ब्रह्मसूत्रे स्वामिभद्रेशदासमहाभागेन स्वामिनारायणभाष्यं यत्प्रणीतं तत् करतलामलकवत् श्रीश्रीश्रीस्वामिनारायणपूज्यपादानाम् आशयम् उपदेशांश्च सम्यक् प्रकटयति।
वेदान्तशास्त्राणां तात्पर्यं निर्णेतुं प्रवृत्तेस्मिन् ब्रह्मसूत्रग्रन्थे अस्ति मतत्रयरीत्या भाष्यत्रयम् आचार्यत्रयप्रणीतम् अद्वैत-विशष्टाद्वैत-द्वैतसिद्धान्तानुसारि। इदं तु तुरीयं भाष्यं पूर्वोक्तसिद्धान्त्रयविलक्षणं स्वामिनारायणपूज्यपादानां हृदयाशयप्रकाशकम् अतीव विलक्षणं सुस्पष्टं, विशदम् अथ च सुललितशैल्या निबद्धं वरीवर्ति।
संक्षिप्तबोधननैपुण्यम्
- संक्षिप्तबोधननैपुण्यं “ब्रह्मणोः जिज्ञासा = ब्रह्मजिज्ञासा” इत्येवं विग्रहवाक्यकथनेनैव एतन्मतस्य सर्वविलक्षणत्वम् अतिसंक्षिप्ततया सूचयन्तः एते भद्रेशदासमहोदयाः अनितरसाधारणं स्वमहत्त्वं गुरुकृपालब्धं अगण्यपूर्वपुण्यफलं प्रकटयन्ति। तुलसी खलु स्वजन्मनैव पुष्पोद्गममनपेक्ष्य सुगन्धं प्रकटयति। अतिस्पष्टतया स्वसिद्धान्तम् एतं जिज्ञासासूत्रे एव सुनिपुणम् उद्घोषयन्ति इमे!
- तथाहि पश्यत एतेषां नैपुण्यम् – “ब्रह्मशब्देनेह सकलवेदान्तोदितब्रह्मविद्यातत्त्वनिरूपणनिपुणेन भगवता व्यासेन अक्षरब्रह्म-परब्रह्मेति दिव्योभयतत्त्वयोः जिज्ञास्यमानत्वेन विवक्षितत्वात्... ब्रह्मणोरिति द्विवचनान्तो विग्रहः।” इति।
- एवमुक्त्वा अस्य विग्रहस्य साधुत्वं निरूपयितुं ग्रन्थकाराः एवं प्रमाणं वदन्ति -
“पदार्थभेदेऽपि पदसारूप्यायैकशेषः शाब्दिकसमयसिद्धः यथा पार्थपार्थसारथ्युभयविवक्षया ‘कृष्णौ’ इति भारते (म.भा.आ.प.२२१/३३); दाशरथिवासुदेवाग्रजोभयविवक्षया – वदन्ति लोके ‘रामयोः’ इति। तथेहापि” इति।
एतं स्वमतसिद्धान्तम् अत्यन्तविलक्षणं नैव स्वकल्पितं किन्तु श्रुतिसिद्धमेव इति द्रढयितुम् असंख्याः श्रुतयः अत्र उदाहृताः (पृ. ४-८)।
आकर्षकशैली
एतेषां शैली ललिता भावार्जिका च। अत्र कानिचन उदाहरणानि पश्यामः –
- वाचामगोचरस्य ब्रह्मणः विषये सूत्रेण विज्ञानोत्पादनप्रयासः सूत्रकारस्य व्यर्थ इति शङ्काम् उद्भाव्य परिहारकथनसन्दर्भे (पृ.११) “ननु ‘तद्वा एतदक्षरं’.... अक्षरब्रह्मणः परब्रह्मणश्च वाङ्मनआद्यविषयत्वश्रवणाद् व्यर्थ एव तद्विशेषविज्ञानप्रयोजनकोऽयं शास्रारम्भश्रम इति चेद्, अनधिगतश्रुत्यर्थस्याऽयं व्यर्थ आक्षेपश्रमः। यतः... प्राकृतचक्षुर्मानसादीन्द्रियाऽविषयतायास्तत्रोपदेशाद्।” इति राजन्ते पङ्क्तयः।
- जन्माद्यधिकरणे संशयप्रदर्शनवेलायां ब्रह्मशब्दस्य वेदः विप्रः विधाता, जीवः मुक्तः, अक्षरं, परमात्मा प्रपञ्चश्चेति अष्टौ अर्थाः। तत्र तत्र प्रयोगः श्रुतावुदाहृतः (पृ. १३)। अत्रैवलक्षणविशेषणयोः भेदः सुस्पष्टं, सुललितंनिरूप्यते (पृ. १४,१५)।
- शास्त्रयोनित्वाधिकरणे एतैः महाभागैः स्वीयं युक्तिकौशलं प्रदर्श्य केवलानुमानेन ईश्वरसिद्धिः नैव संभवति इति सुदृढम् उद्घोषितं, तेन एतेषां न्यायशास्त्रे नैपुण्यम् अथ च वेदान्ते अत्यादरश्च विशदीभवति (पृ. १८-२४)।
अत्र निरूपणकौशलं एतेषां कथं लब्धम् इति पण्डितानामपि आश्चर्यमावहति! सन्दर्भे अस्मिन् अन्तिमं निगमनवाक्यम् एवम् उज्ज्वलति – “स्वतन्त्रेण केवलानुमानेन... अक्षरबह्मपुरुषोत्तमयोः स्वरूपगुणैश्वर्यादीनां सिद्धिस्त्वक्ष्णा स्वनग्रहाऽऽग्रहवदशक्यसम्मभवेति ब्रह्मविद्यायां गुरुमुखाऽमृतीकृतवेदादिशास्त्रस्यैव सुखप्रसरत्वात् तदेव प्रमाणसार्वभैमतां भजत इति सिद्धिम्” इति।
- समन्वयाधिकरणे वेदान्तानां सर्वेषां अक्षरब्रह्मपुरुषोत्तमयोरेव समन्वयः इति प्रतिज्ञाय, ‘भवतुकार्यार्थत्वंवेदान्तवाक्यानाम्’ (पृ. २७) इत्यारभ्य अभ्युपगमवादमवलम्ब्य, उभयमुख्यत्वे वाक्यभेददोषं परिहृत्य निगमितमेवम् - “अतएतादृशसाक्षात्कारात्मकज्ञानार्थं तद्विधिः न निष्फलः” (पृ. २८) इति !!
अत्रैव अधिकरणसमाप्तिवेलायां सर्वं संगृहीतमेवम् – (मतसारः) “एवं जगतो निर्वेदं प्राप्य ब्रह्मस्वरूपगुरुमुपाश्रित्य तत्प्रसङ्गेन स्वात्मानं मायामलहीनं परिशुद्धं कृत्वा तमेव स्वात्मानं पुनस्तदक्षरब्रह्मभावेन संस्कृत्य गुरावेव प्रत्यक्षनारायणस्वरूपभावनयाऽक्षराधिपतिसहजान्दपरमोपासनेन तत्परमानन्ददिव्यानुभूतिलक्षणं मोक्षं सम्पादयेदिति प्रयोगविधेरपि सम्भवात् सर्वं समञ्जसम्” इति ।
एवंरीत्या चतुस्सूत्र्याः चतुरध्यायीसारभूतायाः भाष्ये एव ग्रन्थकाराणां वैदुष्यचातुरीमाधुरी च स्पष्टं प्रतीयते या उत्तरत्र संपूर्णतया प्रवहन्ती दरीदृश्यते।
- भूमाधिकरणे भूमशब्दवाच्यः परब्रह्मैव अर्थात् पुरुषोत्तमः एव (अक्षराधिपतिः) इति निर्णयं कृत्वा “यत्र नान्यत्पश्यति नान्यच्छृणोति” इति वाक्यस्य अर्थवर्णनसन्दर्भे (पृ.९६) स्वामिनाराणमतस्य सिद्धान्तं विशिष्टाद्वैतादपि भिन्नं सम्यग् विशदीकुर्वन्ति एवम् - (पृ. ९६) “अस्याऽयमर्थः। यत्र यस्मिन्नक्षराधिपतौ ब्रह्मरूपत्वसम्पत्तिपूर्वकं साक्षात्कृते सति स ब्रह्मरूपः परमात्मोपासकस्तत्परमात्मसहजनान्दपरमानन्दसुखसागरे निमग्नस्तद्दिव्यस्वरूपमात्रलीन-सकलस्ववृत्तिः संस्तस्मादेव हेतोः नान्यत् तत्परमात्मानं विहायाऽन्यत् किमपि न पश्यति विद्यमानं सदपि परमात्मपरायणत्वान्न साक्षात्कुरुते” इति।
- तदनन्यत्वाधिकरणे ‘युक्तेः’ (ब्र.सू. २.१.१८) इति सूत्रस्य भाष्यप्रस्तावे असत्कार्यपक्षः सुष्ठु निराकृतः रमणीयया ललितया शैल्या एवम् - (पृ. १७२) “किञ्चाऽसदेवकार्यमुत्पद्यत इत्यभ्युपगमे नियतोपादानग्रहणं न स्यात् । तैलाभिलाषिणा हि तिलमुपादीयते न सिकताः। असत्त्वे तैलस्य तिलसिकतयोः को विशेषः। तन्तुभ्य एव पटो मृत्तिकात एव घट इति कारणनियमोच्छेदेन तन्तुभ्यो घटस्य कपालाभ्यां पटस्य वोत्पत्त्याऽऽपत्तिश्चेत्ति युक्त्या कार्याऽसत्त्वमेव बाधितम्” इति।
- कृत्स्नप्रसक्त्यधिकरणे (ब्र.सू. २.१.२७) ब्रह्म सांशं निरंशं वा इति विचारे उभयपक्षेऽपि दोषकथनं उद्भाव्यते। तदाऽऽदौ निरंशपक्षे दोषमुक्त्वा सांशपक्षे दोषः एवमुत्थाप्यते - (पृ. १७८) “ननु तर्हि सांशमस्तु; इदानीं न कृत्स्नप्रसक्त्यादयो दोषाः... इति चेद्; वृश्चिकभिया पलायितेन विषधरमुखे स्वनिपातोऽपि नाऽभिलक्ष्यते। कथमेवमुच्यते? तत्र दोषान्तरमाह निरवयवत्वशब्दकोपो वा” इति।
अत्रैव उपसंहारसन्दर्भे एवं समाहितम् - (पृ. १७९) “अस्याऽतीन्द्रियार्थस्य श्रुतिशब्दभिन्नप्रमाणाऽमूलत्वात् तन्मात्रमूलत्वाच्च यदा भगवती श्रुतिरेव तन्निरंशत्वमुपादानमत्वं चोभयमुपदिशेत् तदा तत्र लौकिकलिङ्गदोषावकाशो न प्रभवतीति तदनुपदिष्टमेव निर्मूलमवगन्तव्यम्” इति।
- सर्वथाऽनुपपत्त्यधिकरणे (ब्र.सू. २.२.३२) शून्यवादनिराकरणं क्रियते इति स्वामिनारायणैकमतरीत्या नूतनः पन्थाः अवलम्बितः। तत्र चादौ परिहासरूपेण एतत्सिद्धान्तप्रवर्तकस्य माध्यमिकस्य एकं विशेषणं दत्तं - (पृ. २१०) “सर्वशून्यवादी सौगतशिरोमणिर्माध्यमिकः प्रतिक्षिप्यते” इति।
अत्रैव अन्ते एवं निगमितम् – “इत्थं सर्वथाऽनुपपत्तेः सकलौचित्यशून्योऽयं सर्वशून्यवादः” इति। (पृ. २११)
- ‘व्याप्तेश्च समञ्जसम्’ (ब्र.सू. ३.३.९) इति पठिते सर्ववेदान्तप्रत्ययाधिकरणान्त्यसूत्रे एवमवतरणिका एतैः महोदयैः ग्रन्थकारैः दत्ता - (पृ. ३१९) “एवमेतावता सोहापोहं ब्रह्मपरबह्मणोः सर्ववेदान्तप्रत्ययत्वमुपपाद्येदानीं हेत्वन्तरेणोपसंहरति - व्याप्तेश्च समञ्जसम्” इति।
एवं सूत्रमवतार्य ब्रह्मपरब्रह्मणोः सर्ववेदान्तव्याप्तिम् उदाहरणैः स्पष्टीकुर्वन्तः पूज्यश्रीभद्रेशदासमहाभागाः स्वीयां दशोपनिषत्परिशीलनसिद्धां नैपुणीम् अत्र ईश-केन-कठ-प्रश्न-मुण्डक-माण्डूक्य-तैत्तिरीय-ऐतरेय-छान्दोग्य-बृहदारण्यकसंज्ञेभ्यः दशोपनिषद्भ्यः क्रमशः अनेकानि वाक्यानि उदाहरन्ति !!! एतेन एतेषां प्रखरमतित्वं, निरूपणभङ्गी च सुविशदं ज्ञायते इत्यत्र नास्ति संशीतिलेशः।
- ऐहिकाधिकरणे (ब्र.सू. ३.४.५०) भक्तस्य अत्रैव जीवन्मुक्तिः बलवत्प्रतिबन्धाभावे भविष्यति इति विषयः - विशिष्टाद्वैतमतविलक्षणः सुस्पष्टं व्यवस्थापितः बहुभिः श्रुतिस्मृतिप्रमाणवाक्यैः।
उपसंहारवेलायां च एवं निश्चप्रचं दृढीकृतम् - (पृ. ३८२) “सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥ (गी. ६.३१) इति भूयोभूयो जीवत एव यथोक्तभक्तस्य मुक्तिफलाऽनुभवः शास्त्रोपदिष्टः। ऐहिकमपीत्यपिना भक्तैर्देहपातोत्तरलभ्यया विदेहमुक्तेः संग्रहादिह मुक्तेर्द्वैविध्यमुक्तम् । एवं सूत्रकारेणैव श्रुतिभिर्जीवन्मुक्तेः प्रसाधनाद् ये जीवन्मुक्तितिरस्कारपरिबद्धधियस्तैः श्रुतिशब्दाऽभिधानशक्तिविज्ञानविधुरैः कृत्स्नो वेदान्तार्थो न विदितः” (पृ. ३८३) इति।
उपसंहारः
इत्थम् एते ग्रन्थकाराः सुगृहीतनामधेयाः साधुभद्रेशदासमहोदयाः ब्रह्मद्वयाभिन्नस्वगुरुकृपालब्धधिषणाः अत्यद्भुतं ग्रन्थरत्नं स्वामिनारायणभाष्यं प्रणीय सर्वेषां जिज्ञासूनां उत्तमपुरुषार्थप्रापकं उपायं कृतवन्तः इति ते सुधन्यवादार्हाः एवमेव अन्यानि रत्नानि आविष्कुर्वन्तु इति स्वामिनारायणं अभ्यर्थये।
गुरुभक्तिसुधापूर्णः भद्रेशो हि बुधोत्तमः।
अत्युत्तमं ग्रन्थरत्नं निर्ममे ज्ञानहेतवे ॥
TRANSLATION
The Svāminārāyaṇabhāṣya’s Insight into the Brahmasūtras
The Svāminārāyaṇabhāṣya on the Brahmasūtras is a clear and comprehensible work authored by the renowned Bhadreshdas Swami. It is like a fruit-giving tree that rests in the palm of one’s hand. It precisely reveals Śrī Śrī Śrī Svāminārāyaṇa’s sentiments and teachings.
There are three commentaries of the Brahmasūtra text that ascertain the purport of the sacred texts of Vedānta. They were authored by three distinct ācāryas, each according their respective darśanic position: Advaita, Viśiṣṭādvaita, and Dvaita. As the fourth commentary, the Svāminārāyaṇabhāṣya on the Brahmasūtras adds to this corpus of commentarial literature. It reveals Swaminarayan’s (Svāminārāyaṇa) teachings, which are distinct from the previously mentioned doctrines. The commentary is utterly unique, lucid, pure, and elegantly created.
A Skilful summary of Ideas
- The author’s skill in summarizing ideas is noteworthy. For instance, ‘brahmajijñāsā’ is analysed as “Brahmaṇoḥ jijñāsā.” This analysis alone demonstrates that the doctrine is distinct from that of the other darśanas. It also exhibits how Bhadreshdas Swami has received extraordinary, significant fruits gifted by the grace of the guru and countless previous merits. It is said, basil (tulasī), truly by its birth alone, gives rise to fragrance without the desire to produce flowers. Bhadreshdas very clearly and skilfully reveals one’s own doctrine in just this jījñāsāsūtra!
- The text’s skilful summary of principles is evident in yet another example: “Brahmaṇoḥ brahmaśabdeneha sakalavedāntoditabrahmavidyātattvanirūpaṇanipuṇena Bhagavatā vyāsena Akṣarabrahma-Parabrahmeti divyobhayatattvayoḥ jijñāsyamānatvena vivakṣitatvāt... Brahmaṇoriti dvivacanānto vigrahaḥ.”1
- Having said this, the author presents the following justification in his exposition of the authenticity of this analysis: “padārthabhede'pi padasārūpyāyaikaśeṣaḥ śābdikasamayasiddhaḥ yathā pārthapārthasārathyubhayavivakṣayā ‘kṛṣṇau’ iti bhārate;2 dāśarathivāsudevāgrajobhayavivakṣayā – vadanti loke ‘rāmayoḥ’ iti. tathehāpi.”3
This uniqueness is not self-contrived, but established by the śrutis themselves. Many śrutis are offered here to re-affirm this reading.4
Captivating Style
The author’s style is elegant and full of emotion. Let us see a few examples:
- Since brahman is understood as being indescribable by words, a sūtrakāra’s attempt to attain knowledge is self-defeating. Upon raising this doubt, the commentary replies by the following outstanding exposition: “nanu ‘tadvā etadakṣaraṃ’... Akṣarabrahmaṇaḥ Parabrahmaṇaśca vāṅmanaādyaviṣayatvaśravaṇād vyartha eva tadviśeṣavijñānaprayojanako'yaṃ śāsrārambhaśrama iti ced, anadhigataśrutyarthasyā'yaṃ vyartha ākṣepaśramaḥ. yataḥ... prākṛtacakṣurmānasādīndriyā'viṣayatāyāstatropadeśād.”5 Such constructions exist throughout the text.
- When presenting a doubt within the “Janmādyadhikaraṇa,” the commentary explains the term ‘brahman’ by itself is a signifier that may refer to the following eight referents: the Vedas, a Brahmin, the deity Brahmā, the self (jīvātman), the liberated self (mukatātman), Akṣara, Paramātman, and the manifest world. Examples of each from within the śrutis are offered.6 Here also, the distinction between a definition (lakṣaṇa) and an adjective (viśeṣaṇa) is clarified. All of this is gracefully described.7
- Within the “Śāstrayonitvādhikaraṇa,” the eminent Bhadreshdas, having demonstrated one’s own innovative expertise, firmly asserts that it is not possible to establish the existence of īśvara by only reasoning. His explanation makes it clear that he possess proficiency in Nyāya and has great regard for Vedānta.8
His eloquent exposition is astonishing even to pundits! The proceeding final summary statement is worthy of notice from this perspective: “svatantreṇa kevalānumānena... Akṣarabahma-Puruṣottamayoḥ svarūpaguṇaiśvaryādīnāṃ siddhistvakṣṇā svanagrahā''grahavadaśakyasammabhaveti brahmavidyāyāṃ gurumukhā'mṛtīkṛtavedādiśāstrasyaiva sukhaprasaratvāt tadeva pramāṇasārvabhaimatāṃ bhajata iti siddhim.”
- Within the “Samanvayādhikaraṇa,” the commentary pledges that all of Vedānta is a synthesis of Akṣarabrahman and Puruṣottama. Beginning with “bhavatu kāryārthatvaṃ vedāntavākyānām;”9 it utilizes abhyupagamavāda (reductio ad absurdum) and avoids the fallacy of vākyabheda in offering both as primary. Thereafter, it concludes: “ataetādṛśasākṣātkārātmakajñānārthaṃ tadvidhiḥ na niṣphalaḥ.”10
When concluding this adhikaraṇa (section), the purport of the position is offered: “evaṃ jagato nirvedaṃ prāpya Brahmasvarūpagurumupāśritya tatprasaṅgena svātmānaṃ māyāmalahīnaṃ pariśuddhaṃ kṛtvā tameva svātmānaṃ punastadakṣarabrahmabhāvena saṃskṛtya gurāveva pratyakṣanārāyaṇasvarūpabhāvanayā'kṣarādhipatisahajāndaparamopāsanena tatparamānandadivyānubhūtilakṣaṇaṃ mokṣaṃ sampādayediti prayogavidherapi sambhavāt sarvaṃ samañjasam.”
In this way, in the commentary of the four principle aphorisms (catussūtrī), which represent the essence of all four adhyāyas (chapters) of the text, itself clearly expresses the author’s erudition, astuteness, and literary appeal, all which are continuously witnessed throughout the work.
- Within the “Bhūmādhikaraṇa,” the commentary concludes that ‘bhūma’ refers exclusively to Parabrahman or Puruṣottama (Akṣarādhipati). Thereafter, in its explanation of the phrase ‘yatra nānyatpaśyati nānyacchṛṇoti,’11 it becomes clear that Swaminarayan’s doctrine is distinct from Viśiṣṭādvaita. The commentary elaborates: “asyā'yamarthaḥ. yatra yasminnakṣarādhipatau brahmarūpatvasampattipūrvakaṃ sākṣātkṛte sati sa brahmarūpaḥ Paramātmopāsakastat-Paramātma-Sahajanāndaparamānandasukhasāgare nimagnastaddivyasvarūpamātralīnasakalasvavṛttiḥ saṃstasmādeva hetoḥ nānyat tat-Paramātmānaṃ vihāyā'nyat kimapi na paśyati vidyamānaṃ sadapi Paramātmaparāyaṇatvānna sākṣātkurute.”12
- In the introduction of the Brahmasūtra ‘yukteḥ’ within the “Tadananyatvādhikaraṇa,”13 the asatkārya position is well refuted. Its expository style is impressive and pleasing to read. See, for example: “kiñcā'sadevakāryamutpadyata ityabhyupagame niyatopādānagrahaṇaṃ na syāt. tailābhilāṣiṇā hi tilamupādīyate na sikatāḥ. asattve tailasya tilasikatayoḥ ko viśeṣaḥ. tantubhya eva paṭo mṛttikāta eva ghaṭa iti kāraṇaniyamocchedena tantubhyo ghaṭasya kapālābhyāṃ paṭasya votpattyā''pattiścetti yuktyā kāryā'sattvameva bādhitam.”14
- In the “Kṛtsnaprasaktyadhikaraṇa’s”15 discussion of whether brahman is with parts or without, the pūrvapakṣa’s (opposing position’s) preliminary exposition on the deficiencies of both sides is offered. The commentary expresses the pūrvapakṣa’s viewpoint by expressing the shortcomings of the position of brahman as being without parts and the deficiency in the position of affirming brahman as being with parts in the following way: “nanu tarhi sāṃśamastu; idānīṃ na kṛtsnaprasaktyādayo doṣāḥ... iti ced; vṛścikabhiyā palāyitena viṣadharamukhe svanipāto'pi nā'bhilakṣyate. kathamevamucyate? tatra doṣāntaramāha niravayavatvaśabdakopo vā.”16
The discussion is then concluded in the following way: “asyā'tīndriyārthasya śrutiśabdabhinnapramāṇā'mūlatvāt tanmātramūlatvācca yadā bhagavatī śrutireva tanniraṃśatvamupādānamatvaṃ cobhayamupadiśet tadā tatra laukikaliṅgadoṣāvakāśo na prabhavatīti tadanupadiṣṭameva nirmūlamavagantavyam.”17
- Within the “Sarvathā'nupapattyadhikaraṇa,”18 the commentary describes the sūtras (aphorisms) of this adhikaraṇa (section) as refuting the Śūnyavāda position. Interpreting these sutras in this manner establishes a new path. In the beginning of this section, the following humorous observation is made of the mādhyamika—the supporter of Śūnyavāda: “sarvaśūnyavādī saugataśiromaṇirmādhyamikaḥ pratikṣipyate.”19
The discussion then concludes: “itthaṃ sarvathā'nupapatteḥ sakalaucityaśūnyo'yaṃ sarvaśūnyavādaḥ.”20
- “Vyāpteśca samañjasam”21—in this final aphorism of the “Sarvavedānta-pratyayādhikaraṇa,” the following introduction is presented by the author: “evametāvatā sohāpohaṃ brahmaparabahmaṇoḥ sarvavedāntapratyayatvamupapādyedānīṃ hetvantareṇopasaṃharati—vyāpteśca samañjasam.”22
- After having revealed this aphorism and clarifying that the glory of Akṣarabrahman and Parabrahman is expressed throughout all of Vedānta, Bhadreshdas presents his own expertise, which is achieved through the study of the ten Upaniṣads. He offers examples of countless readings in sequence from the ten Upaniṣads: Īśā, Kena, Kaṭha, Praśna, Muṇḍaka, Māṇḍūkya, Taittirīya, Aitareya, Chāndogya, and Bṛhadāraṇyaka. From this, I can say without a doubt that he possesses sharp intelligence and his method of exposition is unique.
- In the “Aihikādhikaraṇa,”23 the possibility of the jīvanamukti state of a devotee is very clearly affirmed by citing numerous readings from the śrutis and smṛtis. Such elaboration establishes that the darśana’s position is clearly distinct from that of Viśiṣṭādvaita.
In conclusion, the following is firmly substantiated: “sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ. sarvathā vartamāno'pi sa yogī mayi vartate. (Gī. 6.31) iti bhūyobhūyo jīvata eva yathoktabhaktasya muktiphalā'nubhavaḥ śāstropadiṣṭaḥ. aihikamapītyapinā bhaktairdehapātottaralabhyayā videhamukteḥ saṃgrahādiha mukterdvaividhyamuktam. evaṃ sūtrakāreṇaiva śrutibhirjīvanmukteḥ prasādhanād ye jīvanmuktitiraskāraparibaddhadhiyastaiḥ śrutiśabdā'bhidhānaśaktivijñānavidhuraiḥ kṛtsno vedāntārtho na viditaḥ.24
Conclusion
Sadhu Bhadreshdas’ intellect is a gift bestowed by the grace of his Akṣarabrahman guru. He has produced the exceedingly eminent Svāminārāyaṇabhāṣya—a gem among texts that grants to all those who seek the means to attain the supreme end.25 I pray to Swaminarayan that Sadhu Bhadreshdas, who is worthy of great acclaim, may continue to produce other precious jewels. I express my deepest regards with the following verse:
Bhadresh, who is filled with nectar
of devotion to the guru
and is superior amongst the learned,
has created this exceedingly great,
gem-like text for attaining wisdom.
Abbreviations
Gī. Śrīmadbhagavadgītā
BS. Brahmasūtra
Ma. Bhā. Ā. Pa. Mahābhārata-ādiparva
Works Cited
Sādhu, Bhadreśadāsa. Brahmasūtrasvāminārāyaṇabhāṣyam. Swaminarayan Aksharpith, 2009.
References
1 (Sādhu 4)
2 (Ma. Bhā. Ā. Pa. 221.33)
3 (Sādhu 4)
4 (Sādhu 4–8)
5 (Sādhu 11)
6 (Sādhu 13)
7 (Sādhu 14–15)
8 (Sādhu 18–24)
9 (Sādhu 27)
10 (Sādhu 28)
11 (Sādhu 96)
12 (Sādhu 96)
13 BS. 2.1.18 (Sādhu 172)
14 (Sādhu 172)
15 BS. 2.1.27 (Sādhu 177)
16 (Sādhu 178)
17 (Sādhu 179)
18 BS. 2.2.32 (Sādhu 210)
19 (Sādhu 210)
20 (Sādhu 211)
21 BS. 3.3.9 (Sādhu 319)
22 (Sādhu 319)
23 BS. 3.4.50 (Sādhu 382)
24 (Sādhu 383)
25 Here, ‘uttamapuruṣa’ may also refer to Paramātman. In such an reading, Paramātman is identified as the ultimate goal.