरुषोत्तमनारायणस्य सेवायामभिवर्तते।”157 इति वचनेनाऽक्षरब्रह्म धामाक्षरे सेवकरूपेण विराजत इति परब्रह्मणोक्तम्। तदेवाक्षरं ब्रह्म पृथिव्यापप्यवतरतीति “भगवान् यदा जीवकल्याणाऽर्थं मूर्तिं धरति तदा स्वकीयम् अक्षरधाम, चैतन्यमूर्तिपार्षदाः, स्वकीयसकलैश्वर्याणि चेत्येतैः सहित एव समागच्छति; किन्त्वितरैस्तानि न दृश्यन्ते। यदा च कस्यचिद् भक्तस्य समाधौ सञ्जायतेऽलौकिकी दृष्टिः, तदा तस्मै भगवन्मूर्तौ भासते कोटिकोटिसूर्यसमः प्रकाशः, मूर्त्या च साकं भासन्तेऽनन्तकोटिमुक्ता अपि, अक्षरधाम चाऽपि तद्भगवन्मूर्त्या सहैव भासते।”158 इति वचनेन कथितम्। तदेतत्स्वरूपद्वयं सङ्गृह्य प्रेमानन्दस्वाम्यलिखत् -

“मूळ अक्षर पण श्रीहरि संगे, मुक्त मंडळने वालो लाव्या उमंगे राज...”159

“आ धाम धामी क्यारे, नो’ता पधार्या, ईश्वर कोटि स्तुति करीने हार्या राज...”160

एवमुपरोक्तवचनेन धाम्नि सेवकरूपमक्षरं तत्रस्थं मुक्तमण्डलं तद्वयं गृहीत्वा श्रीहरिर्धरायामस्यां समागत इत्येवं ब्रह्माक्षरस्य स्वरूपद्वयं सिध्यति।

प्रकटत्वरहस्यम्

अजायमानोऽपि परमात्मा पृथिव्यामवतरतीति “अजायमानो बहुधा विजायते”161 इत्येनेन वेद उद्घोषः। गीतायामपि भगवदवतरणं तद्धेतुरित्यादिकं प्रदर्शितम्।162 एवं धरायां प्रकटो भगवानेवानन्यतया सेवनीय इति गीतादिस्मृतिशास्त्रेषु स्फुटं निर्दिष्टम्।163 स एव सिद्धान्तं परब्रह्मस्वामिनारायणो वचनामृतशास्त्रे ददर्श। यथा - “यादृशं च भगवतः परोक्षाणां रामकृष्णाद्यवताराणां माहात्म्यं विजानाति, यादृशं च विजानाति नारद-सनकादि-शुकदेव-­जडभरत-हनुमद्-उद्धवेत्यादिपरोक्षसाधूनां माहात्म्यं, तादृशमेव प्रत्यक्षभगवतस्तद्भगवद्भक्त­साधोश्च माहात्म्यं विजानीयात्, तर्हि कल्याणमार्गे न किमपि तस्य विज्ञेयतयाऽवशिष्टम्। एनां च वार्तां सकृदुपदेशेन निबोधताऽथवा लक्षकृत्व उपदेशेन निबोधत, अद्य निबोधताऽथवा लक्षवर्षाऽनन्तरं निबोधत किन्तु तन्निबोधनेनैव मुक्तिः शक्यसम्भवा। ... यस्य चैतावान् दृढनिश्चयः सम्पन्नस्तस्य सर्वं हार्दं हस्तगतं, स च कदापि कल्याणमार्गान्न भ्रश्येत्।”164 एवं परमहंसा अप्यमुमेव सिद्धान्तं दर्शयामासुः। तत्र मुक्तानन्दस्वामी भैरवरागबद्धपद्यरचनायां जगौ -

“प्रीत कर प्रीत कर प्रगट परब्रह्म सु, परहर अवर पंपाळ प्राणी;

परोक्षथी भव तणो पार आवे नहीं, वेद वेदान्त कहे सत्य वाणी.

कल्पतरु सर्वना संकल्प सत्य करे, पासे जई प्रीतसु सेवे ज्यारे;

तेम जे प्रगट पुरुषोत्तम प्रीछशे, थाशे हरिजन तत्काळ त्यारे.

प्रगटने भजी भजी पार पाम्या घणा, गीध गणिका कपिवृंद कोटि;

व्रज तणी नार व्यभिचारभावे तरी, प्रगट उपासना सौथी मोटी.

स्वामिनारायण नामने परहरि, जार भजनार सर्वे ख्वार थाशे;

कहे छे मुक्तानंद प्रगट भज प्राणिया, अघ तणा ओघ तत्काळ जाशे.”165

“भजन कर भावशुं प्रगट परब्रह्मनुं, राख हरिरूपमां मन तारुं;

प्रगटना भजनथी परम सुख पामीए, उर थकी नाश पामे अंधारुं.”166

“पुरुषोत्तम तमे प्रगट मुजने मळ्या, आज आनंदना ओघ मारे;”167

अत्र प्रकटपरमात्मनि स्वामिनारायणभगवत्येव प्रीतिर्विधातव्या। एष प्रत्यक्षप्रभुस्त्वाध्यात्मिकः कल्पवृक्षः, तस्मात् सर्वान् सद्गुणान् सम्पाद्य हरिभक्तेन भाव्यत इत्येवमुक्तम्। ततश्च रामायणभागवतादिसच्छास्त्रेषु लिखितानां जटायु-सैरन्ध्री-कपिवृन्द-­गोप्यादीनां भक्तानां निर्देशेनापि साधितमेतन्मर्म। स्वयमपि प्रत्यक्षपरमात्मानं श्रीहरिं सम्प्राप्य पूर्णकामत्वं गत इत्यपि स्वीचकारैष मुनिवरः। भूयश्च कीर्तनान्तरेष्वप्येतदेव रहस्यमयमेव परमहंसः पुनरावर्तयत् -

“प्रगट के गुन गावे रे हम, प्रगट दरश कुं पावे...

प्रगट विना जे भूत भविष्य है, सो सुपने में न भावे...

प्रगट भक्ति अरु प्रगट प्राप्ति, प्रगट विना मन नावे...

प्रगट मोक्ष का पंथ बतावे, प्रगट भाव उर लावे...

प्रगट नवल प्रभु प्रगट प्रेमरस, प्रगट सो भर भर पावे...

प्रगट प्रमाण प्राणजीवन पर, दास मुकुंद बल जावे...”168

“प्रगट बिना क्यों सुख पावे, बहु विधि बात बनावे...

साचे सदगुरु बिन सब दुनिया, कथी कथी कर्म करावे...”169

अत्र प्रकटपरमात्मनश्चरित्रगुणादिगानेनैवानन्दमनुभूयते, न तद्विनेत्येवमुवाच। तथैव ब्रह्मानन्दस्वामी प्रकटपरमात्मानमुपासीनेभ्यो धन्यवादान् प्रायच्छत्। यथा -

“प्रगट स्वरूप उपासी, धन सो प्रगट स्वरूप उपासी”170

एवं प्रकटोपासकानां माहात्म्यकथनेनान्यानपि जनान् तादृशोपासनायां प्रैरयत्।

एवमेव निष्कुलानन्दस्वामी स्वपद्ये प्रत्यक्षपरमात्माश्रयमाहात्म्यदर्शनाय केवलपरोक्षस्वरूप्रीतिमत्त्वं निराकर्तुमाह -

“परोक्ष भक्त रे पामे नहीं प्रापति रे, जीवनी जराय जंपे नहि झाळ;

पूरण थयानी रे प्रतीति नव पडे रे, संशयवत रहे सदाकाळ रे...”171

अत्र केवलपरोक्षस्वरूपाऽऽकाङ्क्षी न शांतिमवाप्नोति न सुखं न पूर्णकामत्वं न वा निःशंयत्वमित्येवं परमात्मनः प्रत्यक्षस्वरूपेणैव लभ्यत एतत्सर्वमित्येवं दर्शितं प्रकटमाहात्म्यम्। ननु परब्रह्मस्वामिनारायणस्तु ऋत्वष्टवसुभूमित आषाढीयसंवत्सरेऽन्तरधात्। न तत्पश्चात् कोऽपि तं शक्नुयात् चर्मचक्षुणा द्रष्टुम्। प्रत्यक्षस्य त्विन्द्रियगोचरत्वेनैव सिद्धेः कथमिदानीं सम्भवेत् परमात्मप्रत्यक्षत्वमिति चेद्, बाढम्, चर्मचक्षुणा तस्यैव रूपस्यागोचरत्वादपि स्वरूपान्तरद्वारा स्वप्राकट्यमखण्डितं स्यात् तथैव स्वेनैव व्यवस्थापनात्। तथा हि स्वयमेव परमात्मा वचनामृते वक्ति - “जीवेनाऽनेन यदा भरतखण्डे मनुष्यदेहोऽवाप्यते तदा भगवदवतारो भगवत्साधुर्वाऽवश्यं पृथिव्यां विचरन् स्यात्; तं यदि जीवोऽयं परिचिनुयात्, तर्हि स जीवः सञ्जायते भगवद्भक्तः।”172 एवमस्यां भूम्यां परमात्मा व्यतिरेकत्वेन साधौ वाऽन्वयत्वेन प्रकट एवावतिष्ठतीति सिद्धान्तयति।173 एतदेव मर्म निष्कुलानन्दस्वाम्यपि भक्तचिन्तामणिग्रन्थ उल्लिलेख। तत्र गढडाग्रामे ज्ञानगोष्ठीप्रसङ्गे श्रीहरिः परमहंसेभ्य उवाच -

“प्रगटरूपे सतसंगमां, रहुं छुं रूडी पेर;

वळी अवनीए अवतार लहुं, नृप योगी विप्रने घेर”174

अत्र ‘रूडी पेर’ शब्दः परमात्माऽखण्डितप्राकट्यवैशिष्ट्यं द्योतयति। तदेतद्रहस्यं विज्ञापयन् महन्तस्वामिमहाराजो वक्ति - “ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा। सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥ प्रीतिः कार्याऽऽत्मबुद्धिश्च ब्रह्माऽक्षरे गुरौ दृढा। प्रत्यक्षभगवद्भावात् सेव्यो ध्येयः स भक्तितः॥”175 एवमक्षरब्रह्मगुरुं द्वारीकृत्य परमात्मा सदैव प्रकट एवावतिष्ठतीति मर्म।176 अत एव प्रत्यक्षत्वं गुरुमहिमवचनमित्यनयोर्द्वयोर्मध्ये प्रगाढसम्बन्धो विद्यते। कथमिति चेच्छ्रुणोतु। भक्तचिन्तामणिग्रन्थे प्रत्यक्षमाहात्म्यकथने निष्कुलानन्दस्वाम्यवोचत् -

“जाणो प्रगटमूर्ति भवपाज रे, से’जे उतरवानो समाज रे;

जेम सागर तरवा नाव रे, ते विना बीजो नथी उपाय रे”177

अत्र प्रत्यक्षपरमात्मानं नौकारूपेण निर्दिश्य स एव संसाराब्धितरणोपायत्वेनोक्तः। तद्विना चोपायान्तरं निषिद्धमपि। स एव च निष्कुलानन्दस्वामी स्वरचितवचनविधिग्रन्थे साधुमाहात्म्यकथनावसर उक्तवान् -

“जेम नाव विना निरनिधिमां, नथी तरवा अन्य उपाय;

तेम संत विना संसार तरवा, शीद इच्छे कोई उरमांय.”178

अर्थाद् गुणातीतः साधुरेव संसारसागरतरणाय नौकातुल्यः। नास्त्युपायस्तद्विनेति। एतदेवास्ति विज्ञापनम्। एकस्यैव कार्यस्याऽनन्यतयैकत्र प्रकटपरमात्मन्यन्यत्र च गुणातीतसाधौ संयुक्तत्वात् स साधुः प्रकटपरमात्मत्वेन निर्दिष्ट इति शक्यते वक्तुम्। एवमेव पुनरधोलिखितपङ्किद्वयमपि तत्र प्रमाणम् -

“जेम प्रगट रवि होय ज्यारे रे, जाय तम ब्रह्मांडनुं त्यारे रे...

तेम प्रगट मळे भगवान रे, त्यारे जननुं कल्याण निदार रे”179

“जेम रवि विनानी रजनी, जाणो नथी जावानी जरूर;

तेम संत विना अज्ञान अंधारुं के’दि न थाय दूर.”180

एवमेकत्र प्रकटपरमात्मानमादित्यत्वेन निर्दिश्य तेनैवाज्ञानतमोऽपगच्छतीत्युक्तमन्यत्र च गुणातीतः साधू रविरूपेण दर्शितस्तेनैव चाज्ञानान्धकारो नश्यतीति गदितम्। एवं पूर्ववदेव द्वयोः सामञ्जस्येन साधुः प्रकटभगवानिति। भूयश्च शब्दान्तरैरप्ययमेव सिद्धान्तो दृढायते यथा -

“परोक्षथी भव तणो पार आवे नहीं, वेद वेदान्त कहे सत्य वाणी”181

“जेम प्रगट अन्नने जमे रे, अंतर जठराझाळ विरमे रे;

माटे प्रगट प्रभु जो न होय रे, न थाय ए निष्पाप कोय रे.”182

“जेने वा’ली लागी संत वात रे, राख्या नि’म थई रळियात रे;

तेने तन छूटे ततकाळ रे, आवे तेळवा दीनदयाळ रे.

तेने आपे अक्षरमां वास रे, महासुख पामे छे ते दास रे”183

एवमेकत्राऽऽत्यन्तिकमुक्तिहेतुभूतः प्रकटपरमात्माऽन्यत्र च गुणातीतसत्पुरुषस्योपदेशग्रहण-­तदाज्ञापालनमात्रेण मुमुक्षुरक्षरधामाऽवाप्नोतीति गदितम्। एवमनेकसन्दर्भद्वारा परमात्मप्राकट्यविषये श्रीहरेः परमहंसानां च मर्म ज्ञातुं शक्यते। अत एव निष्कुलानन्दस्वामी भक्तचिन्तामणिग्रन्थे परब्रह्मस्वामिनारायणस्य स्वधामगमनवर्णनादन्वपि लिलेख -

“प्रगट वातो प्रगट व्रतमान रे, प्रगट भक्त प्रगट भगवान रे;

नथी उधारानी एके वात रे, जे जे जोईए ते ते साक्षात रे...

माटे प्रगट जोईए भगवंत रे, एवुं सर्वे ग्रंथनुं सिद्धंत रे;

जेम प्रगट रवि होय ज्यारे रे, जाय तम ब्रह्मांडनुं त्यारे रे.

जेम प्रगट जळने पामी रे, जाय प्यासीनी प्यास ते वामी रे;

जेम प्रगट अन्नने जमे रे, अंतर जठराझाळ विरमे रे.

तेम प्रगट मळे भगवान रे, त्यारे जननुं कल्याण निदार रे;

माटे प्रगट चरित्र सांभळवुं रे, होय प्रगट त्यां आवी मळवुं रे.

ज्यां होय प्रभु प्रगट प्रमाण रे, तियां जननुं सहेजे कल्याण रे;

कान पवित्र थाय ते वारे रे, सुणे प्रगटना जश त्यारे रे...

माटे प्रगट प्रभु जो न होय रे, न थाय ए निष्पाप कोय रे”184

अतो यद्यपि परब्रह्मस्वामिनारायणस्तेनैवाकारेण न चर्मचक्षुणा दृश्यते तथापि गुणातीतसत्पुरुषद्वारा सदैव प्रकट एव स्थितः स्थास्यति चेति निष्कुलानन्दमुनिर्दर्शयामास। ननु गुणातीतसत्पुरुषोऽयं तत्त्वतो ब्रह्माक्षरमेवेति कथमवगम्येतेति चेत्, सत्पुरुषवचोभिरिति ब्रूमः। तदेवोक्तं पुरा महन्तस्वामिमहाराजवचनेन। पुनश्च तत् परमहंसानां कीर्तनेष्वप्यवलोक्यते।

प्रेमानन्दस्वामी ब्रह्मानन्दस्वामी च विषयेऽस्मिन् श्रीहरिकथितं स्वपद्ये प्रकाशयाञ्चक्राते -

“रे अक्षर अनंत कळा धारे, रे अगणित रूप थाउं त्यारे, मुने जीव पामे एणे द्वारे...”185

अक्षर शक्ति अनुसारी रे, ब्रह्मांड प्रत्ये छबि मारी रे...

बहु अक्षर कला विस्तारे रे, धरुं अनंत मूर्ति त्यारे रे...

ज्यारे लीन अक्षर मुं माही रे, शोभे एक रूप सदाई रे...”186

अक्षरपुरुषोत्तमदर्शनानुसारं परब्रह्मस्वामिनारायणः स्वयमन्तर्धानमन्वपि ब्रह्माक्षरगुरुद्वारा प्रकटो वर्तते। एवमक्षरब्रह्म पृथिव्यां कालक्रमानुसारं विभिन्नाकारेण दृश्यते (अक्षर अनंत कळा धारे)। तद्द्वारा च परमत्मा प्राप्यते (मुने जीव पामे एणे द्वारे)। अक्षरब्रह्म परमात्मनिवसनाय सम्यक् पात्रमस्ति। अतः सकलैश्वर्यसम्पन्नः परमात्मा तत्र तिष्ठति (अक्षर शक्ति अनुसारी रे, ब्रह्मांड प्रत्ये छबि मारी रे)। अनन्तकोटिब्रह्माण्डेष्वेषैव रीतिः (बहु अक्षर कला विस्तारे रे, धरुं अनंत मूर्ति त्यारे रे)। परमात्मा ब्रह्माक्षरं लीनीकृत्य धरायां विचरति (ज्यारे लीन अक्षर मुं माही रे, शोभे एक रूप सदाई रे) त्येवं कीर्तेषूक्ताः शब्दा एवेदं दर्शनं परिपोषयन्ति।

गुरुमहिमा

वचनामृतशास्त्रे क्वचित् साधुशब्देन क्वचिद्वा सच्छब्देन क्वचिद् भक्तशब्देन क्वचिद्वा महापुरुषसब्देन गुणातीतसत्पुरुषस्य माहात्म्यं कथितम्। यथा “तदीये नेत्रेऽस्ति भगवान् द्रष्टा, अतो ब्रह्माण्डे यावन्तो जीवप्राणिनो विद्यन्ते, तेषां नेत्राणि प्रकाशयितुं भवति समर्थः; तस्य च चरणे भगवाँश्चलिता, अतो ब्रह्माण्डस्थसर्वजीवानां चरणेषु चलनशक्तिं पोषयितुं स समर्थः सम्पद्यते; इत्थं तत्साधोः सर्वेन्द्रियेषु भगवान् अवस्थित इत्यतः स साधुस्तु ब्रह्माण्डस्थसर्व­जीवानामिन्द्रियाणि प्रकाशयितुं समर्थो भवति। अतः स साधुस्तु सर्वजगदाधाररूपः”187 “यदा च तादृक्साधोर्दर्शनं जातं तदा विज्ञेयं यत्, ‘सम्पन्नं मे साक्षाद् भगवतो दर्शनम्’ इति।”188 “अथ चैतादृशोऽयं साधुर्यद्यपि मनुष्यस्तथापि भगवानिव सेवनाऽर्हः।”189 “एवंविधसाधवे द्रुह्येत् तर्हि प्रसज्यते भगवद्द्रोहतुल्यं पापम्, अथ तादृक्साधुं सेवेत तर्हि भवेद् भगवत्सेवातुल्यं फलम्।”190 इत्यादिषु। अथैष एव सिद्धान्तः परमहंसैरपि दृढायितः। निष्कुलानन्दस्वामी कथयामास -

“धन्य धन्य ए संत सुजाणने, जेनुं ऊलटी पलट्युं आप... संत ते स्वयं हरि

आप टळी मळ्या भगवानमां, जेना आपमां हरिनो व्याप...

जेना शीशमां शिश छे श्यामनुं, जेना नेणमां नाथनां नेण...

जेना मुखमां मुख महाराजनुं, जेना वेणमां वालानां वेण...

जेना कानमां कान छे कृष्णना, जेना नाकमां नासिका नाथ...

जेनी जीभामां जीभा जीवननी, जेना हाथमां हरिना हाथ...

जेना हृदयमां हृदय हरि तणुं, जेना पावमां प्रभुना पाव...

जेम हीरो जीरा वडे वेंधीए, तेम थयो ते सहज समाव...

एम संतमां रह्या छे श्रीहरि, माटे संत छे सुखनुं धाम...

धर्म भक्ति वैराग्य ने ज्ञान जे, तेने रहेवानुं संत छे ठाम...”191

एवमत्र गढडाप्रथमप्रकरणस्य सप्तविंशवचनामृतस्यैव मर्मानूभयते। परमात्मनः सम्यङ्निवसनात् स साधुरपि परमात्मतुल्यत्वमेव गण्यत इत्यत्र दर्श्यते। परमात्मा स्वयमेव यदुपादिशत् तदेव निष्कुलानन्दस्वामी पुरुषोत्तमप्रकाशग्रन्थस्य पङ्किषु लिखितवान्। यथा -

“संत बोले ते भेळो हुं बोलुं रे, संत न भूले हुंये न भूलुं रे;

संत वात भेळी करुं वात रे, एम संतमां रहुं साक्षात रे.

संत जुवे ते भेळो हुं जोउं रे, संत सुता पछी हुं सोउं रे;

संत जागे ते भेळो हुं जागुं रे, संत जोई अति अनुरागुं रे.

संत जमे ते भेळो हुं जमुं रे, संत भमे ते केडे हुं भमुं रे;

संत दुःखाणे हुं दुःखाणो रे, एह वात सत्य जन जाणो रे.

संत हुं ने हुं ते वळी संत रे, एम श्रीमुखे कहे भगवंत रे;

संत मानजो मारी मूरति रे, एमां फेर नथी एक रति रे...

कह्युं श्रीमुखे एम महाराज रे”192

अत एव मुक्तानन्दस्वाम्यपि तदेव रहस्यमज्ञापयत् -

“हरि सम हरिजन जाणवा, मुक्तानंद कहे रे ते तरे ततखेव”193

“मुक्तानंद कहे रे साचा संत छे देव”194

एवं गुरुमहिमकथनद्वारा प्रकटत्वरहस्यमप्युद्घाट्यते। यतो हि सत्पुरुष एव भगवतः स्वरूपमस्ति। परमात्मा चाऽक्षरब्रह्मसत्पुरुषद्वारा प्रकटोऽवतिष्ठते। तादृशसाधोरेतादृङ्महिमा। इदं रहस्यं वेदेऽप्युपलभ्यते। यथा श्वेताश्वतरोपनिषत् कथयामास “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥”195 इति। एतच्छास्त्रस्यार्थो वचनामृते कथितः यथा - “तदुक्तं श्रुतौ, ‘परोक्षे देवे जीवस्य यादृशी प्रतीतिर्विद्यते तादृशी यदि प्रत्यक्षगुरुरूपहरौ सम्पद्येत, तर्हि यावन्तोऽर्थाः प्राप्तव्यतयोक्तास्तावन्तः सर्वेऽर्थास्तेन प्राप्यन्ते’ इति।”196 तदेतदेव मर्म मुक्तानन्दस्वामी पद्येऽङ्कयत् -

“एवा गुरुदेव रे गोविंद सम जाणीए रे, जेने संगे पामीए भवजळ पार रे”197

अर्थाद्, गुणातीतो गुरुदेवः परमात्मतुल्यो विज्ञेय इति। एवं परमहंसाः श्रुतिमूलकं वचनामृतप्रतिपादितं च सिद्धान्तं तनोतीत्यवगम्यते।

अक्षरपुरुषोत्तमयोरातिवाहिकत्वम्

अतिवाहे इहलोकात् परलोकप्रापणे नेता कथ्यत आतिवाहिकः। प्रत्यक्षपरमात्मभक्तानामन्तकाले साक्षात् परमात्माऽक्षरब्रह्म चेत्यातिवाहिकत्वेन समागत्य ब्रह्मरूपं भक्तं स्वाक्षरधाम नयत इत्युक्तं श्रीहरिणा - “अथ ज्ञानिना भगवद्भक्तेन त्वन्तकाले विलोक्यते भगवान् भगवत्साधुर्वा, तेनाऽपि देहविस्मृत्यनन्तरं प्राप्यते मूर्च्छावस्था; ततो देहं विमुच्य पृथग्भवति तदा तद्भक्ताय भगवान् भागवतीं तनुं प्रयच्छति, तेन च देहेन स भगवद्धामनि निवसति।”198 इति वचनेन। एवमत्र भगवत्पदेन पुरुषोत्तमः साधुपदेन चाक्षरब्रह्म ज्ञेयम्। एष एव सिद्धान्तो भक्तचिन्तामणिग्रन्थे निष्कुलानन्दस्वामी परब्रह्ममुखादेव लिलेख -

“मारा जनने अंतकाळे, जरूर मारे आववुं;

बिरुद मारुं ए न बदले सरवे जनने जणाववुं”199

अत्र स्वभक्तस्याऽन्तकाले स्वधाम नेतुं श्रीहरिरवश्यमागच्छतीत्युक्तम्।

एवं च मुक्तानन्दस्वाम्यपि कथितवान् -

“अंतकाळे आवुं दास कने, रथ अश्व विमान वा संततने”200

अत्र ‘संततने’ इति शब्देन साधुवपुषेत्यर्थः सम्पद्यते। अनेन परमात्मा क्वचिदक्षरब्रह्म­सत्पुरुष­द्वाराऽपि स्वभक्तान् नेतुमायातीत्यप्युक्तम्। एवं कीर्तनपङ्किद्वाराऽक्षर­पुरुषोत्तमयोरातिवाहिकत्वं सिध्यति।

उपसंहार

इत्थं परब्रह्मस्वामिनारायणेन वचनामृते स्फुटमक्षरपुरुषोत्तम­दर्शनमुद्घोषितम्। प्रत्येकस्मिन् वचनामृते - स्वमुखारविन्दस्य पुरस्तात् मुनीनां देशदेशान्तरतः समागतानां हरिभक्तानां सभा सञ्जाता। - इत्येवमेतादृशं वा वर्णनमुपलभ्यते। तेन सभायां परम­हंसानामुपस्थितिस्त्वनिवार्यत्वेनासीदेवेति शक्यते वक्तुम्। किञ्च मुक्तानन्दस्वामी तु वचनामृतसम्पादकेभ्य एकतमः। अतो निःस्वार्थतया परब्रह्मस्वामिनारायणमेवाश्रिता एते स्वोपास्येष्टदेवस्याऽभिप्रायं विश्रुत्य, स सिद्धान्तः कथं सकलजनसुलभो भवेदिति धिया कीर्तनमाध्यमेन प्रसारयामासुः। तेनैवात्रैतत्सिद्धान्तमालास्थितेषु नैकमौक्तिकेषु पञ्चतत्त्वप्रबोधनम्, अक्षरं पुरुषोत्तमश्चेति तत्त्वयोर्नित्यं भेदः पुरुषोत्तमस्य चाऽक्षरात् परत्वम्, अक्षररूपत्वं पुरुषोत्तमोपासनं च, परब्रह्म स्वामिनारायण उपास्यः, अक्षरब्रह्मस्वरूपम् - स्वरूपचतुष्टयम्, प्रकटत्वरहस्यम्, गुरुमहिमा तद्ध्यानं च, अक्षर­पुरुषोत्तमयोरातिवाहिकत्वमित्येते कतिचन विषयमौक्तिकाः समीक्षिताः। तत्रानुभूतं यद् वचनामृतसिद्धान्तमेवानुसृत्य कीर्तन­पङ्क्तिष्वक्षर­पुरुषोत्तम­दर्शनमनुस्यूतमस्ति। एवं भवति वचनामृतपद्यसाहित्ययोश्च सामञ्जस्यमिति।

सङ्केतसूचिः

वच. वचनामृतम्

वच.ग.प्र. गढडाप्रथमप्रकरणम्

वच.ग.म. गढडामध्यप्रकरणम्

वच.ग.अ. गढडाअन्त्यप्रकरणम्

वच.सा. सारङ्गपुरप्रकरणम्

वच.वर. वरतालप्रकरणम्

वच.लो. लोयाप्रकरणम्

सन्दर्भग्रन्थसूचिः

कृष्णद्वैपायनव्यासः. श्रीमद्भागवत-महापुराणम्. Edited by श्रीगिरिराजः शास्त्री, १, vol. १, श्रीमाधव सेवा प्रकाशन समिति, स.२०५३, श्रीरङ्गनाथ रथोत्सव.

केशवप्रसादशर्म्मद्विवेदि, editor. पाण्डवगीता. 1st Edition, श्रीवेङ्कटेश्वर, १८२२.

तारानाथतर्कवाचस्पतिभट्टाचार्यः, editor. वाचस्पत्यम्. ४, vol. ५, चौखम्बा विद्याभवन, १९९०.

परब्रह्म श्रीस्वामिनारायण. वचनामृतसङ्ग्रहः. Edited by साधुर्ज्ञानतृप्तदासःआचार्यः, Translated by साधुर्ब्रह्ममननदासःआचार्यः, २, स्वामिनारायण अक्षरपीठ शाहीबाग, अमदावाद, सितम्बर, २०२३.

भट्टाचार्यःश्रीपादशर्मा, editor. ऋग्वेदसंहिता. २, वसन्त-श्रीपाद-सातवळेकरः, भारतमुद्रणालयम्, १९४०.

महन्तस्वामिमहाराजःप्रकटब्रह्मस्वरूप. सत्सङ्गदीक्षा. 1st Edition, स्वामिनारायण अक्षरपीठ शाहीबाग, अमदावाद, 2020.

महाकविकालिदासः. रघुवंशम् (मल्लिनाथकृतसञ्जिविनी-व्याख्या-समलङ्कृतम्, चन्द्रकला - हिन्दीव्याख्योपेतम्). २, चौखम्बा विद्याभवन, २०११.

रामस्वरूपशर्मा गौडः. सामवेदसंहिता. २, चौखम्बा विद्याभवन, १९८९.

वासुदेवशर्मा, editor. श्रीमद्वाजसनेयिमाध्यन्दिन-शुक्लयजुर्वेदसंहिता. २, पाण्डुरङ्ग जावाजी, निर्णयसागरमुद्रणालयः, १९२९.

शतानन्दमुनिः. श्रीहरिवाक्यसुधासिन्धुः. 1st Edition, आर्ष, अक्षरधाम, 2010.

श्रीपादशर्मा. अथर्ववेदसंहिता. वसन्त-श्रीपाद-सातवळेकरः, भारतमुद्रणालयम्, १९४३.

श्रीभजनसागर. १, vol. १, सस्तु साहित्य वर्धक कार्यालय, सं.१९९८.

साधुभद्रेशदासःमहामहोपाध्यायः. ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.

---. छान्दोग्योपनिषत्स्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१२.

---. बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.

---. ब्रह्मसूत्रस्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.

---. श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम्. २, स्वामिनारायण अक्षरपीठ, जुलाई २०१९.

---. स्वामिनारायणसिद्धान्तसुधा. ३, स्वामिनारायण अक्षरपीठ, दिसम्बर, २०२२.

આધારાનંદ સ્વામી. શ્રીહરિચરિત્રામૃતસાગર. Edited by શાસ્ત્રી જ્ઞાનપ્રકાશદાસ, ૧, vol. ૧૨, શાસ્ત્રી હરિપ્રકાશદાસ, શ્રીસ્વામિનારાયણ સાહિત્ય પ્રકાશન મંદિર, ૧૨-૬-૨૦૧૧.

નિષ્કુળાનંદ સ્વામી, સદ્ગુરુ શ્રી. ભક્તચિંતામણિ. ૪, સ્વામિનારાયણ અક્ષરપીઠ, શાહીબાગ.

---. શ્રી નિષ્કુળાનંદ કાવ્ય. ૩, શ્રી સ્વામિનારાયણ ગુરુકુલ - રાજકોટ, ૨૩ જાન્યુઆરી, ૨૦૦૭.

પરમહંસો, પરબ્રહ્મ સ્વામિનારાયણના આશ્રિત. કીર્તન મુક્તાવલિ ભાગ-૧. ૨૦, vol. ૧, સ્વામિનારાયણ અક્ષરપીઠ, શાહીબાગ, ફેબ્રુઆરી, ૨૦૧૬.

---. કીર્તન મુક્તાવલિ ભાગ-૨. ૧૦, vol. ૨, બી.એ.પી.એસ. સ્વામિનારાયણ સંસ્થા, જાન્યુઆરી, ૨૦૧૫.

---. કીર્તનાવલિ હજારી. 4th ed., શ્રી સ્વામિનારાયણ ગુરુકુલ - રાજકોટ, શ્રીકૃષ્ણ જયંતી, સં. ૨૦૨૪.

પ્રેમાનંદ સ્વામી. શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૧. મહંત પુરાણી સ્વામી હરિસ્વરૂપદાસજી, શ્રી સ્વામિનારાયણ મંદિર, ભુજ, ૨૭ એપ્રિલ, ૧૯૯૩.

---. શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૨. ૨, vol. ૨, મહંત પુરાણી સ્વામી હરિસ્વરૂપદાસજી, શ્રી સ્વામિનારાયણ મંદિર, ભુજ, ૩૦ જૂન, ૧૯૯૫.

બ્રહ્માનંદ સ્વામી. શ્રી બ્રહ્માનંદ કાવ્ય. Edited by રાજકવિ માવદાનજી, ૩, vol. ૧, શ્રી ચંદુલાલ પ્રભાશંકર દવે તથા શ્રી વલ્લભદાસ ઓઘડલાલ, મુંબઈ, વસંત પંચમી, સં.૨૦૨૩.

ભક્ત સુરદાસનાં પદો. ૮, રમણલાલ માણેકલાલ ભટ્ટ, સસ્તું સાહિત્ય મુદ્રણાલય, ૧૯૮૭.

ભગવાન શ્રીસ્વામિનારાયણ. વચનામૃત. 6th ed., સ્વામિનારાયણ અક્ષરપીઠ, શાહીબાગ, 2005.

મહંતસ્વામી મહારાજ, પ્રગટ બ્રહ્મસ્વરૂપ. સત્સંગદીક્ષા. Translated by સાધુ ભદ્રેશદાસ મહામહોપાધ્યાય, 1st ed., સ્વામિનારાયણ અક્ષરપીઠ, શાહીબાગ, 2020.

મુક્તાનંદ સ્વામી. કીર્તનમુક્તાહારમ્. Edited by પ્રભુસ્વામી, શાસ્ત્રી પુરુષોત્તમવલ્લભદાસજી, શ્રી સ્વામિનારાયણ મંદિર, જૂનાગઢ, અક્ષયતૃતીયા, સં. ૨૦૪૩.

રઘુવીર ચૌધરી, editor. સ્વામિનારાયણ સંતસાહિત્ય. ૧, બોચાસણવાસી શ્રી અક્ષરપુરુષોત્તમ સંસ્થા, ફેબ્રુઆરી, ૧૯૮૧.

શ્રીસ્વામિનારાયણ ભગવાન. વચનામૃત. 6th ed., સ્વામિનારાયણ અક્ષરપીઠ, શાહીબાગ, 2005.

સાધુ ઈશ્વરચરણદાસ. સત્સંગ વાચનમાળા ભાગ-૧. ૧૫, vol. ૧, બી.એ.પી.એસ. સ્વામિનારાયણ સંસ્થા, ડિસેમ્બર ૨૦૧૬.

---. સત્સંગ વાચનમાળા ભાગ-૩. ૮, vol. ૩, બી.એ.પી.એસ. સ્વામિનારાયણ સંસ્થા.

સાધુ ભગવત્પ્રિયદાસ. સત્સંગ વાચનમાળા ભાગ-૨. ૧૩, vol. ૨, બી.એ.પી.એસ. સ્વામિનારાયણ સંસ્થા, ડિસેમ્બર ૨૦૧૬.

सन्दर्भसूचिः

1 “साम्प्रतिकाः सर्वे हरिभक्ता एवमवगच्छन्ति यद्, ‘अक्षरातीतः पुरुषोत्तमो भगवान् ह्यस्माभिः प्रत्यक्षं प्राप्तः, वयं च कृतार्थाः’ इत्येवमवगम्य प्रत्यक्ष­भगवदाज्ञायां वर्तमानास्तद्भगवतो भक्तिमनुतिष्ठन्तीति।” (परब्रह्म श्रीस्वामिनारायण २२)

2 “परब्रह्मस्वामिनारायणप्रबोधित-अक्षरपुरुषोत्तमदर्शनप्रतिपादकं शास्त्रम्” (साधुभद्रेशदासः, छान्दोग्योप­­निषत्स्वामिनारायणभाष्यम्; साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम्; साधुभद्रेशदासः, ब्रह्मसूत्रस्वामिनारायणभाष्यम्; साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम्; साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा)

3 (આધારાનંદ સ્વામી ૭૮૪૭)

4 (भक्तचिन्तामणिः, चोसठपदी, पुरुषोत्तमप्रकाशः, भक्तिनिधिः, सारसिद्धिः, हरिबळगीता, धीरजाख्यानम्, वचनविधिः, स्नेहगीता, कीर्तनाऽष्टकानि, कीर्तनचतुष्टयानि, नैकानि च विभक्तानि कीर्तनानीत्यादिकम्), (મુક્તાનંદ સ્વામી; પરમહંસો, કીર્તનાવલિ હજારી; નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ; નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય; બ્રહ્માનંદ સ્વામી; પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૧; પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૨; પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧; પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૨)

5 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૫)

6 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૫)

7 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૪)

8 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૪)

9 “બ્રહ્મ હોય પરબ્રહ્મ ઉપાસત” (બ્રહ્માનંદ સ્વામી ૩૭૯)

10 (तारानाथतर्कवाचस्पतिभट्टाचार्यः ४२३०)

11 (ऋग्वेदसंहिता १०/९०/१,३,५) (भट्टाचार्यः ७०६)

12 (शुक्लयजुर्वेदसंहिता ३१/१,३,५) (वासुदेवशर्मा ५२३-५२५)

13 (सामवेदसंहिता १/६/४/३,६-७) (रामस्वरूपशर्मा गौडः ३३३-३३६)

14 (अथर्ववेदसंहिता १९/६/१,३) (श्रीपादशर्मा ३६२)

15 (कठोपनिषद् २/१६-१७) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १०३-१११)

16 (कठोपनिषद् ३/११) (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् १२८)

17 (श्रीमद्भगवद्गीता ८/२१) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् १८९)

18 (श्रीमद्भगवद्गीता १५/१८) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् ३१४)

19 “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः। तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि॥” (श्रीमद्भागवतम् १/१/१) (कृष्णद्वैपायनव्यासः ३७) इत्यादिसन्दर्भैः सृष्टिकारणत्व-परमात्मव्यापकत्व-तत्प्रत्यक्षत्वादिविषया वर्णयाञ्चक्रिरे।

20 यथा वैराग्यशतके भर्तृहरिणा जगतो नाशवत्त्वमुक्त्वा प्रकृतिस्वरूपमुद्घाटितम्। रघुवंशे “भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥” (रघुवंशम् १४/६६) (महाकविकालिदासः ४८५) इत्यनेन पुनर्जन्मसिद्धान्तो दृढीकृतः।

21 (श्रीभजनसागर ५११)

22 (ભક્ત સુરદાસનાં પદો ૨૬)

23 भक्तचिन्तामणीत्यादयो ग्रन्थाः (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ)

24 श्रीहरिवाक्यसुधासिन्धुः (शतानन्दमुनिः)

25 पुरुषोत्तमप्रकाशादिकानि शास्त्राणि (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય)

26 धर्मकुंवर हरिकृष्णजी इत्यादिकीर्तनानि (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૭)

27 चोंसठपदीत्यादिग्रन्थाः (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય)

28 ‘धन्य धन्य ए संत सुजाणने’ इत्यादिकीर्तनानि (પરમહંસો, કીર્તન મુક્તાવલિ ૨૩૭-૨૩૮)

29 (સાધુ ઈશ્વરચરણદાસ, સત્સંગ વાચનમાળા, ભાગ ૩ ૨૬)

30 (સાધુ ઈશ્વરચરણદાસ, સત્સંગ વાચનમાળા ભાગ-૩ ૩૭)

31 (સાધુ ભગવત્પ્રિયદાસ ૧૬)

32 (સાધુ ઈશ્વરચરણદાસ, સત્સંગ વાચનમાળા ભાગ-૧ ૯)

33 (रघुवंशम् १/३) (महाकविकालिदासः ३)

34 (રઘુવીર ચૌધરી ૧૪૬)

35 (વચ.ગ.મ. ૨૮) (શ્રીસ્વામિનારાયણ ૪૨૭)

36 (वच.ग.म. ४८) (परब्रह्म श्रीस्वामिनारायण १७१)

37 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૨૨)

38 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૭૦)

39 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૬૨)

40 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૨૬)

41 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૨ ૪)

42 (રઘુવીર ચૌધરી ૧૩૯)

43 “स्वामिनारायणेनेह सिद्धान्तोऽयं प्रबोधितः...उच्यते दर्शनं दिव्यम् अक्षरपुरुषोत्तमम्॥” (सत्सङ्गदीक्षा १११-­११४) (महन्तस्वामिमहाराजः ३७), “ब्रह्मपरब्रह्मावबोधवैशद्यसमाकर्षितवेदान्तविविदिषु विहगोऽक्षरपुरुषोत्तम­सिद्धान्तैकनादघनः सकलजनपरमानन्दप्रदानव्रतैकनिर्मलगतिः प्रशान्तशीतलो वचनामृतगङ्गानिर्झरोऽयमद्याऽपि पाययत्यस्मानमृतत्वमिति।”) (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा १७४)

44 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૪૪)

45 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૬૩)

46 (वच.ग.प्र. ७) (परब्रह्म श्रीस्वामिनारायण ६)

47 (वच.ग.अ. १०) (परब्रह्म श्रीस्वामिनारायण २११)

48 (મહંતસ્વામી મહારાજ ૧૦૨-૧૦૩)

49 (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૧૫૩)

50 (બ્રહ્માનંદ સ્વામી ૧૩૩), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૫૫)

51 (બ્રહ્માનંદ સ્વામી ૬૬૧-૬૬૨)

52 (મુક્તાનંદ સ્વામી ૩૬૭)

53 (મુક્તાનંદ સ્વામી ૪૨)

54 (મુક્તાનંદ સ્વામી ૨૬૪)

55 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૩)

56 (મુક્તાનંદ સ્વામી ૨૪૧), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૫)

57 “तदिदं दिव्यतत्त्वमक्षरब्रह्मेति शब्दद्वयत एकतरेणोभाभ्यां वा शास्त्रे प्रकीर्तितम्। यथा यम आह ‘एतद्ध्येवाऽक्षरं ब्रह्म’ (कठोपनिषद् २/१६) इति। अङ्गिराः प्रोवाच ‘तदेतदक्षरं ब्रह्म’ (मुण्डकोपनिषद् २/२/२) इति। तैत्तिरीयैः समाम्नातं ‘ब्रह्मविदाप्नोति परम्’ (तैत्तिरीयोपनिषद् २/१/१) इति। माण्डूक्येऽप्युपदिष्टं ‘सर्वं ह्येतद् ब्रह्माऽयमात्मा ब्रह्म’ (माण्डूक्योपनिषद् १/२) इति। गीतायां गीतं ‘एषा ब्राह्मी स्थितिः’ (श्रीमद्भगवद्गीता २/७२), ‘ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्’ (श्रीमद्भगवद्गीता ४/२४) इत्यादि। पार्थश्च प्रार्थयामास ‘किं तद् ब्रह्म’ (श्रीमद्भगवद्गीता ८/१) इति। पार्थगुरुश्चाऽपि सन्तोषयाञ्चकार ‘अक्षरं ब्रह्म परमम्’ (श्रीमद्भगवद्गीता ८/३) इति, ‘ब्रह्मणो हि प्रतिष्ठाऽहम्’ (श्रीमद्भगवद्गीता १४/२७), ‘ब्रह्मभूतः प्रसन्नात्मा’ (श्रीमद्भगवद्गीता १८/५४) इत्यादि चेति। तथा च संग्रहः - क्वचिद् ब्रह्माऽक्षरं क्वाऽपि क्वचित् तदुभयं सह। वेदैश्च वैदिकैश्चैव श्रावितं स्मारितं भृशम्॥ ६६॥” (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा १९-२०)

58 (वच.ग.प्र. ३१) (परब्रह्म श्रीस्वामिनारायण २२)

59 (वच.ग.प्र. ५१) (परब्रह्म श्रीस्वामिनारायण ३८)

60 (वच.ग.प्र. ३३) (परब्रह्म श्रीस्वामिनारायण २४)

61 (वच.ग.प्र. ४१) (परब्रह्म श्रीस्वामिनारायण ३०)

62 (वच.ग.प्र. ६४) (परब्रह्म श्रीस्वामिनारायण ४९)

63 (वच.ग.प्र. ७२) (परब्रह्म श्रीस्वामिनारायण ५५)

64 (પરમહંસો, કીર્તનાવલિ હજારી ૪૧૨)

65 (પરમહંસો, કીર્તનાવલિ હજારી ૪૧૩)

66 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૧૪)

67 (પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૨ ૧૭૫), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૫૩)

68 (પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૨ ૭૬)

69 (પરમહંસો, કીર્તનાવલિ હજારી ૧૯૩), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૩૫)

70 (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૧૫૪)

71 (મુક્તાનંદ સ્વામી ૪૨)

72 (મુક્તાનંદ સ્વામી ૨૬૪)

73 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૩)

74 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૪)

75 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૬)

76 (બ્રહ્માનંદ સ્વામી ૬૯૮)

77 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૯૪)

78 (वच.ग.म. ३) (परब्रह्म श्रीस्वामिनारायण १३५-१३६)

79 (वच.ग.प्र. २१) (परब्रह्म श्रीस्वामिनारायण १५)

80 (वच.लो. ७) (परब्रह्म श्रीस्वामिनारायण १०५)

81 (મુક્તાનંદ સ્વામી ૨૪૧), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૩૫)

82 (बृहदारण्यकोपनिषद् ३/८/१०) (साधुभद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम् १९५)

83 (મુક્તાનંદ સ્વામી ૧૧૬)

84 (મહંતસ્વામી મહારાજ ૨૯૧)

85 “अक्षरमहमित्येवं भक्त्या प्रसन्नचेतसा। पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥” (सत्सङ्गदीक्षा ५७) (महन्तस्वामिमहाराजः १९) “मानेर्ष्याकामक्रोधादिदोषाऽऽवेगो भवेत् तदा। अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥” (सत्सङ्गदीक्षा १५४) (महन्तस्वामिमहाराजः ५१)

86 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૨)

87 (મુક્તાનંદ સ્વામી ૧૩૧)

88 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૮૧)

89 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૮૧)

90 (બ્રહ્માનંદ સ્વામી ૬૬૧-૬૬૨)

91 (બ્રહ્માનંદ સ્વામી ૬૬૧)

92 (મુક્તાનંદ સ્વામી ૨૪૧)

93 “अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति॥” (छान्दोग्योपनिषद् ८/१/१) इति मन्त्रस्य स्वामिनारायणभाष्ये कथितं यत् “अथ विद्याऽऽरम्भद्योतनायेदमथेति। अस्मिन् परिदृश्यमाने ब्रह्मपुरे शरीर इत्यर्थः। द्वारादिसाम्यात् पुरत्वम्। तत्र ब्रह्मणः परब्रह्मणश्च नियामकतयाऽवस्थानाद् ब्रह्मपुरमिति व्यपदेशः। एतादृशब्रह्मपुरशब्दिते शरीरे यदिदं दहरम् अल्पं पुण्डरीकं कमलाकारं हृदयसंज्ञकं वेश्म, अस्मिन् वेश्मनि अन्तः तन्मध्यस्थितो दहरः सूक्ष्म आकाशः आसमन्तात् काशमानोऽक्षरब्रह्माऽभिन्नश्चिदाकाशो वर्तते सः, तथा च तस्मिन् चिदाकाशाख्ये हृदयान्तर्वर्तिनि ब्रह्मणि यदन्तः तदन्तःस्थतया वर्तमानं परं ब्रह्म तत् चेत्युभयम् अन्वेष्टव्यम् तद् उभयं वाव विजिज्ञासितव्यमिति विशेषेण ब्रह्मस्वरूपगुरुसमाश्रयणादिभिर्जिज्ञासितव्यम्।” (साधुभद्रेशदासः, छान्दोग्योप­निषत्स्वामिनारायणभाष्यम् ३४२)

94 (બ્રહ્માનંદ સ્વામી ૬૬૨)

95 (બ્રહ્માનંદ સ્વામી ૬૯૫)

96 “येन अध्यात्मविज्ञानेन ब्रह्मविद्ययेतियावद् अक्षरं ‘तदक्षरमधिगम्यते’ (मुण्डकोपनिषद् १/१/५) इत्यादिनोप­क्रान्तमद्रेश्यत्वादिदिव्यगुणगणजुष्टं ब्रह्मापरनामाऽक्षरतत्त्वं, पुरुषं पुरुषशब्दवाच्यं ‘यत्रामृतः स पुरुषः’ (मुण्डकोपनिषद् १/२/११) इत्यादिनोक्तं, ‘दिव्यो ह्यमूर्तः पुरुषः’ (मुण्डकोपनिषद् २/१/२) इत्यादौ च वक्ष्यमाणं पुरुषोत्तमतत्त्वं सत्यं यथावदित्यर्थः। यद्वा सत्यमिति द्वयोर्विशेषणं नित्यमविकृतमक्षरं पुरुषं चेत्यर्थः। वेद जानीयात् तां तादृशीं श्रेयस्करीं ब्रह्मविद्यां ब्रह्मपरब्रह्मविषयिणीं परविद्यां तत्त्वतः तदुभयस्वरूपस्वभावादि­यथावन्निरूपणसभरतया सर्वाङ्गसम्पूर्णतया च प्रोवाच प्रब्रवीतीत्यर्थः। लकारव्यत्ययश्छान्दसः। न चाऽत्राऽक्षरमिति पुरुषविशेषणमिति भ्रमितव्यम्, ‘अक्षरात्परतः परः’ (मुण्डकोपनिषद् २/१/२) इत्यत्रैव सर्वप्रपञ्चपरभूतादक्षरात् परः पुरुषशब्दवाच्यः परमात्मा भिन्न एवेति प्रस्थापनात् तद्विरोधापत्तेरिति। अतोऽत्राऽक्षरपदवाच्यनिर्णये प्रागुक्ता हेतव एवाऽनुसन्धेयाः। इत्थमिह ‘येनाक्षरं पुरुषं वेद’ इत्यक्षरशब्देनाऽक्षरब्रह्माख्यं परमात्मभिन्नं तन्मात्रन्यूनं दिव्यतत्त्वं, पुरुषशब्देन च तदक्षरादपि परभूतं परब्रह्माख्यं दिव्यतत्त्वं ब्रह्मविद्याघटकतया पृथक् पृथक् विज्ञातव्यत्वेन प्रस्थाप्य तद्दिव्यतत्त्वद्वयविषयाऽक्षर­पुरुषोत्तमसिद्धान्त एव ब्रह्मविद्यारूपेण प्रस्थापितः। अक्षरपुरुषोत्तमाभ्यामेकतरस्याऽपि विद्यायामविषयत्वे तस्याः कार्त्स्न्यभङ्गात् संपूर्णब्रह्मविद्यासम्पत्तय उभयमपि वेदितव्यमेवेति हृदयम्। समाप्तश्चाऽत्र द्वितीयखण्डः॥” (साधुभद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम् २५६-२५७)

97 (પરમહંસો, કીર્તન મુક્તાવલિ ૩૮૨)

98 (પ્રેમાનંદ સ્વામી, શ્રી પ્રેમાનંદ કાવ્યમ્ ભાગ-૧ ૨૬૧)

99 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૭)

100 (वच.लो. १२) (परब्रह्म श्रीस्वामिनारायण ११२-११३)

101 (वच.ग.म. १३) (परब्रह्म श्रीस्वामिनारायण १४६-१४८)

102 (वच.ग.अ. ३८) (परब्रह्म श्रीस्वामिनारायण २३३)

103 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૯૬)

104 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૨૫), (મુક્તાનંદ સ્વામી ૪૧)

105 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૨૫)

106 (મુક્તાનંદ સ્વામી ૪૪)

107 (મુક્તાનંદ સ્વામી ૪૫)

108 (પરમહંસો, કીર્તનાવલિ હજારી ૨૯૨)

109 (પરમહંસો, કીર્તનાવલિ હજારી ૨૯૨)

110 (પરમહંસો, કીર્તનાવલિ હજારી ૨૨૯)

111 (પરમહંસો, કીર્તનાવલિ હજારી ૧૭૩)

112 (મુક્તાનંદ સ્વામી ૨૩૨)

113 (મુક્તાનંદ સ્વામી ૨૫૪)

114 (મુક્તાનંદ સ્વામી ૩૯૫)

115 (મુક્તાનંદ સ્વામી ૩૮)

116 “अथ भगवदक्षरधाम्नि विद्यमानो भगवदाकारस्तद्भगवत्पार्षदानां मुक्तानां च य आकाराः, ते सर्वे सत्या दिव्या अतिशयप्रकाशयुक्ताश्च। अथ तद्भगवतस्तन्मुक्तानां चाऽऽकारः पुरुषवद् द्विभुजः सच्चिदानन्दरूपश्च। तदक्षरधामाऽवस्थितश्चाऽयं भगवान् मुक्तपुरुषैर्नानाप्रकारक-दिव्योपचारैः सेव्यमानस्तेषां च मुक्तपुरुषाणां परमानन्दं जनयन् सदा विराजमानः।” (वच.ग.अ. ३८) (परब्रह्म श्रीस्वामिनारायण २३३)

117 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૬૩)

118 (ભક્તચિંતામણિ ૭૭/૫,૬) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૨૯૩-૨૯૪)

119 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૩૩)

120 (પરમહંસો, કીર્તન મુક્તાવલિ ૩૪૬)

121 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૪૦૯)

122 परब्रह्मस्वामिनारायणदीक्षिताः सन्तः तत्काले परमहंसदीक्षां गृहीतत्वात् परमहंसनामधेयेनापि सम्प्रदाये प्रसिद्धाः।

123 (ભક્તચિંતામણિ ૬૮/૧૨) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૨૬૪)

124 (ભક્તચિંતામણિ ૭૬/૩૮) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૨૯૨)

125 “પ્રગટ પુરુષોત્તમે કરુણા કરીને પોતાનું સ્વરૂપ ઓળખાવ્યું છે” (વચ.ગ.પ્ર. ૨૫) (ભગવાન ૪૦) આ પ્રમાણે ભગવાન કરુણાએ કરીને પોતાનું સ્વરૂપ ઓળખાવે છે. અર્થાત્ ભગવાન પોતાના સ્વરૂપની ઓળખાણ આપે તે તેઓની કરુણા જ છે.

126 (ભક્તચિંતામણિ ૭૯/૩૯,૪૦) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૩૦૩)

127 “भगवदुपासनं भक्तिविशेषरूपम्। तद्धि समाहात्म्यं परमात्माऽनुचिन्तनविशेषरूपम्। यथाऽयं परमात्मा सहजानन्दस्तु सदैव साकृतिकः, साकृतिकः सन्नेव पुनर्भूतभवद्भविष्यत्सकलसृष्टिकारणं, सर्वकर्ता, सर्वव्यापकः, सर्वनियामकः सदैव प्रकटश्चेत्यादि।” (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा ३४८)

128 (બ્રહ્માનંદ સ્વામી ૬૩)

129 (મુક્તાનંદ સ્વામી ૨૬૩)

130 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૨)

131 (બ્રહ્માનંદ સ્વામી ૬૭)

132 (બ્રહ્માનંદ સ્વામી ૮૭)

133 (પરમહંસો, કીર્તનાવલિ હજારી ૧૦)

134 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૬૯)

135 (પરમહંસો, કીર્તનાવલિ હજારી ૮૮)

136 (पाण्डवगीता २८) (केशवप्रसाद)

137 (वच.ग.म. ४२) (परब्रह्म श्रीस्वामिनारायण १६८)

138 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૪૪)

139 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૪૪-૨૪૫)

140 (બ્રહ્માનંદ સ્વામી ૬૫૪)

141 (स्वामिनारायणसिद्धान्तकारिका ७७-७८) (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा ४७)

142 (वच.ग.प्र. ६३) (परब्रह्म श्रीस्वामिनारायण ४७)

143 (वच.ग.प्र. ७१) (परब्रह्म श्रीस्वामिनारायण ५४)

144 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૬૩)

145 (પુરુષોત્તમ પ્રકાશ ૫૫) (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય ૮૫)

146 (મુક્તાનંદ સ્વામી ૨૬૩)

147 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૪)

148 (પરમહંસો, કીર્તન મુક્તાવલિ ૩૩૧)

149 (મુક્તાનંદ સ્વામી ૩૧), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૧૧૩)

150 (મુક્તાનંદ સ્વામી ૨૫૫)

151 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૫)

152 (वच.ग.प्र. २१) (परब्रह्म श्रीस्वामिनारायण १५)

153 (वच.ग.प्र. ४६) (परब्रह्म श्रीस्वामिनारायण ३४)

154 “चिदाकाशविधयाऽनेन माया तत्कार्यभूताऽनन्तकोटिब्रह्माण्डराशिश्चाऽन्तर्बहिरभिव्याप्यते विधार्यते च। सर्वाऽन्वितस्याऽस्य चेतनत्वात् सदोज्ज्वलितचित्त्वादासमन्तात् काशमानत्वाच्च चिदाकाशेति तदाख्या। नित्यं परिच्छिन्नदेशकालाऽऽदिपरिच्छेदरहितं संकोचविकासादिलक्षणविकाराऽनास्पदं करचरणाऽऽदिकरणकलेवररहितममूर्तं च।” (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा ४८)

155 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૨૪૪-૨૪૫)

156 (બ્રહ્માનંદ સ્વામી ૬૫૪)

157 (वच.ग.प्र. २१) (परब्रह्म श्रीस्वामिनारायण १५)

158 (वच.ग.प्र. ७१) (परब्रह्म श्रीस्वामिनारायण ५४)

159 (પરમહંસો, કીર્તન મુક્તાવલિ ૩૩૧)

160 (પરમહંસો, કીર્તન મુક્તાવલિ ૩૩૨)

161 (शुक्लयजुर्वेदः ३१/१९) (वासुदेवशर्मा ५२९)

162 “यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥, परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥” (श्रीमद्भगवद्गीता ४/७-८) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् ९५)

163 “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥” (श्रीमद्भगवद्गीता ९/३४) (साधुभद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम् २१९)

164 (वच.ग.म. २१) (परब्रह्म श्रीस्वामिनारायण १५३-१५४)

165 (મુક્તાનંદ સ્વામી ૧૬૮), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૯)

166 (મુક્તાનંદ સ્વામી ૧૬૯), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૪૦)

167 (મુક્તાનંદ સ્વામી ૧૭૦)

168 (મુક્તાનંદ સ્વામી ૩૪૫), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૫૪)

169 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૫૪)

170 (બ્રહ્માનંદ સ્વામી ૬૯૯)

171 (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય ૧૭૬)

172 (वच.वर. १९) (परब्रह्म श्रीस्वामिनारायण १९७)

173 “सदैव च स्वस्य प्रत्यक्षतयोपासनां विधापयितुं स्वयमन्तर्धानमन्वपि साक्षाद्ब्रह्मस्वरूपगुरुहरिद्वारा सम्यगन्वयरूपेण सदा प्रकटोऽवतिष्ठते।” (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा ११)

174 (ભક્તચિંતામણિ ૬૮/૧૩) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૨૬૪)

175 (મહંતસ્વામી મહારાજ ૧૦૭-૧૦૮)

176 “ननु प्राकट्यमिदं नित्यं वा तन्मात्रकालिकमिति चेन्नित्यमेवेति। तत्कथं स्वगमनोत्तरकालेऽपीति चेत्, स एव स्वेच्छयैव स्वाऽन्तर्धानादनु स्वसकलैश्वर्यसहितमेव स्वनित्यनिवासभूते परमदासभावतो नित्यं स्वभक्तिरते गुरुरूपेऽक्षरब्रह्मणि सम्यक् प्रकटितोऽभिवर्तते। अतस्ते गुरवोऽपि भवन्ति प्रत्यक्षनारायणस्वरूपतया प्रसेवनीया इत्यखण्डितं प्राकट्यम्।” (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा १३१)

177 (ભક્તચિંતામણિ ૧૬૪/૨૦) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૬૬૫)

178 (વચનવિધિ ૨૬/૩) (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય ૧૩૮)

179 (ભક્તચિંતામણિ ૧૬૪/૧૧-૧૩) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૬૬૫)

180 (વચનવિધિ ૨૬/૪) (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય ૧૩૮)

181 (મુક્તાનંદ સ્વામી ૧૬૮), (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૯)

182 (ભક્તચિંતામણિ ૧૬૪/૧૨,૧૯) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૬૬૫)

183 (પુરુષોત્તમપ્રકાશ ૨૧/૧૬,૧૭) (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય ૩૩)

184 (ભક્તચિંતામણિ ૧૬૪/૬,૧૧-૧૪,૧૯) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૬૬૫)

185 (પરમહંસો, કીર્તન મુક્તાવલિ ૨૪૫-૨૪૬)

186 (બ્રહ્માનંદ સ્વામી ૬૫૪)

187 (वच.ग.प्र. २७) (परब्रह्म श्रीस्वामिनारायण २०)

188 (वच.सा. १०) (परब्रह्म श्रीस्वामिनारायण ७४)

189 (वच.ग.अ. २६) (परब्रह्म श्रीस्वामिनारायण २२३)

190 (वच.ग.अ. ३५) (परब्रह्म श्रीस्वामिनारायण २३१)

191 (પરમહંસો, કીર્તન મુક્તાવલિ ૨૩૭-૨૩૮)

192 (પુરુષોત્તમપ્રકાશ ૪૧/૬-૯,૧૯,૨૦) (નિષ્કુળાનંદ સ્વામી, શ્રી નિષ્કુળાનંદ કાવ્ય ૬૩-૬૪)

193 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૨)

194 (પરમહંસો, કીર્તન મુક્તાવલિ ભાગ-૧ ૩૭૩)

195 (श्वेताश्वतरोपनिषद् ६/२३) (साधुभद्रेशदासः, स्वामिनारायणसिद्धान्तसुधा १८८)

196 (वच.ग.अ. २) (परब्रह्म श्रीस्वामिनारायण २०४)

197 (મુક્તાનંદ સ્વામી ૨૫૫)

198 (वच.सा. १४) (परब्रह्म श्रीस्वामिनारायण ७९)

199 (ભક્તચિંતામણિ ૬૮/૯) (નિષ્કુળાનંદ સ્વામી, ભક્તચિંતામણિ ૨૬૪)

200 (મુક્તાનંદ સ્વામી ૩૬૭)

Endnotes

i “આજ જે સર્વ હરિભક્ત છે તે એમ સમજે છે જે, ‘અક્ષરાતીત એવા જે ભગવાન પુરુષોત્તમ તે અમને પ્રત્યક્ષ મળ્યા છે અને અમે કૃતાર્થ થયા છીએ,’ એમ સમજીને પ્રત્યક્ષ ભગવાનની આજ્ઞામાં રહ્યાં થકાં તે ભગવાનની ભક્તિ કરે છે.” (વચનામૃત ગ.પ્ર.૩૧) (શ્રીસ્વામિનારાયણ ૫૧)

ii “સાધુ બ્રહ્મચારીઓ છે. તેઓ હાડે સંતો છે. તેમનું જેવું જીવન છે તેવું જ એમનું કવન છે... કવિયશઃપ્રાર્થી કરતાં પ્રભુપદપ્રાર્થી જ વિશેષ હતા.” (રઘુવીર ચૌધરી ૧૪૬)

iii “અમારી પ્રકૃતિ એમ છે જે, થોડીક વાતમાં કુરાજી પણ ન થઉં અને થોડીક વાતમાં રાજી પણ ન થઉં. અને જ્યારે જેમાં રાજી થયાનો કે કુરાજી થયાનો સ્વભાવ બહુ દિવસ સુધી જોઉં છું ત્યારે રાજીપો ને કુરાજીપો થાય છે, પણ કોઈના કહ્યા-સાંભળ્યા થકી કોઈની ઉપર રાજીપો કે કુરાજીપો થતો નથી.” (વચ.ગ.મ. ૨૮) (શ્રીસ્વામિનારાયણ ૪૨૭)

iv “વ્યાસ અને વાલ્મિકીને ભાગ્યે જેમાં તેઓને પરમેશ્વર તરીકે નિષ્ઠા બંધાઈ હતી એ કૃષ્ણ કે રામ વિશે કવિતા કરવાનું લખ્યું હતું. એ પછી ભાગ્યે જ સાહિત્યમાં પ્રગટ ભગવાન માટે કવિતા કરવાની તક કોઈ કવિને મળી છે. નંદ કવિઓની કવિતાની વિશેષતા ત્યાં છે કે તેઓ માટે સહજાનંદ સ્વામી પ્રગટ પૂર્ણપુરુષોત્તમ હતા અને તેમને રીઝવવા માટે જ તેઓ કવિતા રચતા હતા. કવિઓ કવિયશ માટે કાર્ય કરતા ન હતા. તેમનું એકમાત્ર ધ્યેય સન્મુખ રહેલા ભગવાનને રીઝવવાનું હતું.” (રઘુવીર ચૌધરી ૧૩૯)

← Previous Article Next Article →