वचनामृतशीर्षकदर्शनम्

by Dr. Sadhu Shrutiprakashdas

सारांशः
जगति विद्यमानानि सकलशास्त्राणि भवन्ति शीर्षकयुक्तानि । तत्तच्छीर्षकेणैव तत्तच्छास्त्रं प्रथते किल । यथा हि वेद-तदन्तर्गतसंहिता-ब्राह्मण-आरण्यक-उपनिषत्सु, तथा च रामायणमहाभारतादीतिहासा, भागवतादिपुराणानि, मन्वादि-स्मृतयः, सांख्यादिदर्शनानीत्यादिसर्वग्रन्थेषु शीर्षकाणि दरीदृश्यन्ते । तत्र मुख्यग्रन्थस्य ततस्तदन्तर्गतमुख्यप्रकरणानां ततस्तदन्तर्गताऽवान्तरप्रकरणानाम् इत्येवं क्रमेण दृश्यते शीर्षकपद्धतिः । तथैव गुर्जरभाषानिबद्धे परब्रह्मस्वामिनारायणोप-दिष्टवचनामृतग्रन्थेऽपि प्रत्येकं वचनामृते शीर्षकाणि सम्प्रदायप्रसिद्धानि । गुर्जरभाषानिबद्धान्येतानि शीर्षकाण्येवाऽस्मिन् संशोधने चिन्तनविषयाणि । तथा हि कथं तत्तद्वचनामृतस्य कथं तत्तच्छीर्षकं संजातमिति संक्षेपेण विविच्य दर्श्यते । तदनु तेषां वचनामृतशीर्षकाणां दार्शनिकदृष्ट्या विहङ्गावलोकनेन हि शोधपत्रस्याऽस्य प्रधानो विषयः । तत्राऽपि द्वैविध्यम् अनुसृतम् – साधारणचिन्तनाऽनुसारं सम्प्रदायस्थापकपरब्रह्मस्वामिनारायणस्य सिद्धान्तानुसारं चेति ।

विषयप्रवेशः
ग्रन्थशीर्षकोपरि संस्कृतभाषायां शोधात्मकोऽयं प्रायः प्रथमः प्रयासः स्याच्छोधलेखेतिहासे । तत्त्वदर्शन-सामाजिक-ऐतिहासिक-काव्य-नाटक-आरोग्य-शिल्प-विज्ञान-भूस्तरशास्त्र-खगोलशास्त्र-राजकीयादिविषयाणां शोधलेखानि प्रायः विषयस्थपदार्थानां बाहुल्यात् सरलतया लिखितुं शक्यते, न तादृशं शीर्षकविषयलेखने । शीर्षकेष्वप्यवान्तरशीर्षकस्यायं शोधलेखः । तत्रापि दार्शनिकदृष्टिविलोकनायायं प्रयासः ।
शीर्षकं खलु ग्रन्थस्य प्रकरणस्य वा सम्पूर्णं चित्रं प्रस्तौति । शीर्षकद्वारा लेखकस्य वैदुष्यमथवा तद्धृदयगता भावा अपि विज्ञायन्ते । शीर्षकं पठित्वैव जनास्तत्पुस्तकं पठनीयं न वेति विचारयन्ति । कस्यापि ग्रन्थस्य शीर्षकं कथं तादृशमेवेति चिन्तनं नातिसरलम् । शीर्षकं मुखस्थानीयम् । मुखं विलोक्य जना आकृष्यन्ते तथैव शीर्षकं विलोक्य तत्पठनार्थं विलोकनार्थं वा जना लुभ्यन्ते । एषा रीति वेदसाहित्यादारभ्य वेबसाईटसाहित्यपर्यन्ता समाना । अहो शीर्षकस्य माहात्म्यम् !

शीर्षकशब्दार्थः
कस्यापि विषयस्य परिचयं प्राप्तुं तदुपरि संक्षेपेण लिख्यमानं शीर्षकशब्देन निगद्यते । कस्यापि ग्रन्थस्याथवा लेखस्य परिचायकं शीर्षकं कथ्यते । आङ्गल-भाषायां heading गुर्जरभाषायां મથાળું नाम्ना व्यवह्रियते ।

वेदोपनिषत्सु शीर्षकाणि
शीर्षकस्येतिहासः सनातनधर्मस्य शास्त्रेषु प्राचीनो दृश्यते । तत्र सर्वप्रथमं वेद इति शीर्षकमादाय विचारयामः । कथं वेद इति शीर्षकम्? यच्छीर्षकं मन्वादिस्मृतिषु, व्याकरणसूत्रेषु, विविधदर्शनेषु च नैककालादाद्रियते । वेदो नाम ज्ञानराशिः । विदन्ति = जानन्ति, विद्यन्ते = भवन्ति, विन्दन्ति = लभन्ते, विन्दन्ति = विचारयति वा सर्वे मनुष्याः यैर्येषु वा ते वेदाः ।1 चतुर्णां वेदानाम् ऋग्यजुःसामाथर्वेति शीर्षकाणामप्यन्वर्थत्वं पूर्वमीमांसादिषु विलोक्यते ।
वेदस्य सूक्तानामर्थानुरूपाण्यथवा शब्दानुरूपाणि शीर्षकाणि पुरुषसूक्त-भूमिसूक्त-नासदीयसूक्त-इत्यादीनि प्राचीनकालात् संश्रूयन्ते । एवमेवोपनिषत्सु शीर्षकस्य वैविध्यं विलोक्यते । तत्र द्वैविध्यं –

  1. प्रत्येकस्या उपनिषदो विविधरीत्या शीर्षकाणि
  2.  ब्रह्मविद्यान्तर्गतानि शीर्षकाणि

प्रथमेऽपि वैविध्यं यथा –

  • प्रथमशब्देन यथा- ईशावास्योपनिषद्, केनोपनिषद्
    अत्र ‘ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥१॥’ इति मन्त्रेणेशावास्योपनिषद आरम्भः । तथैव ‘ॐ केनेषितं पतति प्रेषितं मनः’ इति मन्त्रेण केनोपनिषद आरम्भः । तदुक्तं स्वामिनारायणकेनोपनिषद्भाष्ये ‘तस्या: ‘केनेषितम्’ इति केनपदारब्धत्वात् केनेति संज्ञा  ।’2
  • आरण्यकशाखानुसारेण यथा- तैत्तिरीयोपनिषद्, कठोपनिषद् , ऐतरेयोपनिषद्
    वेदसंहिता नैकशाखाभिन्ना आसन् । तासु शाखासु काश्चनावशिष्टाः।तच्छाखान्तर्गतोपनिषत् तत्तन्नाम्ना प्रसिद्धाः। एवं वेदसंहितोत्तरग्रन्था आरण्यकाश्च प्रसिद्धाः, तदन्तर्गता उपनिषदस्तत्तन्नाम्ना व्यवह्रीयन्ते । कृष्णयजुर्वेदीयकठ-शाखान्तर्गतत्वादस्या: कठेति संज्ञा । तथा च कृष्णयजुर्वेदस्य तैत्तिरीयारण्यकस्य ७-९ प्रपाठकरूपा तैत्तिरीयोपनिषद् । एवं हि ऋग्वेदीयैतरेयारण्यकान्तर्गतैतरेयोपनिषत् ।
  • परिमाणानुसारेण यथा- बृहदारण्यकोपनिषद्
    तदुक्तं ‘शुक्लयजुर्वेदीयवाजसनेयिब्राह्मणान्तर्गतेयमुपनिषद् । अस्याश्चाऽरण्येऽध्ययनात् स्वरूपत इतरापेक्षया बृहत्त्वात्, सर्वतः स्वरूपस्वभावादितो बृहद्भूतयोरक्षरब्रह्मपरब्रह्मणोश्च निरूपकत्वाद् बृहदारण्यकमिति व्यपदेशः ।’3
  • व्याख्यानानुसारेण यथा- प्रश्न-उत्तररूपत्वात् प्रश्नोपनिषद्
    उक्तं तत् ‘सुकेशादिजिज्ञासुकृतषट्प्रश्नोत्तररूपत्वादियं प्रश्नोपनिषदिति प्रसिद्धा ।’4
  • तत्प्रोक्तर्षिनाम्ना यथा- मण्डूकर्षिपुत्रेण माण्डूक्येन मण्डूकर्षिणा वा प्रोक्तत्वान्माण्डूक्योपनिषद्
    तदुक्तं माण्डूक्योपनिषद्भाष्यपरिष्कारे ऐतरेयारण्यके (३/१/१) ‘वायुः संहितेति माण्डूकेयः’ इति श्रूयते । ‘शूरवीरो माण्डूकेयः’ इति नु माण्डूकेयानाम् ’ इति च । मण्डूकमहर्षिपुत्रः इति तत्र (सायणाचार्यकृता)व्याख्या ।5
  • तद्गतार्थानुसारेण यथा- ब्रह्मविद्यारूपप्रधानार्थप्रतिपादकत्वेन मूर्धन्यस्थानत्वान्मुण्डकोपनिषद् । तदुक्तं -इयमुपनिषद् श्रेष्ठत्वेन हेतुना सर्वासामुपनिषत्प्रमाणानां राजमस्तकमिव तस्मान्मुण्डकेति सञ्ज्ञा ।6 द्वितीये ब्रह्मविद्यापदेनाऽपि विविधा अध्यात्मविद्या उपनिषत्सु वर्णिताः । या उपनिषदामवान्तरशीर्षकरूपाः । तत्रैकस्यामप्युपनिषदि नैकाः सन्ति क्वचिच्चैकापि । वेदानामानन्त्याद् विद्याया अपि असङ्ख्यत्वं स्वीक्रियते तथापि प्रायः प्रसिद्धा द्वात्रिंशद् ब्रह्मविद्याः कथ्यन्ते । अत्र काश्चन प्रस्तूयन्ते –

एकस्यामुपनिषदि एका

  1. ईशोपनिषदि ईशावास्यविद्या
  2. कठोपनिषदि परमपुरुषविद्या
  3. कौषितक्यां प्रतर्दनविद्या
  4. मुण्डकोपनिषदि ब्रह्मविद्या

एकस्यामुपनिषदि नैकाः

यथा छान्दोग्योपनिषदि । अत्रैकस्मिन् अध्याये क्वचिदेकैव क्वचिच्चानेकाः । यथा –

एकस्मिन् अध्याये एका
सद्विद्या           षष्ठोऽध्यायः
भूमविद्या        सप्तमोऽध्यायः

एकस्मिन् अध्याये नैकाः

प्रथमाध्याये
• अन्तरादित्यविद्या षष्ठे खण्डे ६-७
• आकाशविद्या नवमः खण्डः
• प्राणविद्या दशमः खण्डः
तृतीयाध्याये
• मधुविद्या १-११ खण्डाः
• ज्योतिर्विद्या त्रयोदशः खण्डः
• शाण्डिल्यविद्या चतुर्दशखण्डः
चतुर्थाध्याये
• संवर्गविद्या १-३ खण्डाः
• सत्यकामविद्या ४-९ खण्डाः
• उपकोशलविद्या १०-१४ ख.
• अक्षिविद्या १५ खण्डः
पञ्चमाध्याये
• वैश्वानरविद्या ११-२४ खण्डाः

बृहदारण्यकोपनिषदि अवान्तरभेदा ब्राह्मणनाम्ना प्रसिद्धास्तस्माद् ब्रह्मविद्या ब्राह्मणान्ता अपि प्रसिद्धाः । तासु तृतीयाऽध्यायस्थास्तिस्रो विशेषरूपेण प्रथिताः । तत्प्रोक्तर्षिनाम्ना, तन्निरूपितगुणैः तत्र निरूपिततत्त्वद्वारा च ।
यथा च ताः –

  1. कहोलविद्या अथवा कहोलब्राह्मणम् । कौषीतकेयकहोलेन प्रश्नस्य पृष्टत्वात् कहोलब्राह्मणम् । तदुक्तं भाष्ये ‘अथ कहोलब्राह्मणमुपस्थाप्यत अथ हैनमिति । 7
  2. उद्दालकारुणिना पृष्टमपि अन्तर्यामित्वगुणनिरूपकत्वादन्तर्यामिब्राह्मणम् । एतदपि भाष्ये विलोक्यते ‘प्रागुक्त-सर्वसमुत्कृष्टब्रह्मलोकाधिपतेः पुरुषोत्तमस्य सर्वान्तर्यामित्वतन्नियामकत्वादि निरूपयितुमिदमन्तर्यामि- ब्राह्मणं प्रवर्ततेऽथ हैनमित्यादिना ।’8
  3. वाचक्नवीगार्ग्याः पृष्टमपि अक्षरतत्त्वनिरूपितत्वादक्षरविद्याऽथवाऽक्षरब्राह्मणम् ।
    तदेवं विद्यापदेनावान्तरशीर्षकाणि परिपठ्यन्ते ।

श्रीमद्भगवद्गीतास्थशीर्षकाणि
वामदेवगीता-संपाकगीता-उतथ्यगीता-ऋषभगीता-मङ्किगीता-बोध्यगीता-विचक्ष्नुगीता-हारीतगीता-­वृत्रगीता-पराशरगीता-हंसगीता-अनुगीता-श्रीमद्भगवद्गीता महाभारते सन्ति । अन्या अपि कूर्मपुराण-गणेशपुराण- देवीभागवत-विष्णुपुराण-नरसिंहपुराण-अग्निपुराण-भागवतपुराण-योगवासिष्ठादिष्वप्यष्टादशगीता उपलभ्यन्ते । तासु सर्वासु अर्जुन-श्रीकृष्णसंवादात्मिका गीतैव श्रीमद्भगवद्गीतापदेन प्रसिद्धाः परब्रह्मपुरुषोत्तमेन वासुदेवेऽनुप्रवेशेन गीतत्वहेतुना ।
श्रीमद्भगवद्गीतायाः प्रत्येकस्याध्यायस्य विशिष्टाणि नामानि बहुकालात् प्रसिद्धानि । तत्र प्रायोऽध्यायानां नामानि तत्तदध्यायस्थमुख्यविषयं निमित्तीकृत्य योगपदं सम्बद्ध्य विलोक्यन्ते । अत्र भाष्यकारैः प्रदत्तानि शीर्षकाणि विमृश्यन्ते । प्रायः सर्वैः अर्जुनविषादहेतुना विषादयोगः प्रथमोऽध्यायः । कर्मयोग इति तृतीयोऽध्यायः, विभूतियोग इति दशमोऽध्यायः, विश्वरूपदर्शनयोग इत्येकादशोऽध्यायः, भक्तियोग इति द्वादशोऽध्यायः, क्षेत्रक्षेत्रज्ञयोग इति त्रयोदशोऽध्यायः, पुरुषोत्तमयोग इति पञ्चदशोऽध्यायः, दैवासुरसम्पद्विभागयोग इति त्रयोदशोऽध्यायः, श्रद्धात्रयविभागयोग इति चतुर्दशोऽध्यायः इति शीर्षकाणि ग्रन्थस्य विषयानुरूपाण्यथवा शब्दानुरूपाणि प्रगीतानि । अक्षरब्रह्मनिरूपणहेतुनाऽक्षरब्रह्मयोग इतिनाम्ना प्रसिद्धस्याष्टमाऽध्यायस्य शीर्षकाणि तारकयोग-धारणायोग-अक्षरपरब्रह्मयोग-महापुरुषयोग-ब्रह्माक्षरनिर्देश-इत्यादीनि बहूनि लोक्यन्ते ।9  केषुचिदध्यायेषु विचिकित्स्यानि शीर्षकाणि सन्ति तानि विचार्यन्ते ।
स्वामिनारायणभाष्यकारेण भद्रेशदासस्वामिना केषुचिदध्यायेषु नूतनानि शीर्षकाणि प्रदत्तानि तान्यन्यैर्भाष्यकारैः प्रदत्तेभ्यः शीर्षकेभ्यो भिद्यन्ते, किञ्च विशेषरूपेण ग्रन्थस्थसिद्धान्तदर्शनहेतुकानि सन्ति । यथा च तद् विलोकयामः ।

अध्यायः अन्याचार्यदत्तशीर्षकम् भद्रेशदासदत्तं
शीर्षकम्
हेतुः
द्वितीयः साङ्ख्ययोगः ब्रह्मस्थितियोगः साङ्ख्ययोगविचाराद् ब्रह्मस्थितिनिरूपणस्य
परिमाणतोऽर्थतश्चाधिकत्वात्
चतुर्थः ज्ञानकर्मसंन्यासयोग/
ब्रह्म- यज्ञप्रसंशायोग
अवतारयोगः अवतारनिरूपणस्य
विशिष्टत्वाद् अध्यात्मपथ्यधिकोपयुक्तत्वाच्च
पञ्चमः संन्यासयोगः/
प्रकृतिगर्भयोगः
ब्रह्मनिर्वाणयोगः लभन्ते ब्रह्मनिर्वाणमृषय:-२५,
इतिपरमपुरुषार्थनिरूपणपरकत्वात्
षष्ठः ध्यानयोगः अभ्यासयोगः ध्यानस्यसिद्ध्या अथवा मनसो
विजयेऽभ्यासस्य विशेषरूपेण निरूपणात्
चतुर्दशः गुणत्रयविभागयोगः गुणातीतयोगः अत्रोक्तगुणातीतस्थितेरध्यात्ममार्गे
गुणत्रयविभागादिचिन्तनाद् अभ्यर्हितत्वात्
अष्टादशः मोक्षसंन्यासयोगः शरणागतियोगः गुह्यतमज्ञानरूपेण सर्वधर्मान् परित्यज्य… इति
श्लोकेन शरणागतेरेवोपदेशात्

           तदेवं श्रीमद्भगवद्गीतायां शीर्षकाणां निरूपणं विलोकितम् ।

शास्त्रान्तरेषु शीर्षकाणि
ब्रह्नसूत्राणां शीर्षकाण्यपि शारीरकसूत्राणि, वेदान्तसूत्राणीत्यादिनाम्ना प्रसिद्धानि । तस्य प्रत्येकस्याध्यायस्य, अध्यायस्थपादानां, पादस्थाधिकरणानाम् अपि शीर्षकाणि विषयवाक्यानुसारेण निरूपितविषयानुसारेण विषयवाक्यस्थप्रथमशब्दानुसारेण सूत्रस्थप्रथमशब्दानुसारेण च वर्तन्ते । अत्रापि भाष्यानुसारेण बहुविधं वैविध्यं विलोक्यते ।
एवं ब्रह्मसूत्रभाष्याणां नामानि शङ्कराचार्यस्य शारीरकं भाष्यम्, रामानुजाचार्यस्य श्रीभाष्यम्, वल्लभाचार्यस्याणु-भाष्यम्, गौडीयचैतन्य-सम्प्रदायस्थबलदेवविद्याभूषणस्य गोविन्दभाष्यम्, रामानन्द- सम्प्रदायस्थभगवादाचार्य­विरचितमानन्दभाष्यम्, स्वामिनारायणसम्प्रदायस्थस्वामिभद्रेशदासप्रणीतं स्वामिनारायण­भाष्यमित्यादिकं सम्प्रदायनाम्नाऽथवा स्वसिद्धान्तानुकूलानि शीर्षकाणि दरीदृश्यन्ते ।
तदेवं दर्शनान्तरेषु, काव्यनाटकादिशास्त्रेषु आधुनिकविज्ञानसाहित्येषु नवलकथादिषु लघुमहच्चलच्चित्रेषु सर्वत्र शीर्षकाणां वैशिष्ट्यं विलोक्यते । शीर्षकं विना ग्रन्थो न शोभते यथा मस्तकं विना शरीरम् ।

शीर्षकाणां शैल्यन्तरम्
शीर्षकाणामन्याऽपि विशिष्टा शैली विलोक्यते । ग्रन्थस्य मुख्यशीर्षकानुरूपाण्यवान्तरशीर्षकाणामुपमोपमेय-भावरूपेण नामानि । यथा –

‘हरिचरित्रामृतसागरः’
ग्रन्थेऽस्मिन् सागरपदम् अन्ते निवेशितं तेनावान्तरप्रकरणस्य पूरमिति नाम विलोक्यते । ग्रन्थस्य गुर्जरव्रजमिश्रितभाषाभूषितत्वात् ‘पूर’ शब्देन नद्यादिषु वेगेन समागतं जलसमूहमभिधीयते । तेषां सर्वेषां सागरं प्रति गतिमत्त्वादयं पूरशब्दः सागरेण सह सम्बद्ध्यते । ततश्चावान्तराध्यायानां नामानि तरङ्गपदेन वर्णतानि । तदेवं सागर-पूर-तरङ्ग इति ग्रन्थस्थशीर्षकाणि निर्मितानि ।

‘हरिलीलाकल्पतरुः’
ग्रन्थान्ते वृक्षवाचकस्य ‘तरु’ शब्दस्य संयोजनहेतुनाऽवान्तरप्रकरणानि स्कन्धनाम्ना व्यवहृतानि ।

‘स्वामिनारायणसिद्धान्तसुधा’
ग्रन्थस्यास्य पीयूषशब्दान्तत्वात् तस्य प्रवहमानार्थत्वाच्चावान्तप्रकरणानां नामानि ‘धारा’ इति प्रथितानि । इत्येषापि शैली शीर्षकाणां वर्तन्ते ।

वचनामृतपरिचयः
भगवत्स्वामिनारायणप्रोक्तेन वचनामृतेन गुर्जरभाषा भूषितेति नाविदितं विपश्चिताम्। वचनामृतं गुर्जरभाषायामपि गद्यसाहित्ये शिखरायितम् ।10 आङ्गलभाषातः सर्वथाऽस्पृष्टं मध्यकालीनगुर्जरभाषासाहित्यस्य चरमसमयस्थम् अर्वाचीन- साहित्यस्यारुणोदयवेलास्थमिदम् इति ।11
गुर्जरभाषायामितः पूर्वं प्रायः पद्यसाहित्यमधिकमिति तज्ज्ञानां मतम् । कवीश्वरो नर्मद ईशवीयाब्दात् १८२८ तः कर्नल जेरवीसनामकाङ्गलविदुषो गुर्जरगद्यारम्भम् असूचयत् ।12 परब्रह्मस्वामिनारायणः ईशवीयाब्दे १८३० तमे स्वधाम जगाम । ततः पूर्वं परमहंसैः वचनामृतं सम्पादितम् । अतः गुर्जरगद्ये शिखरायितम् । वचनामृतशीर्षकमपि भगवन्मुखारविन्दान्निः सृतत्वेन मृत्युविजयरूपामृतप्राप्तिहेतुनाऽमृततुल्यत्वेन सार्थकम् ।

गुर्जरसाहित्ये शीर्षकाणामितिहासः
गद्यपद्यसाहित्ये मुख्यं शीर्षकं मामेरु, धीरजाख्यान, सतीगीता इत्यादिकं प्राप्यते । परं प्रत्येकस्मिन् पदे पदसमूहे वा विशिष्टमवान्तरं शीर्षकं प्रायः नावलोक्यते । प्रकरणम्, अध्याय इत्यादिशब्दैरेव तद् विज्ञायते ।13 अवान्तरशीर्षकस्याविर्भावः पश्चात्तनकाले जात इति अनुभूयते । प्रथमं तु गुर्जरभाषागद्यमर्वाचीनम् । अवान्तरशीर्षकाणि तु ततोऽप्यर्वाचीनानि । गुर्जरभाषाया गद्यसाहित्येऽवान्तरशीर्षकारम्भः प्रायः दलपत-नर्मदयुगानन्तरमारब्धः । स च युगः भगवत्स्वामिनारायणस्या-क्षरधामगमनान्तरम् ईशवीयाब्दस्य १९३० तमस्यानन्तरमेव । तस्माद्धेतोर्वचनामृतेषु हस्तलिखितेषु ग्रन्थेष्वपि तन्नावलोक्यते ।14 परं कस्मात् कालात्, केन प्रकारेण कीदृग्वैविध्यभरितानि शीर्षकाणि वचनामृतशास्त्रे प्राप्यन्ते तद्विविच्यते ।

वचनामृतेऽवान्तरशीर्षकाः
वचनामृतग्रन्थेऽवान्तरविभागा मुख्याः २६२ सङ्ख्याकाः सन्ति । प्रत्येकस्मिन् वचनामृते
तत्रावान्तरशीर्षकाणि प्रप्रथमं गोण्डलस्थ-श्रीस्वामिनारायणमन्दिरस्याश्रयेण विक्रमसंवत् २००७तमे वर्षे १९५१ ईशवीयाब्दे
मुद्रिते वचनामृतग्रन्थे ततश्च स्वामिनारायण-अक्षरपीठ-अमदावादनगरात् मुद्रितस्य वचनामृतग्रन्थस्यानेकास्वावृत्तिषु
विलोक्यन्ते । तेषां शोधदृष्ट्या विलोकनेन दश विभागा दृष्टिगोचरा भवन्ति । ते च यथा –

  • वचनामृतस्थविषयानुसारम्
    • अखण्डवृत्तेः ग.प्र.१,
      अस्मिन् वचनामृते भगवन्मूर्तौ अखण्डमनोवृत्तिस्थापनं कठिनतमं साधनमिति वर्णितम्।15
  • वचनामृतगतकेवलार्थानुसारम्
    • देशवासनाया एकादशपदव्याः ग.प्र. ३७,16
      अत्र देशवासनां स्वजङ्घास्थव्रणं दर्शयित्वा निरूपयामास । ततश्चोत्तमभक्तस्य माहात्म्यवर्णने तस्य भक्तस्य
      फलप्राप्तिरेकादशधा वर्णिता। सा च यथा –

      1. तदुपरि कालप्रशासनविरामः।
      2. तदुपरि कर्मप्रशासनविरामः।
      3. तदुपरि मायाप्रशासनविरतिः।
      4. यदीच्छेत्तर्हि स्वयं भगवान् एव तं दण्डयेन्नान्ये केचन।
      5. तस्य पादरजो भगवान् मूर्ध्नि धारयति।
      6. तस्य दर्शनमिच्छति श्रीहरिः।
      7. स नौकामासित्वा समुद्रं तरीतुमिच्छन् तुल्यो धीमान्।
      8. चैतन्यमूर्तिः(ब्राह्मविग्रहः) सन् स भगवद्धाम्नि सदा तिष्ठति।

      एता एकादशपदव्यो वचनामृतेऽस्मिन् एकत्र न सन्ति परन्तु समग्रं वचनामृतं समीक्ष्यते चेत्ताः प्राप्यन्ते, तस्मात् केवलार्थानुसारस्य शीर्षकस्य दृष्टान्तः। अन्यान्यपि तादृशाणि वचनामृशीर्षकाणि सन्ति।

  • वचनामृतगतशब्दोपोतार्थानुसारम्
    • एकैककावस्थायामवस्थाद्वयान्तर्निहितेति सा.६,17
      अत्र जाग्रत्-स्वप्नसुषुप्त्यात्मकतिसृष्ववस्थासु प्रत्येकस्यामन्या द्वेऽवस्थे विद्येते तस्य सुष्ठु निरूपणं वर्तते। जाग्रति स्वप्न-सुषुप्त्यवस्थे, स्वप्ने जाग्रत्सुषुप्त्यवस्थे सुषुप्तौ च जाग्रत्स्वप्नावस्थे इति।
    • अन्वयव्यतिरेकवर्णनम् ग.प्र.७,सा.५, वर.७,
      जीव-ईश्वर-ब्रह्म-परब्रह्मणाम् अन्वयव्यतिरेकलक्षणानि निरूपितानि। अतोऽन्वयव्यतिरेकशब्दोपेतमर्थप्रधानं शीर्षकम्।18
  • वचनामृतस्थशब्दानुसारम्
    • देह-कुसंग-पूर्वसंस्काराणां वर्णनम् ग.प्र.५८. क्रोधि-ईर्ष्यालु-कपटि-मानवताम् ग.प्र.७६, जीवमनसोर्मित्रतायाः ग.अं.६.
      अत्र शीर्षकस्थविषया विविच्य निरूपिताः।19
  • दृष्टान्तानुसारम्
    • जलपूर्णघटनिक्षेपणस्य ग.प्र.२३।एतादृशवचनामृते प्रदत्तो दृष्टान्तः शीर्षके दृश्यते।
      अत्र घटस्थजलस्य सकृत् प्रक्षेपणेन पृथ्वी हरिता न भवति परं स्वल्पा जलधारा सततं वहति चेत् तत्र सरःसदृशं
      जायते इति दृष्टान्तेन भगवत्यनवरतं वृत्तिस्थापनाय प्रयतनीयमिति शिक्षयति।20
  • प्रश्नकर्त्रनुसारम्
    • काकाभाईभक्तस्य – चौरपादलग्नकण्टकस्य ग.प्र.७०, कानदासस्य प्रश्नः वर.२, चिमनरावस्य प्रश्नः वर.६.21
      एते भक्तास्तत्तद्वचनामृते एकधा द्विधा वा अपृच्छन् । तं प्रष्टारमवलम्ब्यैतानि शीर्षकाणि ग्रथितानि।
  • वचनामृतस्थशास्त्रसन्दर्भानुसारम्
    • अंते या मतिः सा गतिः इति श्रुतेः ग.प्र.१४, एकोहं बहुस्यां प्रजायेय इति श्रुतेः ग.प्र.४१, वंदुप्रथमपदकीर्तनस्य ग.म.४८.22
      एतादृशेषु वचनामृतेषु तत्तत् सन्दर्भं श्रीहरिर्निरूपयति। अत्र प्रथमद्वितीययोः सन्दर्भयोः श्रुती न्यरूपयत्। तृतीये च प्रेमानन्दस्वामिकृतकीर्तनं निशम्य तदुपरि भगवत्स्मारकभक्तमाहात्म्यमगायत्।23
  • वचनामृतगतग्रामनामानुसारम्
    • वृन्दावनस्य काश्याश्च ग.अं.१०.24
  • वचनामृतसन्दर्भगतव्यक्तिनामानुसारम्
    • कृतघ्नि – सेवकरामस्य ग.प्र. १०, मांचाभक्तस्य – ग.म. ३८, जनकस्य ज्ञप्तिः, वर. २०, भरतस्याख्यानम्
      ग.अं. १७. सीतासदृशज्ञप्तेः ग.अं.११.25
  • वचनामृतश्रीहरिसंस्थितस्थानानुसारम्
    • जाराख्यधान्यखनेः ग.म. ३५, गङ्गाजलीयकूपस्य , ग.म. ६७.26

वचनामृतशीर्षकेषूपनिषन्नामानि
वचनामृतग्रन्थः खलु भगवन्मुखान्निःसृतत्वाद् वेदतुल्यः प्रामाणिकः । तदुक्तं शतानन्देन मुनिना हरिवाक्य- सुधासिन्धोः सेतुमालाटीकायाश्चचरममङ्गलाचरणे श्रीरघुवीराचार्येण–
हरिवाक्यसुधासिन्धुः सर्वग्रन्थशिरोमणिः । विराजतेऽयं सकलसच्छास्त्रोपरि सर्वथा॥ १॥
सच्छास्त्राणां यथा वेदः प्रमाणमधिकं तथा । ग्रन्थोऽयं सर्वथैवाऽस्ति हरेरास्योद्भवत्वतः॥ २॥
अत एव पण्डितकृष्णवल्लभाचार्येण श्रीहरिवाक्यसुधासिन्धोर्वचनामृतभावानुवादात्मकस्य ग्रन्थस्यावान्तर- प्रकरणानां शीर्षकाण्युपनिषदन्तेन प्रदत्तानि यथा –

  • अखण्डवृत्त्युपनिषद्                                गढपुरप्रथमप्रकरण-१
  • सविकल्पनिर्विकल्पनिश्चयोपनिषद्           लोया-१२
  • श्रीहरिजन्मधारणोपनिषद्                        गढपुरमध्यप्रकरण-४८
  • निर्विकल्पसमाद्युपनिषद्                       वरतालप्रकरण-१
  • मानसीपूजोपनिषद्                                 गढपुरअंत्यप्रकरण-२३

वचनामृतशीर्षकेषु दार्शनिकी दृष्टिः
दार्शनिकी दृष्टिः द्विधा सम्भवति ।

  1. साधारणचिन्तनद्वारा
  2.  सम्प्रदायस्थापकाभिप्राय-तद्धेतुनिरूपणपरा

तत्र प्रथमा उपरोक्तेषु सन्दर्भेषु विलोक्यते । द्वितीयायै विचार्यते -‘मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।।’ (गीता ७/३) इतिवचनानुसारं जनसमवायेषु दार्शनिकी दृष्टिरेव दुर्लभा किमु कथा सिद्धान्त-अभिप्राय-हेतुप्रभृतिकं पक्षे निधाय, वचनामृतरहस्यं साररूपेण सूत्रात्मके शीर्षके संस्थाप्य किमपि प्रदानमिति। सा खलु महती सिद्धिः । अत्र कानिचिच्छीर्षकाण्युदाह्रीयन्ते यत्रैकत्र सैद्धान्तिकदृष्ट्या दार्शनिकदृष्ट्या गुणातीतानन्दस्वामिनः परम्परया प्राप्तेषु वचनामृतेषु सिद्धान्तप्रतिपादकानि शीर्षकाणि विलोक्यन्ते । अत्र चत्वारो दृष्टान्ता दीयन्ते ।

१. ग.प्र.२१ तमसङ्ख्याकम्
वचनामृतमिदं ध्येयं निर्दिशति। तच्च भगवदक्षरधाम, तस्यैव शब्दान् विलोकयामः ‘अक्षरस्य द्वे रूपे भवतः । एकं तु निराकारमैकरसं चैतन्यमस्ति । तच्चिदाकाशं कथ्यते, ब्रह्ममहालयं वा प्रोच्यते । तदेवाऽक्षरञ्च द्वितीयस्वरूपेण पुरुषोत्तमनारायणस्य सेवायामवतिष्ठते । (स्थानरूपम्) अक्षरधाम प्राप्तवान् भक्तो (मूर्तरूपस्य) अक्षरस्य साधर्म्यं प्राप्य पुरुषोत्तमनारायणस्याखण्डसेवायाम् (मूर्ताक्षरवद्) अवतिष्ठते। …तत्राक्षरधाम्नि अक्षरस्य साधर्म्यं प्राप्ता अनन्तकोटिमुक्ताः स्थिताः, ते सर्वे वर्तन्ते दासभावेन श्रीपुरुषोत्तमस्य । …अतः सर्वैः सत्सङ्गिभिर्निश्चयोऽत्र कार्यो यद् बृहत् तदक्षरधाम प्राप्य तन्मुक्तपङ्क्तौ (मूर्ताक्षरब्रह्मसाधर्म्यप्राप्तमुक्तपङ्क्तौ) स्थातव्यम् । अक्षरधाम गत्वाऽखण्डभगवत्सेवायां स्थातव्यमिति, परन्तु नश्वरं तुच्छं मायिकसुखं न कामयितव्यं नच कुत्रापि लुब्धव्यम् । एतादृशदृढनिश्चयं संरक्ष्य भगवत एकान्तिकी भक्तिर्विधेया ।’27
अत्राक्षरब्रह्मणो रूपद्वयं विशेषरूपेण कीर्तितम् । एकं भगवद्धारूपेण सर्वान् धत्ते, द्वितीयञ्च साधकानामादर्शरूपमिति ग्रन्थावलोकनेन विज्ञायते । किञ्च भगवद्धामापि मूर्तं सन् भगवन्तं सेवते तन्नवीनम् । अत एव तस्य शीर्षके लेखनमुचितम् । तच्च गुणातीतानन्दस्वामिपरम्पराप्राप्तग्रन्थे विलोक्यते । यथा च तत् –
‘अक्षरब्रह्मणः स्वरूपद्वयस्य, एकान्तिकभक्तेः’ इति ।

२. ग.प्र.७१तमसङ्ख्याकम्
अस्मिन् वचनामृते – ‘जीवानां निःश्रयसे भगवान् यदा नरवपुर्धारयति तदा स्वीयाक्षरधाम्ना, चैतन्यमूर्तिपार्षदैः, निजैः सर्वैश्वर्यैः सहावतरति । …तस्माद् भगवत्स्वरूपं साक्षरधाम पृथिव्यां विराजत इति विज्ञेयमन्येषां समीपे चेयं वार्ता कथनीया।’28 इत्येवमुपसंहारे श्रीहरिणाऽऽदिष्टाः सर्वे निजाश्रिताः। अस्मिन् वचनामृतेऽन्या अपि वार्ता भगवद्भक्तापराधनिषेध-साकारत्व-निरूपण-ईर्ष्यास्वरूपादिका विलोक्यन्ते । परं सिद्धान्तदृष्ट्या यद्विषयव्याहरणे स्वयं भगवान् आदिदेश सैव वार्ता तात्त्विक-दार्शनिकदृष्ट्योपकारिणीति । सा गुणातीतानन्दस्वामिपरम्परया प्राप्ते शीर्षके विलोक्यते –
‘भगवत्स्वरूपं साक्षरधाम विराजते तस्य’ इति ।

३. ग.म.९ सङ्ख्याकम्
वचनामृतेऽस्मिन् भगवत्स्वरूपस्य बलधारणवार्ता विद्यते । तद्घटकतया भगवत्स्वरूपस्य माहात्म्यं याथार्थ्येन श्रीहरिर्वदति । यथा च – ‘तस्मात्स्वेन प्राप्तं भगवत्स्वरूपं सदा दिव्यं साकारमूर्तिकं सर्वावताराणां कारणमिति विज्ञेयम् । यश्चैवं न जानीयान्निराकारं विभवान्तरतुल्यञ्च जानीयात् स खलु भगवतो द्रोग्धेति विज्ञेयम् ।’29
प्रत्यक्षसहजानन्दं परब्रह्मभगवन्तमन्यैरवतारैस्तुल्यं न जानीयादिति खलु वैशिष्ट्यम् । अत एव गुणातीतानन्द- स्वामिपरम्परायां प्राप्तं शीर्षकमस्ति –
‘अवतारसदृशविज्ञानेन भगवद्द्रोहः’ इति ।

४. वच.ग.म.४२ सङ्ख्याकम्
अस्मिन् वचनामृते मुख्यो विषयोऽक्षरब्रह्मणः सगुणनिर्गुणरूपेण माहात्म्यम् । भगवन्माहात्म्यविज्ञानेऽक्षरब्रह्म- माहात्म्यं सेतुरूपम् ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।’ इति काठकोपनिषदुक्तेः । भगवान् स्वामिनारायणोऽपि वचनामृते परमात्मनो माहात्म्यकथनावसरे ग.प्र.५१, ६३, ६४ लो.१३ पं.१ ग.म.३ इत्यादिष्वक्षरब्रह्मणो माहात्म्यमवश्यं कथयति । अत एव परब्रह्मणोऽक्षरातीत एव विशेषणं सर्वश्रेष्ठमिति कथ्यते । अत एवास्मिन् वचनामृते भगवान् कथयति ‘पुरुषोत्तमो भगवान् प्रति ब्रह्माण्डं यथा स्वं रूपं प्रकाशनीयं तथा प्रकाशयति स्वयञ्चाक्षरधाम्नि सदैव निवसति । यत्र च पुरुषोत्तमस्य मूर्तिस्तत्राक्षरधाम्नो मध्यमिति विज्ञेयम्’ इति ।
गृहस्य वाऽन्यस्योद्घाटने यथा कुञ्चिकायाः स्थानं तथैव भगवन्माहात्म्योद्घाटने तथा तद्द्वारा चात्यन्तिककल्याणप्रापणेऽक्षरब्रह्मणः स्थानमिति । एवंरीत्याऽन्वयव्यतिरेकेणाक्षरब्रह्मणो माहात्म्यस्य भगवन्माहात्म्ये वैशिष्ट्यं विलोक्यास्य वचनामृतस्य शीर्षके कुञ्चिकाया इति परम्पराविचक्षणैः संस्थापितम् ।
‘सगुणत्वनिर्गुणत्वमक्षरब्रह्मणः, कुञ्चिकायाः’ इति ।

उपसंहारः
इत्येवंरीत्या शीर्षकाणामितिहासस्तेषां वैविध्यं तेषु दार्शनिकदृष्टीत्यादिकमत्र प्रतिपादितम् । अत्र वचनामृतशीर्षकाणि गोण्डलस्थश्रीस्वामिनारायण मन्दिरस्याश्रयेण मुद्रिताद् वचनामृतग्रन्थान्नीतानीति प्राक् कथितम् । तस्मिन् द्वितीयमुखपृष्टेऽक्षरब्रह्मणो गुणातीतानन्दस्वामिनश्चित्रमूर्तिं मुद्रित्वा तदधो लिखितमस्ति ‘वचनामृस्य रहस्यविज्ञाता तथा तं विज्ञापयिता सद्गुरुगुणातीतानन्दस्वामी’इति।30 भगवन्माहात्म्यविज्ञाने कुञ्चिकारूपोऽक्षरब्रह्मावतार एव वचनामृतानि सम्यग् ज्ञात्वा शीर्षकाणि प्रदातुं समर्थः इति दार्शनिक- दृष्टियुक्तशीर्षकाणि विलोक्य निश्चित्य कथयितुं न मनोऽवरुध्नाति ।
द्वितीयञ्च स्वामिनारायणाक्षरपीठप्रकाशितं वचनामृतं शीर्षकेषूपर्युक्तमेव वचनामृतग्रन्थं प्रायः अनुसरति । यतो हि स्वामिनारायणाक्षरपीठस्य मातृसंस्थायाः बोचासणवासीश्रीअक्षरपुरुषोत्तमसंस्थायाः स्थापकः स्वामी यज्ञपुरुषदासः शास्त्रिमहाराजस्तदनुयायिगुणातीतगुरवो योगिमहाराजः प्रमुखस्वामिमहाराजो महन्तस्वामिमहाराजश्च गुणातीतानन्द-स्वामिना भगवत्स्वामिनारायणस्य यद्रहस्य-सिद्धान्तज्ञानं निरूपितं तदेव गुणातीतज्ञानमनुसरन्तीति शीर्षकेतिहासा-वलोकनेनापि विज्ञायते ।

चित्रपट्टम्-१: કવિ શામળ ભટ, સુડાબહોતરી, પ્ર. પુરુષોત્તમ ગીગાભાઈ પટેલ, ભાવનગર, ૧૯૨૩.

चित्रपट्टम्-२

चित्रपट्टम्-३

सन्दर्भग्रन्थसूचिः

  • Mudgal S.G., Vaidikatva in indian philosophy and religion, AARSH, Gandhinagar, First Edition, 1996.
  • स्वामी भद्रेशदासः, ईशाद्यष्टोपनिषत्स्वामिनारायणभाष्यम्, स्वामिनारायण अक्षरपीठ, अमदावाद, प्रथमा आवृत्ति, २००९.
  • स्वामी भद्रेशदासः, बृहदारण्यकोपनिषत्स्वामिनारायणभाष्यम्, स्वामिनारायण अक्षरपीठ, अमदावाद, प्रथमा आवृत्ति, २००९.
  • केनाद्युपनिषत्पुरुषसूक्तश्रीसूक्तभाष्यम्, उत्तमूर टी. वीरराघवाचार्य, मद्रास, प्रथम आवृत्ति, १९७२.
  • Māṇḍūkyopaniṣad, Swami Shivananda, Sri Ramakrishna Math, Madras, Fourth Edition, 1939.
  • मुण्डक-उपनिषद् और माण्डूक्योपनिषद्, पण्डत राजाराम प्रोफेसर, लाहौर,तृतीय आवृत्ति १९२२.
  • શ્રીઉપનિષદો, અમરજી આનંદજી કચ્છી, પોરબંદર,પ્રથમ આવૃત્તિ, ૧૯૦૩.
  • भारतकोश, ओनलाईन वेबसाईट.
  • श्रीमद्भगवद्गीता, शाङ्करभाष्याद्येकादशटीकोपेता, साधले गजानन शम्भु, परिमल पब्लिकेशन, दिल्ली, प्रथम संस्करण, १९९२, भाग १-३.
  • स्वामी भद्रेशदासः, श्रीमद्भगवद्गीतास्वामिनारायणभाष्यम्, स्वामिनारायण अक्षरपीठ, अमदावाद, प्रथमा आवृत्ति, २००९.
  • ચૌધરી રઘુવીર, સ્વામિનારાયણ સંતસાહિત્ય, બોચાસણવાસી શ્રીઅક્ષરપુરુષોત્તમ સંસ્થા, અમદાવાદ, પ્રથમ સંસ્કરણ,૧૯૮૧.
  • કવિ શામળ ભટ, સુડાબહોતરી, પ્ર. પુરુષોત્તમ ગીગાભાઈ પટેલ, ભાવનગર, પ્રથમ આવૃત્તિ, ૧૯૨૩.
  • વચનામૃત, હસ્તલિખિત, આર્ષ શોધ સંસ્થાન, પુરાલેખાગાર એસીસી-૮૫.
  • વચનામૃત, શ્રીસ્વામિનારાયણમંદિર, ગોંડલના આશ્રયે છપાવેલ, રાજકોટ, પ્રથમાવૃત્તિ, ૧૯૫૧.
  • વચનામૃત, સ્વામિનારાયણ અક્ષરપીઠ, અમદાવાદ, ૨૫મી આવૃત્તિ, ૨૦૦૮
You might also like
Menu